श्रीकोमलाम्बासमेत शार्ङ्गपाणिस्तुतिः
(कुम्भकोणस्थले)
त्रयस्त्रिंशत्कोटि त्रिदशगणसंसेवितपदः
सह श्रीभूमिभ्यां कनकनलिनीरोधसि वसन् ।
अमन्दानानन्दान् स्वयमवकिरन् सेवकदृशोः
मुकुन्दः शार्ङ्गास्त्रो मनसि मम नित्यं विहरतु ॥ १॥
कुशलमवनतानां कुम्भकोणस्थले यः
कलयति निवसन् वै काञ्चनाब्जिन्युपान्ते ।
कुलिशधरमुखेभ्यः कोमलाम्बासहायः
स भवतु मम चित्ते सन्ततं शार्ङ्गधन्वा ॥ २॥
त्रिंशत्त्रकोटि वसुरुद्रदिवाकरादि
देवादिदेवगणसम्मतसेव्यमानम् ।
अम्भोजसम्भवचतुर्मुखगीयमानं
वन्दे शयानमिह भोगिनि शार्ङ्गपाणिम् ॥ ३॥
उत्तानशायिनमुदारकिरीटचूडं
उत्फुल्लपद्मनयनं ह्युपधानबाहुम् ।
आजानुबाहुममलं फणिराजतल्पे
शार्ङ्गेशमच्युतमहं प्रणतोऽस्म नित्यम् ॥ ४॥
सकलभुवनमाता सागराधीशजाता
प्रणमदमरकामा भास्करक्षेत्रधामा ।
शकलितभवमूला शार्ङ्गधन्वानुकूला
प्रविमलमुखबिम्बा पातु मां कोमलाम्बा ॥ ५॥
मथितादमृताम्भोधेरवतारमवाप्य या ।
जगतामभयं चक्रे तनुतां कोमला श्रियम् ॥ ६॥
इति कुम्भकोणस्थले श्रीकोमलाम्बासमेत शार्ङ्गिपाणिस्तुतिः समाप्ता ।
Proofread by PSA Easwaran