श्रीललितत्रिभङ्गीस्तोत्रम्
नमः पितृपदाम्भोजरेणुभ्यो यन्निवेदनात् ।
अस्मत्कुलं निष्कलङ्कं श्रीकृष्णेनात्मसात्कृतम् ॥ १॥
वामजान्वन्ताश्रितातिवक्रदक्षिणजानुकम् ।
एतत्सम्प्राप्तसौभाग्यं विचित्रमणिभूषणम् ॥ २॥
नखचन्द्रमहः क्षिप्तभक्तसन्तापसन्ततिः ।
विचित्रभावसन्तानविचित्रीकृतमानसम् ॥ ३॥
दक्षिणपदतलपद्मं वामप्रपदस्य वामतः प्रकटम् ।
सौन्दर्यं किमपितरां प्रकटयति प्रेमवल्लभ्यम् ॥ ४॥
विकसित-शारद-कमलोदरमदहरणेऽपि तत्र पद्माङ्कम् ।
वहता निरवधिरसता निवेद्यते स्वीयभक्तेषु ॥ ५॥
भक्तार्तिहरणे काञ्चित् मर्यादां नैव मन्यते ।
इति ज्ञापयितुं वज्ररेखां धारयति स्फुटाम् ॥ ६॥
अनुग्रहानिलो यत्र तत्साम्मुख्यं भजन् त्यजन् ।
अन्याशां राजते भक्ते पदमेवमिति ध्वजम् ॥ ७॥
धारयन् ज्ञापयत्येषः त्यक्तभक्तान्यदिक् प्रभुः ।
अतएव हि तत्सेव्यो निर्दोषगुणविग्रहः ॥ ८॥
एतत्पदपङ्कजमधुमत्तस्याऽयं निसर्गएवाभूत् ।
नेतरभावं भजते यदङ्कुशो नित्यमेवाऽस्ति ॥ ९॥
कदाचिद्विविधा लीलाः कर्तुं भक्तैः सह प्रभुः ।
एवम्भूतो वादयति वेणुमिष्टं करोति च ॥ १०॥
प्रपदोपरि सञ्चारिचारुपीतान्तरीयकः ।
गुञ्जद्भ्रमद्भ्रमरयुग्वनमालातिसुन्दरः ॥ ११॥
विविधरूपसुचारुसुगन्धयुङ्मृदुलपुष्पचयैरतिसुन्दरम् ।
ग्रथितमध्यमदेशमतिप्रियाकरयुगेन हृदि स्र्जि कामये ॥ १२॥
ग्रीवोरःस्थलकटितटकाञ्चीजानुप्रपदयोः सततम् ।
विहरन्ती वनमालासक्तासीदलिकुलैर्मत्तैः ॥ १३॥
गभीरनाभिविलसत्काञ्चीदामलसन्मणीन् ।
स्वरुचारोचयन्नन्यानप्याकल्पान् बभौ प्रभुः ॥ १४॥
त्रिगुणानिलसञ्चारचलत्प्रान्तातिसुन्दरम् ।
उत्तरीयं बिभ्रदंसे शुशुभेऽतितरां हरिः ॥ १५॥
विविधमहामणिखचितैः परितो मुक्ताफलावलिग्रथितैः ।
वलयाङ्गदकङ्कणचयसकलाङ्गुलिभूषणैः रेजे ॥ १६॥
कट्या कुटिलया काञ्चिद्भुवनत्रयमोहिनीम् ।
तनोति सुषमा नाभ्यां सह साम्येऽपि दुर्लभाम् ॥ १७॥
रसभरभरितं पात्रं नामितमन्यत्र तं रसं कर्तुम् ।
एकत आनतमुन्नतमेकत इह दृश्यते सर्वैः ॥ १८॥
कटितटगतभावरसानां व्रजाङ्गनाहृत्सुपूरणे सापि ।
अभवत् तथैव हृष्टा दृष्टा परमुपपद्यते काञ्च्या ॥ १९॥
वेणुरवानुगया नवनवचापल्यं प्राप्त वत्योच्चैः ।
व्रजतरुणीमानसधनसम्पन्नयाभूज्जगज्जडवत् ॥ २०॥
नयनाम्बुजसौन्दर्यं मनसां वचसामगोचरं सत्यम् ।
व्रजसुन्दरीनयनमनोनुभवैकगतं परं हृद्यम् ॥ २१॥
तत्रापि भावगर्भं तरलतरं प्रियतमामुखाम्भोजे ।
स्थगितं भवदरुणतरप्रान्तं प्रकटानुरागमिव ॥ २२॥
विचित्रवेणुतानाब्धितरङ्गान्दोलिताञ्चलम् ।
स्थिरं वा तरलं वेति नैवाभूदवधारितम् ॥ २३॥
स्मितामृतभरेणात्मभक्तहृत्प्राणपोषकम् ।
तत्रैव लयहेतुर्वा तेषामिति न वेदम्यहम् ॥ २४॥
भ्रूचापः सन्धितः कर्णावध्याकृष्टः प्रियाहृदि ।
विद्धः प्राणानाजहार स्वस्मिन् अस्मिन् दया न हि ॥ २५॥
स्मित-कौटिल्य-चापल्यारुणिमामृतसिन्धुषु ।
मग्नाः कथञ्चिद्जीवन्ति भक्तास्तत्तत्स्वभावतः ॥ २६॥
शृङ्गाररससर्वस्वं भक्तभावामृतावृतिम् ।
अनुरागचयं ताराश्चैत्यापाङ्गैर्बिभर्त्यसौ ॥ २७॥
सालिकुलं कमलकुलं जितं निजाकारमात्रतो जगति ।
प्रकटातिगूढरसभरभरितो अभवत् कुसुमशरकोटिः ॥ २८॥
