श्रीकविराजस्तुतिः
विलोचनकदम्बकं यदुपलभ्य लुभ्य त्किमा-
लिलेह न हि किं पपौ न हि ममज्ज किंवा न हि ।
परं तु किमिवाभवन्नवतमाललक्ष्मीतिर-
रिक्रयानिगमसाम्प्रदायिकमुपास्महे तन्महः ॥ १॥
अबालकजवाधरः सलिलवाहवाहद्युतिः
नवाब्जवनवादिदृग्बृहदवार्यबाहुद्वयः ।
स वाङ्मनसबाह्यद्दक्प्रमदवारवारां निधिः
भवाल्लवणवारिधेः सविधवासवानुद्धरेत् ॥ २॥
यदीयसुषमावलोकनमुदः शरत्कौमुदी-
कदम्बपरिशीलनप्रमदधाटिकाचेटिका ।
तदम्बुदकदम्बडम्बरविडम्बिकिञ्चिच्छर-
त्सरोजदुरहङ्कृतेरनवकाशनेत्रं भजे ॥ ३॥
सिताभ्रचयपङ्किला विधुशिलाम्बुवापीविधु-
प्रभामयसरोजिनी यदि सृजेत् प्रसूनं नवम् ।
तदीयमुपमा यदीयनयनस्य नः स्पर्धिनी-
ममन्दमुदमम्बुधेस्तटकुटीचरं तक्रियात् ॥ ४॥
कुतूहलमयी हरिन्महमयं नभोमेदिनी
प्रमोदलहरीमयी जगति यत्र कुत्र क्वचित् ।
मतिः परमरंस्त यद्वदनबिम्बसञ्चुम्बिनी
तदस्तु वटभूरुहस्तटचरिष्णु धाम श्रियै ॥ ५॥
किमद्भुतततेः किमुल्लसनसम्पदः किं महो-
त्सवस्य कुतुकस्य किं किमु जगत्त्रयीविस्मृतेः ।
बभूव हृदयं यदाननविहारि जाने न तत्
पुनातु लवणाम्बुधे सविधचुम्बि किञ्चिन्महः ॥ ६॥
अधीनमिति यत्कृपानिमुखमित्यशेषोपमा
ससङ्ग्रहमिति द्युतिः प्रणयपूर्णमित्युत्सवः ।
अजस्रमनुशीलयत्यधिकलुब्धमित्यक्षित-
द्वटाव निरुहस्तटीघटितधाम धामाश्रये ॥ ७॥
यदीयरजसां गणः कबलितोडुवासां गणः
पतत्यमिततारकप्रियकरच्छटाकारकः ।
सुधां किरति यत्कलाकरपुलाकराशिर्दृशो-
स्तमम्बुधितटीचरं कमपि कान्तिसारं भजे ॥ ८॥
सुधांशुमयमाम्मुसुमांसलमृजं सुधारासुधा-
विधौतमतिनिर्मलप्रबलकौमुदीप्रोत्थितम् ।
परस्परविघर्षणैर्दहितशार्मणस्रोतसं
भुवि क्वचन पुञ्जितं मधुरिमाणमन्तर्भजे ॥ ९॥
प्रतिक्षणरतिक्षणप्रदमुरारिपादद्वयी-
विहारसुखसञ्चितद्रढिमनीलशैलद्रवे ।
अपाकृतबलस्त्रपाभरजयाय मादृङ्मनो-
द्रवं विरचयन्मदं मधुरिमा स कोऽपि क्रियात् ॥ १०॥
वदान्ययशसो जगद्विजयगर्वगम्भीरिमा
तुलाकणकलङ्कितानवसरः क्षमासम्पदः ।
महोर्मिभरिताद्भुतस्तबकिता कृपाचातुरी
तुरीयपुरुषार्थदं जयति मर्म शर्म श्रियाम् ॥ ११॥
दृशोरमृतवापिकामधुरिमैकधाराधरे
घनप्रमदकन्दलो वपुषि पानबाहुद्वये ।
भवामयपयोनिधेस्तरणसेतुरव्याहतं
पदं मनसि काचनाचरतु सा चितश्चातुरी ॥ १२॥
मदंहसि मदं हसत्पलमनूननानैनसां
प्रचण्डिमपिचण्डिले मरुति हिण्डमाने मुहः ।
चलत्पतितपावनाधिपपतातिकास्तम्भकृ-
त्किमाततभुजद्वयः स मयि निर्दयः किं भवेत् ॥ १३॥
