श्रीलक्ष्मीनृसिंहमङ्गलम्
अपारकरुणासिन्धो निवारणपरानिमान् ।
विदारय हिरण्याक्षविदारण नखाय धैः ॥ १॥
सर्ववेदान्तवेद्याय कारणाय महात्मने ।
सर्वलोकशरण्याय श्रीनृसिंहाय मङ्गलम् ॥ २॥
शेषिणे सर्ववस्तूनां वाञ्छितार्थप्रदायिने ।
संश्रितानां सदा भूयात् श्रीनृसिंहाय मङ्गलम् ॥ ३॥
पवित्राणां पवित्राय प्रापकाय फलात्मने ।
भद्राणामपि भद्राय श्रीनृसिंहाय मङ्गलम् ॥ ४॥
आदिवण् शठकोपाख्यैर्मुनिवर्यैर्महात्मभिः ।
समर्चिताय नित्याय श्रीनृसिंहाय मङ्गलम् ॥ ५॥
जगज्जन्मादिलक्ष्याय स्वेच्छास्वीकृतमूर्तये ।
विध्वस्ताखिलहेयाय श्रीनृसिंहाय मङ्गलम् ॥ ६॥
ज्ञानानन्दस्वरूपाय ज्ञानशक्त्यादिसिन्धवे ।
बन्धवे सर्वलोकानां श्रीनृसिंहाय मङ्गलम् ॥ ७॥
कायाधवरित्राणभावितस्थम्भजन्मने ।
ब्रह्मेन्द्रादिस्तुताय स्यात् श्रीनृसिंहाय मङ्गलम् ॥ ८॥
गुणलेशविहीनस्य सर्वहेयास्पदस्य मे ।
मन्तून् क्षन्त्रेऽप्यनन्तान् स्यात् श्रीनृसिंहाय मङ्गलम् ॥९॥
श्रीनिवासयतीन्द्रोक्तं लक्ष्मीनृहरिमङ्गलम् ।
ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ १०॥
इति श्रीलक्ष्मीनृसिंहमङ्गलं सम्पूर्णम् ।
Encoded by Ganesh Kandu kanduganesh at gmail.com
Proofread by Ganesh Kandu, NA, PSA Easwaran