मङ्गलाचरणम् २
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः ॥
चिन्ता च सन्तानहन्तारो यत्पादाम्बुजरेणवः ।
स्वीयानां तान्निजाचार्यान्प्रणमामि मुहुर्मुहुः ॥ १॥
यदनुग्रहतो जन्तुः सर्वदुःखातिगो भवेत् ।
तमहं सर्वदा वन्दे श्रीमद्वल्लभनन्दनम् ॥ २॥
यदुक्तं तातचरणैः श्रीकृष्णः शरणं मम ।
अत एवास्ति नैश्चित्त्यमैहिके पारलौकिके ॥ ३॥
मम चित्तस्य विश्वासः श्रीगोपीजनवल्लभे ।
यदा तदा कृतार्थोऽहं शोचनीयो न कर्हिचित् ॥ ४॥
इति श्रीविठ्ठलेश्वरविरचितं मगलाचरणं समाप्तम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com