पौलस्त्यप्रोक्तो मङ्गल्यस्तवः
दाल्भ्य उवाच -
कार्यारम्भेषु सर्वेषु दुःस्वप्नेषु च सत्तम ।
अमङ्गल्येषु सर्वेषु यज्जप्तव्यं तदुच्यताम् ॥ १॥
येनारम्भाश्च सिद्ध्यन्ति दुःस्वप्नं चोपशाम्यति ।
अमङ्गलानां सर्वेषां प्रतिघातश्च जायते ॥ २॥
पुलस्त्य उवाच -
जनार्दनं भूतपतिं जगद्गुरुं स्मरन्मनुष्यः सततं महामुने ।
दुष्टान्यशेषाण्यपहन्ति साधयत्यशेषकार्याणि तथा यदिच्छति ॥ ३॥
शृणुष्व चान्यद्वदतो ममाखिलं वदामि यत्ते द्विजवर्य मङ्गलम् ।
सर्वार्थसिद्धिं प्रददाति यः सदा निहन्त्यशेषाणि च पातकानि ॥ ४॥
प्रतिष्ठितं यत्र जगच्चराचरं जगच्च यो यो जगतश्च हेतुः ।
जगच्च पात्यत्ति च यः स सर्वदा ममास्तु मङ्गल्यविवृद्दये हरिः ॥ ५॥
व्योमाम्बुवाय्वग्निमहीस्वरूपैर्विस्तारवान्योऽणुतरोऽणुभागात् ।
स स्थूलसूक्ष्मः सततं सुरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ६॥
यस्मात्परस्तात्पुरुषादनन्तादनादिमध्यादखिलं न किञ्चित् ।
स हेतुहेतुः परमेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ७॥
हिरण्यगर्भाच्युतरुद्ररूपी सृजत्यशेषं परिपाति हन्ति ।
गुणाश्रयी यो भगवान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ८॥
परः सुराणां परमोऽसुराणां परो मुनीनां परमो यतीनाम् ।
परः समस्तस्य च यः स देवो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ९॥
ध्यातो यतीनामपकल्मषैर्यो ददाति मुक्तिं परमेश्वरेश्वरः ।
मनोभिराद्यः पुरुषः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १०॥
सुरेन्द्र वैवस्वतवित्तपाम्बुपस्वरूपरूपी परिपाति यो जगत् ।
स शुद्धसत्त्वः परमेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ११॥
यन्नामकीर्तनतो विमुच्यते अनेकजन्मार्जितपापसञ्चयैः ।
पापेन्धनाग्निः स सदैव निर्मलो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १२॥
येनोद्धृतेयं धरणी रसातलादशेषसत्त्वस्थितिकारणादिदम् ।
बिभर्ति विश्वं जगतः स मूलवान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १३॥
पादेषु वेदा जठरे चराचरं रोमस्वशेषा मुनयो मुखे मखाः ।
यस्येश्वरेशस्य स सर्वदा प्रभुर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १४॥
समस्तयज्ञाङ्गमयं वपुर्विभोर्यस्याङ्गमीशेश्वरसंस्तुतस्य ।
वराहरूपो भगवान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १५॥
विक्षोभ्य सर्वोदधितोयसम्पदं दधार धात्रीं जगतश्च योद्भवः ।
यज्ञेश्वरो यज्ञपुमान्स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १६॥
पातालमूलेश्वरभोगिसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः ।
यस्योपमानं न बभूव सोऽच्युतो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १७॥
विघर्घरं यस्य च बृंहतो मुहुः सनन्दनाद्यैर्जनलोकसंस्थितैः ।
श्रुतं जयेत्युक्तिपरैः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १८॥
एकार्णवाद्यस्य महीयसो महीमादाय वेगेन समुत्पतिष्यतः ।
नुतं वपुर्योगिवरैः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ १९॥
हतो हिरण्याक्षमहासुरः पुरा पुराणपुंसा परमेण येन ।
वराहरूपः स पतिः प्रजापतेर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २०॥
दंष्ट्राकरालं सुरभीतिनाशनं कृत्वा वपुर्दिव्यनृसिंहरूपिणम् ।
त्रातं जगद्येन स सर्वदा प्रभुर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २१॥
दैत्येन्द्र वक्षःस्थलदारदारुणैः करोरुहैः शत्रुरुजानुकारिभिः ।
चिच्छेद लोकस्य भयानि चाव्ययो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २२॥
दन्तान्तदीप्तिद्युतिनिर्मलानि चकार सर्वाणि दिशं मुखानि ।
निनादवित्रासितदानवो ह्यसौ ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २३॥
यन्नामसङ्कीर्तनतो महाभयाद्विमोक्षमाप्नोति न संशयं नरः ।
समस्तलोकार्तिहरो नृकेसरी ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २४॥
सटाकलापभ्रमणानिलाहताः स्फुटन्ति यस्याम्बुधराः समन्ततः ।
स दिव्यसिंहः स्फुरिताकुलेक्षणो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २५॥
यदीक्षणज्योतिषि रश्मिमण्डलं प्रलीनमेव न रराज भास्वतः ।
कुतः शशाङ्कस्य स सिंहरूपधृङ्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २६॥
