श्रीलक्ष्मीनारायणस्तोत्रम् २
अथ श्रीलक्ष्मीनारायणस्तोत्रम् ।
सत्यव्रतक्षेत्रललामभूतो बाहासरित्तीरविराजमानः ।
मखिप्रकृष्टोह्यरशाणिपालै नारायणो यत विभाति लक्ष्म्या ॥ १॥
आत्रेयगोत्राम्बुधिपूर्णचन्द्रैः आचारशीलैरभितो वरिष्ठैः ।
आशास्यमानः परभक्तियुक्तैः नारायणो भाति सहैव लक्ष्म्या ॥ २॥
श्रीवैष्णवाग्रेसरमाननीयाः आचार्यवर्या जगति प्रसिद्धाः ।
सत्सम्प्रदायावनबद्धदीक्षाः त्वया प्रदात्ता जगतां विभान्ति ॥ ३॥
भाग्यं जगत्यामुपवर्णनीयं त्वदीयसेवाफलमामनन्ति ।
अस्तोकदिव्याध्वरवेदिभोग्ये जानेऽग्रहारे तव भाग्यमेतत् ॥ ४॥
इष्टार्थसिद्ध्यै भवतोपदिष्टमिष्ट्यादिकं भूरि कृतं हि यत्र ।
यज्ञो हि नारायणनामरूपः त्वमत्र भासीति विभावये त्वाम् ॥ ५॥
आत्रेयगोत्रैकजनिप्रकृष्टाः द्विजा द्विजत्वं प्रतिपद्यमानाः ।
भूयस्तरां विष्णुपदे चरन्तः विभान्ति तुष्टस्त्वमिहासि भूत्यै ॥ ६॥
नारायण त्वं रमया समेतः प्राचीं दिशं वीक्ष्य मुहुः प्रसन्नः ।
कुतो न जाने परमं रहस्यं यूपोज्ज्वलं स्तम्भमवेक्षसे किम् ! ॥ ७॥
यज्ञस्य साक्षी स्थिर एव लोके यज्ञस्थली चापि विभाति सुस्था ।
ततोऽभिजातावसतोऽग्रहारः विश्वप्रसिद्धोऽप्यधुना त्वयैव ॥ ८॥
काञ्च्युत्तराचोत्तमतां प्रणीता यज्ञैर्हि सज्जैः किल यायजूकैः ।
अत्र्यन्ववायान्वयविद्वदग्र्यैः सुस्वध्वरैरध्वरवेदिदीप्रैः ॥ ९॥
श्रीवादिहंसाम्बुदसूरिवर्य वंशावतंसैः किल विप्रवर्यैः ।
श्रीश्रीनिवासाध्वरिभिः प्रतिष्ठां प्राप्तोऽग्रहारोह्यरशाणिपालै ॥ १०॥
प्रतिष्ठितस्त्वं निजभूम्नि नित्यं प्रतिष्ठितस्त्वं परमाग्रहारे ।
पुनः प्रतिष्ठा भवतः प्रशस्या चिराय नारायण ! सन्निधत्स्व ॥ ११॥
यमप्पयं प्राह्वयतिस्म हृष्टो वरप्रदो वारणशैलमूर्ध्नि ।
देवाधिराजोऽप्पयदीक्षितोऽसौ कूटस्थ एवाभवदत्रिगोत्रे ॥ १२॥
कल्याणकुल्या कमनीययूपः कार्श्यं कुतः प्राप न वेद्मि तत्त्वम् ।
क्षमस्व सर्वानपराधवर्गान् ऋद्ध्यै समीक्षस्व सुधाकटाक्षात् ॥ १३॥
कल्याणकुल्यामृतवाहिनी स्तात् यूपः समुच्छ्रायमुपैतु भूयः ।
त्वदीयधामोज्ज्वलतामुपेयात् आराधनं ते नवतां प्रदद्यात् ॥ १४॥
काञ्चीघटाम्ब्वित्यभिधानभाजः श्रीवेंकटाचार्यमुखाः कवीन्द्राः ।
यत्सन्निधानात् अतुलां प्रतिष्ठां संप्राप्य नारायण संविभासि ॥ १५॥
दभ्रेतरे धामनि वर्धमानो दभ्रं परं धाम समाश्रितोऽसि ।
अदभ्रदृष्ट्या स्वयमेधमानः भद्राणि नारायण संविधेयाः ॥ १६॥
विधिप्रणीते सुभगेऽश्वमेधे समुद्भवन् श्यामलहव्यवाहः ।
अस्तोकभोग्याध्वरहव्यभोक्ता नयत्यहो तान् स्वपुरं स्म देवः ॥ १७॥
कलिः प्रदुष्टः कवयोऽपि नष्टाः कल्याणकुल्याप्यमृतेन हीना ।
जाताश्च दूरे सुखजीविकायै परन्तु नारायण सुस्थिरोऽसि ॥ १८॥
पूतोऽग्रहारो मखजालकृत्या पूता स्थली सत्पदरेणुपूर्णा ।
पूता वयं ग्रामसुनामधृत्या वसेम नारायण ते कटाक्षैः ॥ १९॥
श्रीसूक्तहोमेन कृतेन भक्त्या ग्रामस्समृद्धिं सकलामुपैतु ।
देवस्समाराधनसम्प्रहृष्टः अभीष्टदायी सततं विभातु ॥ २०॥
अत्र्यन्ववाये जनिमेत्य सेवा रतेन मावासरघूत्तमेन ।
भक्त्या कृतं स्तोत्रमिदं पठन्तः लक्ष्मीकटाक्षेण विभान्तु लोके ॥ २१॥
लक्ष्मी नारायणं देवं मन्दिरं नूतन निर्मितम् ।
रक्षितां यागशालां च दृष्ट्वा तुष्टिं भजेमहि ॥ २२॥
इति श्रीनिवासराघवन् विरचितं श्रीलक्ष्मीनारायणस्तोत्रं सम्पूर्णम् ।
NA