श्रीमोहनक्षेत्रनाथसुप्रभातम्
भास्वानुदेति धनसन्तमसप्ररोहाः
नष्टा भवन्ति विकचानि सरोरुहाणि ।
घोषैर्दिशो मुखरयन्त्यखिला विहङ्गाः
पद्मेश मोहनपते तव सुप्रभातम् ॥ १॥
अम्भोरुहप्रभवशङ्करवासवाद्या-
स्त्रैविक्रमादिचरितं विबुधाः समस्ताः ।
त्वत्पादसेवनसमुत्सुकिताः स्तुवन्त-
स्तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ २॥
आदाय सप्त मुनयः समुपास्य सन्ध्या
मत्र्यादयः सरसिजानि मनोहराणि ।
पादारविन्दयुगमर्चयितुं प्रपन्ना-
स्तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ३॥
ईषत्प्रफुल्लकमलोदरनिर्गतानां
झङ्कारगीतलसतां सुमनोहराणाम् ।
वर्गाश्च दिव्यमकरन्दवतामलीनां
निर्यान्ति मोहनपते तव सुप्रभातम् ॥ ४॥
उत्फुल्लपङ्कजसुचम्पकनालिकेर
माकन्दपूगसुमनोहरमल्लिकानाम् ।
मन्दानिलः सुखकरः सह दिव्यगन्धै-
रावाति मोहनपते तव सुप्रभातम् ॥ ५॥
गोपालमुक्तमहिषाः पशुजातयश्च
गावश्चरन्ति परितः खलु पक्षिणश्च ।
गायन्ति कर्णमधुरं भ्रमराः शुक्राश्च
पद्मेश मोहनपते तव सुप्रभातम् ॥ ६॥
वैकुण्ठवासिविबुधाश्च महीसुराश्च
स्वर्गस्थदेवनिवहाश्च महर्षयस्ते ।
सम्मर्दिताः खलु भृशं तव सेवनार्थं
तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ७॥
गन्धर्वयक्षगरुडामरकिन्नराद्याः
श्रीनारदादिमुनयः सविशेषवाद्याः ।
गायन्ति कर्णमधुरं तव सेवनार्थं
पद्मेश मोहनपते तव सुप्रभातम् ॥ ८॥
त्वद्दासदासशरणागतदासदास-
तद्यासदासचरमावधिदासदासाः ।
त्वत्पादपङ्कजयुगं शरणङ्गताश्च
तिष्ठन्ति मोहनपते तव सुप्रभातम् ॥ ९॥
मोहनक्षेत्रनाथस्य सुप्रभातं तु यः पठेत् ।
प्रातर्दि ने स वै विद्वान् प्राप्नुयात् परमं शुभम् ॥ १०॥
मङ्गल कालमेघाय कल्याणगुणसिन्धवे ।
मोहनक्षेत्रनाथाय नित्यश्रीर्नित्यमङ्गलम् ॥ ११॥
इति श्रीमोहनक्षेत्रनाथसुप्रभातं सम्पूर्णम् ॥
Proofread by Saritha Sangameswaran