केशवादिचतुर्विंशत्यवतारस्तोत्रम्
अधरं दक्षिणं हस्तमारभ्यैव प्रदक्षिणम् ।
मूर्तिभेदान् हरेर्वक्ष्ये भवबन्धविमुक्तये ॥
श्रीमत्पङ्कज-शङ्ख-चक्रगदया सम्भूषिते केशवे
शङ्खाम्भोज-गदा-सुदर्शनधरे नारायणे सर्वदा ।
भक्तिर्मेऽस्तु गदाऽरि-शङ्खजलजैर्युक्ता दृढा माधवे
गोविन्दे वर-चक्र-धारिणि-गदाफुल्लाब्ज-शङ्खान्विते ॥ १॥
कौमोदक्यरिविन्द-शङ्खविदधच्चक्रं च विष्णुमुदा
चक्राङ्को मधुसूदनो दधदसौ शङ्खाऽब्ज--कौमोदकी ।
नित्यं पद्म-गदारि-शङ्खसहितश्चित्ते मम त्रिक्रमो
युक्तास्तिष्ठतु शङ्ख-चक्र-गदया पद्मी सदा वामनः ॥ २॥
वन्दे श्रीधरमब्ज-चक्र-गदया शङ्खेन चाऽलङ्कृतो
नित्यं पाहि गदारि-पङ्कजदरान् विभ्रदृषीकेश माम् ।
शङ्खाऽब्जारि-गदाधराद्य कुरु मे श्रीपद्मनाभाभयं
श्रीदामोदरमब्ज-शङ्ख-गदिनं सारिं प्रपन्नोऽस्म्यहम् ॥ ३॥
कौमोदक्युरु-शङ्ख-पद्मसदरिः सङ्कर्षणः शर्मदो
भूयात् सोऽग्न्य-गदाधरारिकमलः श्रीवासुदेवोऽस्तु मे ।
प्रद्युम्नश्च रथाङ्गकं जगदया युक्तोऽब्जपाणिर्मुदे
चक्री चारुगदी सशङ्खकमलो देवोऽनिरुद्धस्तु मे ॥ ४॥
देवेशः पुरुषोत्तमोऽरिकमलः शङ्खो गदी चिद्वपु-
र्बिभ्त्-पद्म-गदोरु-शङ्खमरिणा साकं सदाऽधोक्षजः ।
चक्रा-म्भोज-गदादराङ्ति-चतुर्बाहुः सुखं नृहरि-
र्दद्यादद्य ममाऽच्युतः पृथुगदा-पद्मारिशङ्खी परम् ॥ ५॥
साऽब्जारिः स जनार्दनोऽस्तु सदयः शङ्खी गदी मे सदा
मूर्ध्नोपेन्द्रमहं नतोऽस्मि सदरं युस्तं गदार्यम्बुजैः ।
वन्दे शङ्ख-सुदर्शनाम्बुज-गदापाणिं हरिं मुक्तये
कृष्णं शङ्ख-गदा-ऽब्ज-चक्रिणमलं भक्त्या समभ्यर्चये ॥ ६॥
वादिराज-यति-प्रोक्ते-केशवादि-स्तुतिं नरः ।
पठेत् सर्वेष्टमाप्नोति सर्वानिष्ट-निवृत्तिमान् ॥ ७॥
इति श्रीवादिराजकृत-केशवादिचतुर्विंशत्यवतारस्तोत्रम् ।
चतुर्विंशतिमूर्तिभेदस्तोत्रं
Proofread by Aruna Narayanan narayanan.aruna at gmail.com