अष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रम्
श्रीगणेशाय नमः ।
अथ ध्यानम्-
हृदयसुखदमेकं नित्यमानन्दकन्दं
परमपदमनन्तं पूर्णबोधात्मरूपम् ।
अगुणसगुणमेवं श्यामलं दिव्यमूर्तिं
कमलनयनकृष्णं ब्रह्मरूपं नमामि ॥
अथ स्तोत्रम्-
जगद्वन्द्यं जगद्पूज्यं जगत्कारणकारणम् ।
जगदाधार श्रीकृष्णं तं वन्दे मुरलीधरम् ॥ १॥
सगुणं सुन्दरं श्यामं दर्शनीयं मनोहरम् ।
हृत्पद्माष्टदलावासं तं वन्दे मुरलीधरम् ॥ २॥
मुखं चन्द्रसमं यस्य ज्योतिःसूर्यसमं परम् ।
साक्षात् नारायणं कृष्णं तं वन्दे मुरलीघरम् ॥ ३॥
रक्तपद्मसमं नेत्रं रक्तपद्मसमं पदम् ।
नीलाम्बुजश्यामलाङ्गं तं वन्दे मुरलीधरम् ॥ ४॥
पद्मस्य मालया चैव शोभितं वनमालया ।
तुलसीमालयायुक्तं तं वन्दे मुरलीधरम् ॥ ५॥
मुद्रिकाकङ्कणं रम्यं रत्नैर्जटितकुण्डलम् ।
सुवर्णपादुका यस्य तं वन्दे मुरलीधरम् ॥ ६॥
मयूरपुङ्खसंयुक्तं नानारत्नैश्व निर्मितम् ।
मुकुटं कान्तिदं यस्य तं वन्दे मुरलीधरम् ॥ ७॥
करयोः कङ्कणं वेणुः शिवात्प्राप्तं सुदर्शनम् ।
कौस्तुभं हृदये यस्य तं वन्दे मुरलीधरम् ॥ ८॥
सुगन्धिद्रव्यसंयुक्तं श्रीखण्डाख्यं पवित्रकम् ।
ललाटे शोभितं यस्य तं वन्दे मुरलीधरम् ॥ ९॥
कस्तूरीतिलकं दिव्यं पीताम्बरधरं प्रभुम् ।
कृष्णं च परमानन्दं तं वन्दे मरलीघरम् ॥ १०॥
श्यामं नटवरं कृष्णं बाललीलाकरं प्रभुम् ।
पित्रोश्च सुखदं नित्यं तं वन्दे मुरलीघरम् ॥ ११॥
कदाचित् शकटस्याऽपि पादाभ्यां ताडनात्परम् ।
पातनं वितितं येन तं वन्दे मुरलीधरम् ॥ १२॥
पूतनायाः पयः पीत्वा प्राणं संशोष्य तत्क्षणात् ।
शान्तिर्वितरिता येन तं वन्दे मुरलीधरम् ॥ १३॥
कदाचित् मृत्तिकां भुक्त्वा नैव भुक्तं मयेति वै
मातरं छलकर्तारं तं वन्दे मुरलीधरम् ॥ १४॥
दृश्यतां वदनं मातः कथयित्वैव मातरम् ।
विश्वस्य दर्शकं देवं तं वन्दे मुरलीधरम् ॥ १५॥
कदाचिदिति हे मातः! स्वाद्विष्टं दधिदीयताम् ।
दधियाचनकर्तारं तं वन्दे मरलीधरम् ॥ १६॥
कदाचिज्जातरोषः सन् दधिदुग्धस्य भाजनम् ।
भित्वा रोदनकर्तारं तं वन्दे मुरलीधरम् ॥ १७॥
कदाचित्घृतचौर्याथं गोपीगेहमुपागतम् ।
घृतदध्यादि भोक्तारं तं वन्दे मुरलीधरम् ॥ १८॥
