मङ्गलाचरणम् ३
॥ श्रीमद्विठ्ठलेशचरणकमलेभ्यो नमः ॥
॥ श्रीमद्गोकुलेशो जयति ॥
निजमुरलिकानादाह्वानागतव्रजसुन्दरी-
निरुपमनवस्नेहाऽम्भोधेर्विचित्रस्मरोर्मिभिः ।
किमपि परितश्चार्द्रार्द्रोऽस्तु प्रभुः प्रकटीभवन्
प्रतियुवतिसम्भेदेनास्मद्दशां विषयः सदा ॥ १॥
मायावादिकरीन्द्रदर्पदलनेनास्येन्दुराजोद्रत-
श्रीमद्भागवताख्यदुर्लभसुधावर्षेण वेदोक्तिभिः ।
राधावल्लभसेवया तदुदितप्रेम्णोपदेशैरपि
श्रीमद्वल्लभनामधेयसदृशो भावी न भूतोऽस्त्यपि ॥ २॥
सायङ्कुञ्जालयस्थासनमुपविलसत्स्वर्णपात्रं सुधौतं
राजद्यज्ञोपवीतम्परितनुवसनङ्गोरमम्भोजवक्त्रम् ।
प्राणानायम्य नासापुटनिहितकरङ्कर्णराजद्विमुक्तं
वन्देऽर्धोन्मीलिताक्षं मृगमदतिलकं विठ्ठलेशं सुकेशम् ॥ ३॥
नमामि श्रीपतिं देवं वल्लभं विठ्ठलात्मजम् ।
यः करोति सदारण्ये मङ्गलं जनवर्जिते ॥ ४॥
वन्देऽहं गोकुलाधीशं भगवन्तं कृपानिधिम् ।
पावनो यामुने जातः कलौ घोरे द्विजेषु यः ॥ ५॥
नमामि गोकुलाधीशं लीलामानुषविग्रहम् ।
व्रजाधीशं विश्वविभुं पार्वतीप्राणवल्लभम् ॥ ६॥
राक्षिता स्रग् जहाङ्गीराद्ध्यधर्माद्रक्षिता जनाः ।
विद्रूपाद्रक्षितो धर्मः पातु वः पार्वतीपतिः ॥ ७॥
मायावादिचिद्रूपादिप्तिबन्धनिवारकः ।
दर्पहा दुर्मदान्धानां पायाद्वो भक्तभूषणः ॥ ८॥
इति मङ्गलाचरणं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com