श्रीमुकुन्दस्तोत्रम्
श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति ।
नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १॥
वृन्दारका यस्य भवन्ति भृङ्गाः मन्दाकिनी यन्मकरन्दबिन्दुः ।
तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ २॥
जयत्युपेन्द्रः स चकार दूतो बिभित्सया यः क्षणलब्धलक्ष्यया ।
दृशेव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ ३॥
सकलभुवनबन्धोर्वैरमिन्दोः सरोजैः
अनुचितमिति मत्वा यः स्वपादारविन्दम् ।
घटयितुमिव मायी योजयत्याननेन्दौ
वटदलपुटशायी मङ्गलं वः कृष्टीष्ट ॥ ४॥
जीयादम्बुधितनयाऽधररसमास्वादयन्मुरारिरयम् ।
अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च ॥ ४॥
इति श्रीमुकुन्दस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com