मातुः परिश्रमं ज्ञात्वा स्वयं दाम्नैवबन्धनात् ।
दामोदर इति ख्यातं तं वन्दे मुरलीधरम् ॥ १९॥
यशोदा प्राङ्गणे नित्यं वंशीवादनपूर्वकम् ।
नर्तनं कृतवन्तं च तं वन्दे मुरलीधरम् ॥ २०॥
कदाचित् -नर्तनान्ते तु धूलिधूसरविग्रहम् ।
देवक्याः प्राङ्गणेऽटन्तं तं वन्दे मुरलीधरम् ॥ २१॥
गोपीनां बालकान् सर्वानाहूय नर्तनाय वै ।
दिव्यनर्तनकर्तारं तं वन्दे मुरलीधरम् ॥ २२॥
सवेणुं नर्तनं कृत्वा गोपीमानसमोहनम् ।
स्वयं मोहनरूपं च तं वन्दे मुरलीधरम् ॥ २३॥
मथुरायामभूद्जन्म लीला यस्य च गोकुले ।
वृन्दावनकिशोरञ्च तं वन्दे मुरलीधरम् ॥ २४॥
वृन्दावनविहाराय वृन्दावननिवासिनम् ।
वृन्दावनात्मरूपं च तं वन्दे मुरलीधरम् ॥ २५॥
सुरम्यं मधुरं स्वच्छं वंशीवादनपूर्वकम् ।
गोपीनां चित्तहर्तारं तं वन्दे मुरलीधरम् ॥ २६॥
राधया लालितं यस्य चरणाम्बुजमक्षयम् ।
गोपीभिर्वेष्टितं कृष्णं तं वन्दे मुरलीधरम् ॥ २७॥
गोपीमध्ये स्वयं कृष्णो गोपीकृष्णस्य चान्तरे ।
रासलीलाकरं कृष्णं तं वन्दे मुरलीधरम् ॥ २८॥
सर्वसौन्दर्यसम्पन्नं माधुर्याचित्तहारकम् ।
सर्वैश्वर्यसुसम्पन्नं तं वन्दे मुरलीधरम् ॥ २९॥
वसुदेवसुपुत्रं च लोकवन्द्यं जगत्प्रियम् ।
श्रीनाथं द्वारिकानाथं तं वन्दे मुरलीधरम् ॥ ३०॥
बलरामानुजं वन्द्यं पूजनीयं मनोहरम् ।
राधिकाऽऽराधितं कृष्णं तं वन्दे मुरलीधरम् ॥ ३१॥
जाम्बवत्याःपतिं कान्तं दिव्यं श्यामलकोमलम् ।
देवकीतनयं कृष्णं तं वन्दे मुरलीधरम् ॥ ३२॥
द्विभुजं रुक्मिणीनाथं प्रद्युम्नजनकं हरिम् ।
आधारं जगतामेकं तं वन्दे मुरलीधरम् ॥ ३३॥
मायामोहिनीरूपेण मोहनार्थाय शङ्करम् ।
प्रसिद्धमोहिनीरूपं तं वन्दे मुरलीधरम् ॥ ३४॥
मार्कण्डेयमुनिं मायादर्शनार्थं सुबालकम् ।
शयानं वटपत्रे च तं वन्दे मुरलीधरम् ॥ ३५॥
गोविन्दं गोपिकानाथं गोपालं गोसुरक्षकम् ।
गोवर्धनधरं देवं तं वन्दे मुरलीधरम् ॥ ३६॥
केशवं माधवाख्यातं रामनारायणात्मकम् ।
व्यापकं विष्णुरूपं च तं वदै मुरलीधरम् ॥ ३७॥
सर्वेन्द्रियाणां द्रष्टारं सर्वेशं गरुडध्वजम् ।
सर्वस्यात्मस्वरूपं च तं वन्दे मुरलीधरम् ॥ ३८॥
गुरुं सर्वत्र सर्वेषां प्राणिनां स्वामिनं तथा ।