परे तपति विक्रमाह्वयनिदाघचण्डातप-
व्यथादलनकेलिकौतुककदस्ववानम्बुदः ।
क्रियाज्जलधिकूलभृन्मुदितभाव्यलक्ष्मीवधू-
प्रसाधनविधौ हरिन्मणिजदर्पणस्तर्पणम् ॥ १४॥
सखे किमुपलभ्य कां ननु दशां भजे वेद्मि नो
परस्परमिति ब्रुवद्वचनसत्यतासिद्धये ।
निमज्ज्य सुखनीरधौ न हि बहिर्ययौ दृङ्ममनो-
द्वयं यदवलोकने तवलोकवाञ्छास्तु नः ॥ १५॥
दुरुद्धरमहाधमाधिपतिमादृशोद्धारणा-
तिभारगिरिविघ्नवन्मधुरिमाब्धिजीचिप्लवः ।
जगन्नयनभाग्यवैभवमहौषधीवाधव-
द्वयाद्रवमयोदयः स्फुरतु कोऽपि मन्मानसे ॥ १६॥
महोत्सवकरम्बितामितरगन्धशून्यापर-
प्रमोदमयसृष्टिमुल्लसितलोभकोशं दृशोः ।
अकण्टकविलुण्ठनापणमनश्वरश्रेयसां
मुहुर्मुहुरहं महोघनमहोज्ज्वलं कामये ॥ १७॥
कलङ्ककपटस्फुटोदररजच्छटापङ्किलं
यन्दाननसुधाम्भसः कलुषहृत्पटीमण्डलम् ।
धिनोति वसुधां सुधामयमयूखमाली मुहुः
मम प्रमददोहनः स भवताज्जगन्मोहनः ॥ १८॥
यदाननसुधाकरद्युतिसुधाधिपानेच्छयोः
मुहुर्विवृतसर्वतोमुखमतित्वरं धावतोः ।
अनाविलमणीमयाभरणमन्तरायस्त्विषा
भवन्नयनयोर्ममाभयनयोदयं सङ्क्रियात् ॥ १९॥
सपत्नविरहो महोल्लसितमाधुरीसम्पदां
सहासननवोत्सवो निखिलमोहलक्ष्मीततेः ।
परप्रमदकन्दलीवलदमन्दलीलाभरः
स रक्षतु पुरस्सरः सरसिजस्रजश्चक्षुषा ॥ २०॥
पराजितवराकरक्तकनवौष्ठलेखाकरः
श्रिया विमलनाकरक्षणशिलाविलासाकरः ।
मुखेन हरिणा करम्बितसुधांशुनिन्दाकरः
स मेऽस्त्वघनिराकरः खलु गृहीतपद्माकरः ॥ २१॥
कृपालुकुलमौलिना सपदि येन सम्पत्तथा
वनीयकमनीयतापदतनूरुचिन्तापदम् ।
शितिक्षितिमहेन्द्र हे शरण शून्यताशालिनां
गणे सुरतरूपमोचितमहे भवं ध्यायताम् ॥ २२॥
श्रियं च सुहृदे ददद्वितरसन्मतिं भूपजा-
ङ्गणे सुरतरूपमोचितमहे भवं ध्यायताम् ।
जबाधरदरस्मितं मुखरुचा महेन्द्रप्रभा-
करम्बिततमालसारसदृगन्तरं गाहताम् ॥ २३॥
दिशं विरचयन्महो विपुलबाहुपुष्पावली
करम्बिततमालसारसदृगन्तरं गाहताम् ।
अरे हृदय यः सुधारसनिधानवेणुध्वनि
वनेजनयनाशयातनुतनुतराधिकारङ्गदम् ॥ २४॥
तमीक्षणनटं सकृत्तटवतीशतीरस्थली
वनेजनयनाशयातनुतराधिकारङ्गदम् ।
प्रपन्नपरिपालने पतितपावने पाटवी
पवित्रपदपङ्करुटपतनपूतपाषाणकम् ॥ २५॥
पयरसुपरिपन्थिपीडितपदः स पाता प्रभुः
प्रियं प्रतनपूरुषः परमपुण्यदः पूरयेत् ।
महेन्द्रमणिमञ्जुतां मलिनयन् महोमण्डलैः
मनोहरमहामहामधुरमर्मणां मर्दनः ।
महीध्रमयमन्दिरो मनुजमत्ततामञ्जरी
मधुर्मथनकृन्मथोर्मसृणयेन्मदीयां मतिम् ॥ २६॥