स्निग्धता मुग्धता वापि चातुरीसहजापि वा ।
नैव वर्णयितुं शक्यानुभवन्तीभिरप्यहो! ॥ २९॥
मन्ये गोकुलतरुणी-नवनवभावाः स्वराससञ्जाताः ।
रतिरससुधाब्धिपतितप्लवे प्लवन्ते निसर्गमधुरतराः ॥ ३०॥
सम्मुखप्रेक्षणेऽपाङ्गप्रेक्षणेच यथा रसः ।
तथारुणाभी रेखाभिर्ज्ञापयत्यम्बुजेक्षणः ॥ ३१॥
विरलारुणरेखाभिः सितगर्भस्य नेत्रयोः ।
आविर्भवति या शोभा तां न वक्तुं क्षमा रमा ॥ ३२॥
पक्ष्माणि तरुणीभावान् आनेतुं चरणाब्जयोः ।
कराङ्गुलिचयाभानि भासन्ते परितः बतः ॥ ३३॥
अतिसारस्यतो नेत्रे सरसः परितोऽभवत् ।
रसाङ्कुराः पक्ष्मरूपा भासन्ते सुषमास्पदाः ॥ ३४॥
आदायादाय भक्तानां भावान् अतिमनोहरान् ।
निमेषमिषतः स्वान्तः सञ्चयं कुरुतो मुदा ॥ ३५॥
स्वतः समर्थमप्येतत् त्रिलोकीमोहने बत ! ।
स्मितं सहायं सम्प्राप्य यत्करोति न वेद्मि तत् ॥ ३६॥
रसपूरैः प्लावयति स्वजनविवेकत्रपाधृतिरथवा ।
तानेव तद्रसाब्धिषु मग्नान् कुरुते तदैवैतत् ॥ ३७॥
एतत्कार्यस्य भवने प्रतिबन्धेऽपि चेश्वरः ।
न शक्तो प्रतिबद्धो यत् तत्स्वभावस्वभावतः ॥ ३८॥
तत्रापि चेत्सहायोऽभूदुदारो वेणुनिःस्वनः ।
त्रिभङ्गश्च त्रिजगति न जाने का दशावशा ॥ ३९॥
तिष्ठत्वन्यकथैतादृक्स्वरूपं प्रतिबिम्बितम् ।
क्वचित् पश्येत् स्वयं नाथः कां दशां नु भजेत् तदा!॥ ४०॥
प्रायो न दर्शनापेक्षा यत्स्वयं तद्रसात्मकः ।
प्रियाहृदयनेत्रेषु निरुद्धोऽस्ति सुनायकः ॥ ४१॥
एतत्सन्दर्शने तु स्यात् प्रमदाभाव एव हि ।
तच्छान्तिकर्ता कोन्योऽत्र भवेत् तेनास्ति नैव तत् ॥ ४२॥
अथवा तद्रसात्मा तद्दर्शनेनतितोषितः ।
भवति स्वप्रियावृन्दवृतोऽयं गजराडिव ॥ ४३॥
कदाचिदथवा प्रेष्ठा वियोगार्त्या तदात्मकः ।
तासामाविर्भवेद्भावैरेव तां शामयत्यपि ॥ ४४॥
दृष्ट्यापि रसरूपत्वं मयि जानन्तु मामकाः ।
तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ ४५॥
रसात्मत्वं स्फुटं स्वस्मिन् भक्तैर्नैवानुभूयते ।
तदर्थमाविष्कुरुते त्रिभङ्गं भक्तलोचने ॥ ४६॥
पुष्टिभक्तिं स्थिरीकृत्य मर्यादां च तदाश्रिताम् ।
कृत्वा वृन्दावनक्षोणीमयथापूर्वसंस्थिताम् ॥ ४७॥
हृदयं भक्तहृदये स्थिरं लोकान् निजान् परान् ।
पुष्टिदिश्येव सुमुखान् कृत्वा संराजते प्रभुः ॥ ४८॥
उद्बुद्धशृङ्गाररसस्वरूपो भूषणाद्यपि ।
तादृगेवाखिलाङ्गेषु बिभ्रत् संराजते प्रभुः ॥ ४९॥
श्रुत्याद्यगम्यं यद्रूपं स्वल्पकेन मया कथम् ।
तन्निरूपयितुं शक्यं तदीयत्वाद्भवेदपि ॥ ५०॥
तथापि श्रीगोकुलेऽस्मिन् आविर्भूतो विराजते ।
अनन्यभक्तैरनीशं पीयते तत्सुधासवः ॥ ५१॥
(स मत्प्रभुः सदाऽहं तु तत्पादाब्जरसोस्मि वै ।
तत्प्रभावाद्यथाशक्ति वर्णयाम्यविचारयन् ॥ )
(अयंश्लोकः मुद्रितपाठीव अस्ति । अन्यत्र नोपलभ्यते)
अहञ्च तत्पादपद्मरेणुरश्मीति मत्प्रभुः ।
स चास्तीति यथाशक्तिर्वर्णयाम्यविचारयन् ॥ ५२॥
स्वतो मल्लोचनमनोवृत्तिः वृन्दावनप्रभुः ।
बृहद्वनप्रियः शश्वत् शिशिरीकुरुतात् स्वतः ॥ ५३॥
अहं तदीय इत्येषा तद्वार्ता रूपिता परम् ।
तेन प्रसन्नो भवतु दासे श्रीविठ्ठले प्रभुः ॥ ५४॥
इति श्रीमद्विट्ठलनाथविरचितो
ललितत्रिभङ्गनामा ग्रन्थः सम्पूर्णतामगमत् ।
Proofread by Mohan Chettoor