मुरारिपञ्चरत्नम्
श्रीगणेशाय नमः ।
यत्सेवनेन पितृमातृसहोदराणां
चित्तं न मोहमहिमा मलिनं करोति ।
इत्थं समीक्ष्य तव भक्तजनान् मुरारे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ १॥
ये ये विलग्नमनसः सुखमाप्तुकामा-
स्ते ते भवन्ति जगदुद्भवमोहशून्याः ।
दृष्ट्वा विनष्टधनधान्यगृहान् मुरारे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ २॥
वस्त्राणि दिग्वलयमावसतिः श्मशाने
पात्रं कपालमपि मुडविभूषणानि ।
रुद्रे प्रसादमचलं तव वीक्ष्य शौरे
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ३॥
यत्कीर्तिगायनपरस्य विधातृसूनोः
कौपीनमैणमजिनं विपुलां विभूतिम् ।
स्वस्यार्थदिग्भ्रमणमीक्ष्य तु सार्वकालं
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ४॥
यद्वीक्षणे धृतधियामशनं फलादि
वासोऽपि र्जिनवने गिरिकन्दरासु ।
वासांसि वल्कलमयानि विलोक्य चैवं
मूकोऽस्मि तेऽङ्घ्रिकमलं तदतीव धन्यम् ॥ ५॥
स्तोत्रं पादाम्बुजस्यैतच्छ्रीशस्य विजितेन्द्रियः ।
पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ ६॥
इति मुरारिपञ्चरत्नं सम्पूर्णम् ॥
Proofread by PSA Easwaran