उदञ्चितसमुच्चकोरकरुचिप्रसूनस्मितं-
स्फुरत्तरलतातिखेलदलकान्तभालास्यभृत् ।
स्वरूपमिह ते न कः प्रकटवासवेलावने
जजल्प कुशलान्यनल्पय मुकुन्द कल्पद्रुम ॥ २७॥
सुधारसमयोदयं मुहुरुदञ्चयन् यः स्वरू-
पलक्षणरुचिच्छटापटिमपूरिताशातटः ।
धनाञ्जनरुचिं दधाति बहुधा नवैराश्रितो
महोभिरनिशं दिशेत् कुशलमम्बुजाक्षोऽम्बुदः ॥ २८॥
अरङ्कुधरधामवन्नरजनीमहोल्लासभृ-
त्कलापचयपूर्णविग्रहमहः श्रिया भास्वरम् ।
नकैरवगतां मुदं दिशति यन्नदीनोदये
पराङ्मुखमहं भजेऽद्भुतसुधानिधिं धाम तत् ॥ २९॥
अनुक्षणरसार्द्रतां सृजति यो यदीयं वल-
द्विनोदकमलं वपुः कलयतोऽपि यस्योदयः ।
न चन्द्रकिरणोच्चतामपि च ताडितालोकस-
न्तनिर्यमनुमोदिता स्मर तमद्भुताम्भोधरम् ॥ ३०॥
तुलानवसरोजबानवमरो जवामौष्ठदृ-
ग्घनाञ्जनकलापगञ्जनकलापगर्हच्छविः ।
भुजायुगमहोकचायुगसहोरुचातुर्यभा-
ग्भुजन्मदवलम्बतां मदबलं दृढार्तेर्हरेत् ॥ ३१॥
भविष्यदरुणानुजध्वजवियोगचिन्ताशुचो
विभिन्नशितशैलभृद्गलितरक्तधारोपमम् ।
शिवं दिशतु नीलभूधरविलग्नसोपानभू-
पतद्बहलतूलतुन्दिलविशालशोणांशुकम् ॥ ३२॥
हृदामितरवृत्तिभिः सह विधूतमूर्तिक्षणं
समं कमलकोरकाकृतिकरैरुदस्तं ततः ।
स्खलत्तदनुपीठतः सह सहस्रनेत्रोदकैः
क्रियात् किमपि मन्महः श्रियमनारतं तन्महः ॥ ३३॥
नदेशनिनदाधिपल्लवितलोककोलाहला
स्फुटार्तिविनिवेदनाश्रवणसावधानः किमु ।
सलीलसवनस्थलीगमनकौतुकोपक्रमे
तिरोवलितकन्धरो धरधुरन्धरोऽस्तु श्रियै ॥ ३४॥
जगद्विहरणोचितस्वतनुसङ्गहासाङ्गतो-
तरङ्गरुचिरङ्गससङ्ग्रहविधित्सया किं धुतः ।
गमोत्सवसमुत्सुको द्यतुमहं ह सारंहसा
बलान्यधवलावनीधरवनीवसन्तो विभुः ॥ ३५॥
प्रमोदजलधौ निमज्जति मनो जलार्द्रा दृशः
कदम्बकुसुमश्रियं हरति वर्ष्म बद्धोऽञ्जलिः ।
प्रधावति जयध्वनिर्निपतितं शिरोभूषणे
स कोऽपि समयः क्रियादिति चरित्रचित्रः श्रियम् ॥ ३६॥
पुरा परिचितेतरप्रणयचातुरीं कस्यचि-
न्मतिं नवकुमुद्वतीमभिलषन्तमालिङ्गितुम् ।
वहन्तमवरोहणं किमु कलाकरं तं भजे
शितिक्षितिधरः स्खलद्विपुलगण्डशैलोपमम् ॥ ३७॥
शनैरतुसरत्तरप्रमदवारिपूरेक्षण-
प्रमुक्तजनतेक्षगप्रकरसानुरोधः किमु ।
स्वकीयचरणद्वयीविहरमाणभक्ताशय-
व्यथालवविशङ्कितः किमु मृदु ब्रजन् पातु सः ॥ ३८॥
अनाथजनतार्पितं भरणभारमाविर्भव-
त्कृपादरमुपादेत् किमु विलासयात्रालसम् ।
दरोदितशिरोनतिः क्वचन चारु गारुत्मत-
प्रभालधिनकारु तद्भवतु दारु कारुण्यभाक् ॥ ३५॥
