श्रीलक्ष्मीनृसिंह मङ्ग्लाशासनम्
श्रीपराङ्कुशयोगीन्द्रशठारिप्रमुखान् गुरून् ।
मङ्गलाशासनपरान् महिताननिशं भजे ॥ १॥
जगज्जन्मादिलीलाय जगदानन्दहेतवे ।
जगच्चक्षुर्निवासाय श्रीनृसिंहाय मङ्गलम् ॥ २॥
हिरण्यस्तम्भसम्भूतिप्रख्यातपरमात्मने ।
प्रह्लादार्तिमुषे ज्वालानरसिंहाय मङ्गलम् ॥ ३॥
गरुडाद्रिगुहागेहे गजकुण्डसरस्तटे ।
हिरण्यस्थाण्वहङ्कारहारिसिंहाय मङ्गलम् ॥ ४॥
वारिजावारितभयैर्वाणीपतिमुखैस्सुरैः ।
महिताय महोदारमालोलायास्तुमङ्गलम् ॥ ५॥
वराहकुण्डे मेदिन्यै पाराहर्थप्रदायिने ।
दन्तलग्नहिरण्याक्षदंष्ट्रसिंहाय मङ्गलम् ॥ ६॥
गोभूहिरण्यनिर्विण्णगोखिलज्ञानदायिने ।
प्रभञ्जन शुनासीर कारञ्जायास्तु मङ्गलम् ॥ ७॥
भार्गवाख्यतपस्वीशभावनाभावितात्मने ।
अक्षय्यतीर्थतीरस्थभार्गवायास्तु मङ्गलम् ॥ ८॥
चतुराननचेतोऽब्जचित्रभानुस्वरूपिणे ।
वेदाद्रिगह्वरस्थाय योगानन्दाय मङ्गलम् ॥ ९॥
हाहाहुह्वाख्यगन्धर्वनृत्तगीतहृतात्मने ।
भवहन्तृतटच्छत्रवटसिंहाय मङ्गलम् ॥ १०॥
भारद्वाजमहायोगिमहापातकहारिणे ।
तापनीयरहस्यार्थपावनायास्तु मङ्गलम् ॥ ११॥
श्रीशठारियतीन्द्रादियोगिहृत्पद्मभानवे ।
सर्वत्र परिपूर्णायाहोबिलेशाय मङ्गलम् ॥ १२॥
मङ्गलाशासनमिदं मानिवासमुनीरितम् ।
महनीयं पठन् शृण्वन् मङ्गलायतसम्भवेत् ॥ १३॥
इति श्रीलक्ष्मीनृसिंह मङ्ग्लाशासनं सम्पूर्णम् ।
Encoded by Ganesh Kandu kanduganesh at gmail.com
Proofread by Ganesh Kandu, PSA Easwaran