नारकिकृतश्रीनृसिंहस्तोत्रम्
श्रीगणेशाय नमः ॥
ओन्नमो भगवते तस्मै केशवाय महात्मने ।
यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति ॥ १॥
भक्तप्रियाय देवाय परस्मै हरये नमः ।
लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ २॥
अनन्तायाप्रमेयाय नरसिंहाय ते नमः ।
नारायणाय गुरवे शङ्खचक्रगदाभृते ॥ ३॥
वेदप्रियाय महते विक्रमाय नमो नमः ।
वराहायाप्रतर्क्याय वेदाङ्गाय महीभृते ॥ ४॥
नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः ।
वामनाय बहुज्ञाय वेदवेदाङ्गधारिणे ॥ ५॥
बलिबन्धनदत्ताय वेदपालाय ते नमः ।
विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ ६॥
चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः ।
जामदग्न्याय रामाय दुष्टक्षत्रान्तकारणे ॥ ७॥
रामाय रावणान्तकाय नमस्तुभ्यं महात्मने ।
अस्मानुद्धर गोविन्द पूतिगन्धिन्नमोऽस्तु ते ॥ ८॥
स्तोत्रमेतत्पठेद्यस्तु निरयान्मुच्यते च सः ।
नास्त्यत्र संशयः स्वल्पः प्रत्यहं पाठमाचरेत् ॥ ९॥
इति श्रीनृसिंहपुराणे नारकिकृतं श्रीनृसिंहस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com