पूज्यपादस्वरूपं च तं वन्दे मुरलीधरम् ॥ ३९॥
सुमङ्गलं पदं यस्य साधवश्चाधिकारिणः ।
पश्यन्ति भगवद्भक्ताः तं वन्दे मुरलीधरम् ॥ ४०॥
सुकोमलस्वरूपं यं ध्यायन्ति योगिनः सदा ।
गायन्ति सस्वरा वेदास्तं वन्दे मुरलीधरम् ॥ ४१॥
ब्रह्मा तथैव रुद्रश्व इन्द्राग्निवरुणाहियम् ।
जानन्ति द्वादशादित्यास्तं वन्दे मुरलीधरम् ॥ ४२॥
नारदात्रिभृगुब्रह्मवसिष्ठसनकादयः
ध्यायन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४३॥
मार्कण्डेयस्तथागार्ग्यो वाल्मीकिः कपिलोमुनिः ।
स्मरन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४४॥
ऋषयो मनसाध्यात्वा पश्यन्ति चरणाम्बुजम् ।
यस्यार्चयन्ति वै देवास्तं वन्दे मुरलीधरम् ॥ ४५॥
व्यासश्च शुकदेवश्च ध्रुवः प्रह्लादः एव च ।
नमन्ति यत्पदं नित्यं तं वन्दे मुरलीधरम् ॥ ४६॥
षडैश्वर्य सुसम्पन्नं ज्ञानवैराग्यदं शिवम् ।
उत्तमं भक्तियुक्तं च तं वन्दे मुरलीधरम् ॥ ४७॥
परम्ब्रह्म स्वयं कृष्णं धर्मस्थापनकारणम् ।
नाना रूपधरं दिव्यं तं वन्दे मुरलीधरम् ॥ ४८॥
प्रलयाब्धिजलाद्वेदमुत्थाप्य स्थापनं कृतं
मीनरूपधृतं येन तं वन्दे मुरलीधरम् ॥ ४२॥
देवकार्यस्य सिध्यर्थं मलयाचल धारकम् ।
कूर्मरूपधरं कृष्णं तं वन्दे मुरलीघरम् ॥ ५०॥
पातालात्पृथिवीं धृत्वा दंष्ट्राभ्यां स्थापनं कृतम् ।
येन वाराहरूपेण तं वन्दे मरलीघरम् ॥ ५१॥
न मानुषं न सिंहं च नृसिंहरूपधारकम् ।
प्रह्लादरक्षकं देवं तं वन्दे मुरलीधरम् ॥ ५२॥
त्रिलोकं व्याप्य पद्भ्यां वै बलिमानविमर्दनम् ।
वटुं वामनरूपं च तं वन्दे मुरलीधरम् ॥ ५३॥
जमदग्निसुपुत्रं च परशुरामनामकम् ।
तपस्विनं ज्ञानवन्तं तं वन्दे मुरलीधरम् ॥ ५४॥
राक्षसं रावणं हन्तुं रक्षितुं जानकीमपि ।
रामरूपधरं देवं तं वन्दे मुरलीघरम् ॥ ५५॥
रमन्ते योगिनो यस्मिन् रामाख्यं परमं प्रभुम् ।
मर्यादापुरूषं देवं तं वन्दे मुरलीधरम् ॥ ५६॥
संसारसाररूपं च सर्वेषां प्राणिनां प्रियम् ।
तारकं रामनाम्नैव तं वन्दे मुरलीधम् ॥ ५७॥
कंसं हन्तुं जगत्सर्वं रक्षणार्थं सनातनम् ।
स्वयं श्रीकृष्णरूपं च तं वन्दे मुरलीधरम् ॥ ५८॥
नास्तिकानां मतं हन्तुं कर्तुं धर्मस्यपालनम् ।
धृतबुद्धावतारं च तं वन्दे मुरलीधरम् ॥ ५९॥