द्रवन्ति दैत्याः प्रणमन्ति देवता नश्यन्ति रक्षांस्यपयान्ति चारयः ।
यत्कीर्तनात्सोऽद्भुतरूपकेसरी ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २७॥
अशेषदेवेशनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम् ।
स सर्वलोकार्तिहरो महाहरिर्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २८॥
ऋक्कारितं यो यजुषातिशान्तिमत्सामध्वनिध्वस्तसमस्तपातकम् ।
चक्रे जगद्वामनकः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ २९॥
यत्पादविन्यासपवित्रतां मही ययौ वियद्दृग्यजुषामुदीरणात् ।
स वामनो दिव्यशरीरधृक् सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३०॥
यस्मिन्प्रयाते सुरभूभृतोऽध्वरं ननाम खेदादवनिः ससागरा ।
स वामनः सर्वजगन्मयः सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३१॥
महाद्युतौ दैत्यपतेर्महाध्वरं यस्मिन्प्रविष्टे क्षुभितं महासुरैः ।
स वामनोऽन्तस्थितसप्तलोकधृङ्ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३२॥
समस्तदेवेष्टिमयं महाद्युतिर्दधार यो रूपमतीन्द्रियं प्रभुः ।
त्रिविक्रमाक्रान्तजगत्त्रयः सदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३३॥
सङ्घैः सुराणां दिवि भूतले स्थितैस्तथा मनुष्यैर्गगने स सर्वदा ।
स्तुतः क्रमाद्यः प्रददे स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३४॥
क्रान्त्वा धरित्रीं गगनं तथा दिवं मरुत्पतेर्यः प्रददौ त्रिविष्टपम् ।
स देवदेवो भुवनेश्वरेश्वरो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३५॥
अनुग्रहं चापि बलेरनुत्तमं चकार यश्चेन्द्रपदोपलक्षणम् ।
सुरांश्च यज्ञस्य भुजः स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३६॥
रसातलाद्येन पुरा समाहृताः समस्तवेदा वरवाजिरूपिणा ।
स कैटभारिर्मधुसूदनो महान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३७॥
निःक्षत्रियां यश्च चकार मेदिनीमनेकशो बाहुवनं तथाछिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३८॥
निहत्य वालिं च कपीश्वरं हि यो निबध्य सेतुं जलधौ दशाननम् ।
जघान चान्यान्रजनीचरानसौ ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ३९॥
चिक्षेप बालः शकटं बभञ्ज यो यमलार्जुनौ कंसमरिं जघान ।
ममर्द चाणूरमुखं स सर्वदा ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ४०॥
प्रातः सहस्रांशुमरीचिनिर्मलं करेण बिभ्रद्भगवान्सुदर्शनम् ।
कौमोदकीं चापि गदामनुत्तमां ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ४१॥
हिमेन्दुकुन्दस्फटिकाभ्रकोमलं मुखानिलापूरितमीश्वरेश्वरः ।
मध्याह्नकाले च स शङ्खमुत्तमं ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ४२॥
तथापराह्ने प्रविकासिपङ्कजं वक्षःस्थलेन श्रियमुद्वहद्विभुः ।
विस्तारिपद्मोत्पलपत्रलोचनो ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ४३॥
सर्वेषु कालेषु समस्तदेशेष्वशेषकार्येषु तथेश्वरेश्वरः ।
सर्वैः स्वरूपैर्भगवाननादिमान् ममास्तु मङ्गल्यविवृद्धये हरिः ॥ ४४॥
फलश्रुतिः -
एतत्पठन्दाल्भ्य समस्तपापैर्विमुच्यते विष्णुपरो मनुष्यः ।
सिध्यन्ति कार्याणि तथास्य सर्वाण्यर्थानवाप्नोति तथा यथेष्टम् ॥ ४५॥
दुःस्वप्नं प्रशममुपैति पठ्यमाने स्तोत्रेऽस्मिन् श्रवणविधौ सदोत्थितस्य ।
प्रारम्भो द्रुतमुपयाति सिद्धिमीशः पापानि क्षपयति चास्य वासुदेवः ॥ ४६॥
मङ्गल्यं परममिदं सदार्थसिद्धिं
निर्विघ्नं त्वधिकफलं सदा ददाति ।
किं लोके तदिह परत्र चास्ति पुंसां
यद्विष्णुप्रवणधिया न दाल्भ्य साध्यम् ॥ ४७॥
देवेन्द्रस्त्रिभुवनमर्थमेकपिङ्गः सर्वर्द्धिं त्रिभुवनगां च कार्तवीर्यः ।
वैदेहः परमपदं प्रसाद्य विष्णुं सम्प्राप्तः सकलफलप्रदो हि विष्णुः ॥ ४८॥
सर्वारम्भेषु दाल्भ्यैतद्दुःस्वप्नेषु च पण्डितः ।
जपेदेकमतिर्विष्णौ तथामङ्गल्यदर्शने ॥ ४९॥
शमं प्रयान्ति दुष्टानि ग्रहपीडाश्च दारुणाः ।
कर्मारम्भाश्च सिध्यन्ति पुण्यमाप्नोति चोत्तमम् ॥ ५०॥
हरिर्ददाति भद्राणि मङ्गल्यस्तुतिसंस्तुतः ।
करोत्यखिलरूपैश्च रक्षामक्षतशक्तिधृक् ॥ ५१॥
इति विष्णुधर्मेषु एकोनचत्वारिंशोऽध्यायान्तर्गतः
पौलस्त्यप्रोक्तो मङ्गल्यस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran