श्रीमुरलीधरगोपालाष्टकम्
%४६
नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् ।
शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १॥
सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि ।
कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २॥
यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः ।
बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३॥
अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः ।
कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४॥
गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः ।
भक्तप्रियो यो दिविषिद्वराय नमोऽस्तु तस्मै मुरलीधराय ॥ ५॥
यद्वेणुशब्दश्रवणेन सद्यो ह्यचेतनं चेतनतां परं च ।
तथान्यभावं प्रगतं पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ६॥
व्याजेन भर्तृत्वमितं विवर्णं त्यक्त्वा सती दग्धतनुर्बभूव ॥
वेणुर्यदोष्ठामृतभाक्पराय नमोऽस्तु तस्मै मुरलीधराय ॥ ७॥
गोपालाय नमस्तुभ्यमपराधान्क्षमस्व मे ।
कृपां कुरु दयासिन्धो सर्वान्कामान्प्रपूरय ॥ ८॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीमुरलीधरगोपालाष्टकं सम्पूर्णम् ।