म्लेच्छान् विनाश्य सत्यस्य स्थापनाय नृविग्रहम् ।
धृतकल्क्यवतारश्च तं वन्दे मुरलीधरम् ॥ ६०॥
ज्ञानिनामग्रगण्यं च त्रिमूर्तिरूपधारकम् ।
दत्तात्रेयस्वरूपं च तं वन्दे मुरलीधरम् ॥ ६१॥
ऋषभश्चैव हंसश्च शुकश्च कपिलादयः ।
यस्यावतारभूताव तं वन्दे मुरलीधरम् ॥ ६२॥
अष्टादशपुराणानि येन संरचितानि च ।
प्रसिद्धं व्यासनामानं तं वन्दे मुरलीधरम् ॥ ६३॥
यान्यन्यान्य च रूपाणि ख्यातानि जगतीतले ।
तानि यस्यैव सर्वाणि तं वन्दे मुरलीधरम् ॥ ६४॥
तेषां मध्येऽवताराणां साक्षात् विष्णोः स्वरूपकम् ।
कृष्णनाम्ना समाख्यातं तं वन्दे मुरलीधरम् ॥ ६५॥
अलौकिकमिदं रूपं कृष्णनाम्ना समीरितम् ।
कलाषोडशसम्पन्नं तं वन्दे मुरलीधरम् ॥ ६६॥
चिन्मात्रमेकं सृष्टयादौ परब्रह्म द्वितीयकम् ।
स्वेच्छयात्त त्रिरूपं वै तं वन्दे मुरलीधरम् ॥ ६७॥
महेशश्च हरिर्ब्रह्मा त्रयमेकात्मकेवलम् ।
सृष्टयर्थ त्रिगुणात्मानं तं वन्दे मुरलीधरम् ॥ ६८॥
उत्पत्तौ ब्रह्मरूपं च हरिरूपञ्च पालने ।
प्रलये शिवरूपं च तं वन्दे मुरलीधरम् ॥ ६९॥
सर्वेषां प्राणिनां प्राणमाधारं चैव केवलम् ।
जगतामात्मरूपं च तं वन्दे मुरलीधरम् ॥ ७०॥
अज्ञानां मानवदृशां दूरमप्राप्तिकारणम् ।
ज्ञानिनां हृदि संविष्टं तं वन्दे मुरलीधरम् ॥ ७१॥
अन्तर्वहिश्च सर्वत्राधश्चोर्ध्वञ्चैव सर्वतः ।
व्यापकं ह्यात्मरूपेण तं वन्दे मुरलीधरम् ॥ ७२॥
यस्मादाकाशवायूश्च अनलश्च जलं तथा ।
जायन्ते पृथिवी कृष्णात् तं वन्दे मुरलीधरम् ॥ ७३॥
चित्तञ्चाहङ्कृतिबुद्धिश्चेन्द्रियाणि मनस्तथा ।
यस्मात् कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७४॥
सर्वे देवाश्च वेदाश्च शास्त्राणि विविधानि च ।
यस्मात्कृष्णात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७५॥
भुवनानि च सर्वाणि सप्तलोकाश्च सागराः ।
यस्याद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७६॥
स्थावरा जङ्गमाः सर्वे प्राणिनो भोगकारिणः ।
यस्माद्देवात् प्रजायन्ते तं वन्दे मुरलीधरम् ॥ ७७॥
एते सर्वे विलीयन्ते यस्मिन् त्रैकोक्यकारणे ।
सर्वेषामात्मनि कृष्णे तं वन्दे मुरलीधरम् ॥ ७८॥
अरूपं च स्वरूपं च नानारूपं च केवलम् ।
