श्रीमन्नारायणाष्टाक्षरीस्तुतिः
ॐ नमो नारायणाय ।
ॐ- नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर ।
व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः ॥ १॥
न- नमो देवादिदेवाय देहसञ्चारहेतवे ।
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २॥
मो- मोहनं विश्वरूपं च शिष्टाचारसुपोषितम् ।
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३॥
ना- नारायणाय नव्याय नरसिंहाय नामिने ।
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४॥
रा- रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम् ।
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५॥
य- यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च ।
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६॥
णा- णाकारं लोकविख्यातं नानाजन्मफलप्रदम् ।
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७॥
य- यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः ।
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८॥
ॐकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः । (ॐकारबिन्दुसंयुक्तं)
कामदं मोक्षदं तस्मै ॐकाराय नमो नमः ॥ ९॥
नारायणः परं ब्रह्म नारायणः परं तपः ।
नारायणः परो देवः सर्वं नारायणस्सदा ॥ १०॥
ॐ नमो नारायणाय ।
इति नारायणाष्टाक्षरीस्तुतिः समाप्ता ।