श्रीलक्ष्मीनृसिंहमन्त्रकवचम्
अथ श्रीनरसिंहकवचम् ।
श्रीलक्ष्मीनृसिंहाय नमः ।
ब्रह्मोवाच ।
अस्य श्रीनृसिंहमन्त्रराजात्मकं अनेक मन्त्र कोटीशः
अनेकविधिरक्षार्थं विषरोगनिवारणार्थम् नृसिंहनाममुच्चरेत् ॥
ॐ अस्य श्रीलक्ष्मीनृसिंहमन्त्रकवचस्य ब्रह्माऋषिः अनुष्टुप्छन्दः
क्ष्रौं बीजं ईं शक्तिः ह्रौं कीलकं श्रीनृसिंहो देवता ।
मम सर्वरोगाणां सर्वशत्रूणां सर्वदेवदोषाणां
चौरपन्नगव्याघ्रवृश्चिकभूतप्रेतपिशाच शाकिनी डाकिनी यन्त्रमन्त्रादि
अद्य अनेकदोषनिवारणार्थे नृसिंहराजप्रीत्यर्थे जपे विनियोगः ॥
अथ ऋष्यादिन्यासः ।
ॐ ब्रह्माऋषये नमः शिरसि ।
ॐ अनुष्टुप्छन्दसे नमो मुखे ।
ॐ श्रीलक्ष्मीनृसिंहदेवताये नमो हृदये ।
ॐ क्षौं बीजाय नमो नाभ्याम् ।
ॐ शक्तये नमः कटिदेशे ।
ॐ ऐं क्लीं कीलकाय नमः पादयोः ।
ॐ श्रीनृसिंह कवचमहामन्त्र जपे विनयोगाय नमः सर्वाङ्गे ॥
अथ करन्यासः ।
ॐ क्ष्रौं अङ्गुष्ठाभ्यां नमः ।
ॐ प्रौं तर्जनीभ्यां नमः ।
ॐ ह्रौं मध्यमाभ्यां नमः ।
ॐ रौं अनामिकाभ्यां नमः ।
ॐ ब्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ज्रौं करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
ॐ क्ष्रौं हृदयाय नमः ।
ॐ प्रौं शिरसे स्वाहा ।
ॐ ह्रौं शिखायै वषट् ।
ॐ रौं कवचाय हुम् ।
ॐ ब्रौं नेत्रत्रयाय वौषट् ।
ॐ ज्रौं अस्त्राय फट् ।
अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्यस्थितं (समस्तरूप)
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्ज्वलम् ।
त्र्यक्षञ्चक्रपिनाकसाभयवरान् बिभ्राणमर्कच्छविं (अष्टौशक्तिपिनाकसा)
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १॥
ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं नमो नृसिंहाय । इति मूलमन्त्रः ।
ॐ नमो नृसिंहसिंहाय सर्वदुष्टविनाशनाय सर्वजनमोहनाय
सर्वराज्यवश्यं कुरु कुरु स्वाहा ॥
ॐ नमो नृसिंहसिंहाय सिंहराजाय नरकेशाय नमो नमस्ते ।
ॐ नमः कालाय कालदंष्ट्राय करालवदनाय उग्राय उग्रवीराय उग्रविकटाय उग्रवज्राय
वज्रदेहिने रुद्राय रुद्रघोराय भद्राय भद्रकारिणे ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा ।
ॐ नृसिंहाय कपिलाय कपिलजटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्डरूपाय
ॐ ह्रां ह्रां ह्रीं ह्रीं ह्रूं ह्रूं ह्रौं ह्रौं क्ष्रां क्ष्रां क्ष्रीं क्ष्रीं क्ष्रौं क्ष्रौं फट् स्वाहा ।
ॐ नृसिंहाय सर्वज्ञे मम सर्वरोगान् बन्ध बन्ध सर्वग्रहान् बन्ध बन्ध
सर्वदोषादीनां बन्ध बन्ध सर्वचोराणां बन्ध बन्ध
सर्वव्याघ्राणां बन्ध बन्ध बन्ध सर्वपन्नगानां बन्ध ॥
सर्ववृश्चिकादिनां बन्ध बन्ध सर्व भूतप्रेतपिशाचशाकिनिडाकिनि
यन्त्र मन्त्रादिन् बन्ध बन्ध परयन्त्र परतन्त्र बन्ध बन्ध
कीलय कीलय मर्दय मर्दय चूर्णय चूर्णय
एवं मम विरोधीनां सर्वान् सर्वतो हरणं
ॐ ऐं ऐं एहि एहि एतां मद्विरोधतां सर्वतो हर हर दह दह मथ मथ
पच पच चूर्णय चूर्णय चक्रेण गदया वज्रेण भस्मी कुरु कुरु स्वाहा ॥
ॐ क्ष्रौं प्रौं ह्रौं रौं ब्रौं ज्रौं ज्रीं ह्रीं नृसिंहाय नमः ।
ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः ।
ॐ आं ह्रीं क्ष्रौं क्रौं ह्रुं फट् ।
ॐ नमो भगवते सुदर्शननृसिंहाय मम विजयरूपे कार्ये ज्वल
ज्वल प्रज्ज्वल प्रज्ज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं
सर्वप्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा ।
अभ्यमभयात्मनि भूयिष्ठाः ॐ क्षौं ।
ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने हर्यद्भुतसिंहाय ब्रह्मणे परमात्मने ।
ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखं ।
नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम् ।
इति नृसिंहमन्त्रराजात्मकं सम्पूर्णमस्तु ।
श्रीलक्ष्मीनृसिंहार्पणमस्तु ।
There are some variations in chanting.
Please consult with a qualified teacher
for using the bIjamantras and the kavacham.