अशक्यं कथितुं देवं तं वन्दे मुरलीधरम् ॥ ७९॥
वेदान्तवेद्यं चिन्तमात्रं ब्रह्माख्यं परमम्पदम् ।
अद्वितीयस्वरूपं च तं वन्दे मुरलीधरम् ॥ ८०॥
श्रेष्ठाः ब्रह्मविदश्चैव ब्रह्मजानन्ति यत्पदम् ।
साक्षात्सर्वात्मरूपं च तं वन्दे मुरलीधरम् ॥ ८१॥
सर्वदास्मृतिवाक्यैश्च कथ्यते यत्परात्परम् ।
केवलं ब्रह्मचिद्रूपं तं वन्दे मुरलीधरम् ॥ ८२॥
आत्मप्रदीपरूपं च साक्षिरूपं सनातनम् ।
अनन्तशक्तिरूपं च तं वन्दे मुरलीधरम् ॥ ८३॥
मूलप्रकृतिरूपं च तथैव प्रकृतेः परम् ।
परब्रह्मस्वरूपञ्च तं वन्दे मुरलीधरम् ॥ ८४॥
कैवल्यनाथमव्यक्तमजं कुटस्थमव्ययम् ।
निर्वाणे परमानन्दं तं वन्दे मुरलीधरम् ॥ ८५॥
परात्परं परोक्षञ्च साक्षाद्ब्रह्म परं पदम् ।
चिन्मात्रं केवलानन्दं तं वन्दे मुरलीधरम् ॥ ८६॥
स्वयमानन्दरूपं च ज्योतिरूपं सनातनम् ।
निजमेकाक्षरं ब्रह्म तं वन्दे मुरलीधरम् ॥ ८७॥
आद्यन्तरहितं पूर्णं केवलं परमं पदम् ।
परानन्दं परकाष्ठं तं वन्दे मुरलीधरम् ॥ ८८॥
त्रिकालावाध्य सद्रूपं चिद्रूपं ज्ञान निर्मलम् ।
आनन्दं सुखरूपं च तं वन्दे मुरलीधरम् ॥ ८९॥
चिद्रूपं सुखमानन्दं सच्चिदानन्दलक्षणम् ।
एवं लक्षणसम्पन्नं तं वन्दे मुरलीधरम् ॥ ९०॥
अकारं विश्वरूपञ्च ह्युकारं तैजसात्मकम् ।
प्राज्ञं मकाररूपञ्च तं वन्दे मुरलीधरम् ॥ ९१॥
ओमित्यक्षरमानन्दमेकं चैवाद्वितीयकम् ।
सर्वेषां बीजरूपं वै तं वन्दे मुरलीधरम् ॥ ९२॥
सर्वात्मरूपमेकं च निजात्मानन्दमव्ययम् ।
हृद्याकाशस्थितं नित्यं तं वन्दे मुरलीधरम् ॥ ९३॥
जाग्रदादित्रयावस्थाव्यापकं भिन्नमेव च ।
केवलं साक्षिमात्रं च तं वन्दे मुरलीधरम् ॥ ९४॥
शब्दादिविषयाद्भिन्नमिन्द्रियातीतमद्वयम् ।
साक्षिरूपञ्चसर्वेषां तं वन्दे मुरलीधरम् ॥ ९५॥
भविष्याद्वर्तमानाच्च भूतकालाच्च यत् परम् ।
ताटस्थ्येन विद्यमानं तं वन्दे मुरलीधरम् ॥ ९६॥
सूक्ष्मादत्यन्तसूक्ष्मं च चिन्मयं मानसात्परम् ।
स्थूले महाविराटं च तं वन्दे मुरलीधरम् ॥ ९७॥
अजरामरमेकं च निष्क्रियं निर्गुणं तथा ।
निजबोधस्वरूपं च तं वन्दे मुरलीधरम् ॥ ९८॥
एक नित्यं च पूर्ण च ब्रह्मचिन्मात्रकेवलम् ।
सदाऽऽनन्दस्वरूपं च तं वन्दे मुरलीधरम् ॥ ९९॥
निष्कलङ्क निराख्यातं निर्मलं च निरञ्जनम् ।
निर्विकल्पस्वरूपं च तं वन्दे मुरलीधरम् ॥ १००॥
ऊर्ध्वं ह्यधोवहिश्चान्तरनन्तं चैव केवलम् ।
दूरान्तिकं च सर्वत्र तं वन्दे मुरलीधरम् ॥ १०१॥
सर्वदा निर्गुणं नित्यं सगुणं चापि कर्हिचित् ।
द्विभुजं सुन्दरं कृष्णं तं पन्दे मुरलीधरम् ॥ १०२॥
बुद्धेरन्तर्गुहामध्ये कमलेऽष्टदलात्मके ।
कोटिसूर्यसमाभासं तं वन्दे मुरलीधरम् ॥ १०३॥
भक्तानां निर्मले चित्ते वसन्तं ज्ञानदं शुभम् ।
मोक्षदं कृष्णनामानं तं वन्दे मुरलीधरम् ॥ १०४॥
यत्र गत्वापुनर्जन्म नैव प्राप्नोति मानवः ।
कैवल्यमुक्तिधामाख्यं तं वन्दे मुरलीधरम् ॥ १०५॥
निष्कामा भगवद्भक्ता गच्छन्ति ब्रह्मयत्पदम् ।
तद्पदं ब्रह्मधामाख्यं तं वन्दे मुरलीधरम् ॥ १०६॥
सकलाधारमात्मानं भर्तारं प्राणिनां सदा ।
गुह्याद्गुह्यतरं कृष्णं तं वन्दे मुरलीधरम् ॥ १०७॥
अत्यन्तानन्दरूपं च शोभनानां च शोभनम् ।
प्रसन्नवदनं कृष्णं तं वन्दे मुरलीघरम् ॥ १०८॥
अष्टोत्तर श्लोकशतं पवित्रं
हरे प्रपन्नः मुरलीधरात्मकम् ।
बध्वाञ्जलिं कृष्ण परात्पराय
सच्चित्स्वरूपाय समर्पयामि ॥ १०९॥
कृष्णस्य दिव्यं मुरलीधराख्य-
मष्टोत्तरश्लोकशतात्मकं स्तवम् ।
पठन्ति बद्धाञ्जलियोजना ये
मुकुन्दपादाम्बुजचिन्तने रताः ॥ ११०॥
शृण्वन्ति श्रद्धासहितं दिने दिने
गायन्ति वा भक्तजनस्य सन्निधौ ।
इच्छन्ति यद्यत् फलमाप्य तत्तद्
गच्छन्ति वैकुण्ठपदं हरेः प्रियम् ॥ १११॥
अष्टोत्तरशतावृत्तिं पठन्ति विधिपूर्वकम् ।
ये ते सर्वविधां सिद्धिं प्राप्नुवन्ति न संशयः ॥ ११२॥
जन्माष्टम्यां हरिं नत्वा निराहारव्रती नरः ।
शतावृतिं पठित्वा च फलमीप्सितमाप्स्यति ॥ ११३॥
निष्कामभावसंयुक्तो पठन् जन्माष्टमी दिने ।
वैकुण्ठवासमाप्नोति नैवजन्म पुनर्भवेत् ॥ ११४॥
उत्तमे कार्तिके मासे मुरलीधर संज्ञकम् ।
स्तोत्रं पठन्ति ये तेषां प्रसन्नोभगवान् हरिः ॥ ११५॥
पठन्ति हरिबोधिन्यां शतावृत्तिं तु ये जनाः ।
इहैश्वर्यसुखं भुक्त्वा यान्त्यन्ते श्रीहरेः पदम् ॥ ११६॥
इति श्रीगायत्रीस्वरूप ब्रह्मचारिणा विरचित-
मष्टोत्तरशतश्लोकात्मकं मुरलीधरस्तोत्रं सम्पूर्णम् ॥
Proofread by Vani V