विपन्नजनतावनप्रचुरधावनत्रासतः
सदारतिकरक्षणव्यतिकरस्पृहोल्लासतः ।
विलम्बमवलम्ब्य चुम्बति नितान्तधीरागति-
र्यदीयपदसारसं समदसारसङ्गं हरेत् ॥ ४०॥
विधूतिमभितो दधद्बहुविधां मुहुर्मादृशा-
मनुद्धरणदुर्दमाद्बहलदुर्यशःकर्दमात् ।
समुद्धृतिविधानकृन्मुरहरस्य लोकोत्तरो
जयत्यतितरां हरेरपि हरेः प्रयाणोत्सवः ॥ ४१॥
मुहुः परिजनोत्करैर्धृतगुणैः कृताकर्षणो
नरप्रकरवीक्षितः सकरतारकोलाहलः ।
गृहीततनुरुत्तरैरलसयानशीलोऽवतु
ब्रजेशपुरनागरीवसनतस्करो दुष्कृतात् ॥ ४२॥
सुखाम्बुधिगभीरतावकलनादिवोर्ध्वस्फुर ।
द्भुजाधिविनिवेदनाप्रवणलोकसन्तानकम् ।
मृदङ्गरवरङ्गतुङ्गिमतरङ्गिघण्टारवं
भजे पशुपदारदृक्पतनपात्रयात्रोत्सवम् ॥ ४३॥
महीतलमहो जगद्विजयवादिनिःसाणज-
प्रणादभरनिर्भरभ्रमधुरीणसन्नाहिनम् ।
भजे चलपरेतराट्पतितराज्यधैर्याचल-
स्खलत्पृथुशिलारवप्रतिममङ्घ्रिघोष हरेः ॥ ४४॥
स्वतः प्रसरणोत्सुकामरुणचेलभामेलना-
दशृङ्खलितखेलितां नवसुधांशुधारोन्मदाम् ।
विधूननपम्परोदयविधूतसाम्यासनां
भजामि वदनद्युतिं मदनमोहनस्य प्रभोः ॥ ४५॥
करोद्धरणवाञ्छया करिवरस्य गाढत्वचा-
वगाढसरसीमिलन्मलिनकण्टकैः पीडनम् ।
नतोन्नतनिजाङ्गजङ्गमतयेव संसूचय-
न्युपाधिविगलत्कृपानदनृपालपादोऽवतात् ॥ ४६॥
कनत्किसलयावलीसुललितप्रभारामव-
न्नवारुणरुचारुणेक्षणविपत्त्रियामान्तवत् ।
महेन्द्रमणिमानसम्पदणिमानमानर्तय-
ज्जयत्यतिलसज्जवाविजयसन्जवासो महः ॥ ४७॥
वपुर्लवणिमोर्मिषु प्रतिफलन्निजास्यप्रभा-
वलोकनबलोत्थिता मम विमोहिता नोहिता ।
भवेदिह महाधमोद्धरणपात्रयात्रोदये
मुरारिरिति चिन्तयन् किमु समावृताङ्गोऽवतात् ॥ ४८॥
अये हरिपदद्वये हृदयखेलदेलातिगं
तदीययुगपद्गतौ बत कुतो विमर्शस्तवः ।
यतस्तदपदोषमानसपदं वदन्ति त्वया
विमृश्यमिदमेव यद्भवति विभ्रमश्रीर्गतिः ॥ ४९॥
मुकुन्दमुखवापिकाजगदपूर्वलक्ष्मीसमु-
द्नमाग्रसरबुद्बुदप्रतिममिन्दुबिन्दुव्रजम् ।
प्रफुल्लतरमुल्लसद्भुवनमोहवल्लीनव-
प्रसूनवलयभ्रमं प्रबलयन्तमन्तर्भजे ॥ ५०॥
दुरापरमणीयमारमणवक्त्रकान्तिच्छटा-
वलोकनवलोभतः किमु शिरस्तटोर्ध्वं गता ।
मदीयनयनायनीभवतु कापि यात्रोत्सवो-
त्सुकस्य परमेशितुश्चरमचुम्बिनी पट्टिका ॥ ५१॥
जनार्दनदृशोर्भृशोल्लसितपुण्डरीकोत्करा-
धिराज्यगरिमोपरि स्फुरितचामरोड्डामराम् ।
भजे फणिफटाच्छटानटललाटसीम्नि भ्रुवोः
स मां विलसितामनाविलसिताभ्ररेखाद्वयीम् ॥ ५२॥
हरेर्गमननिस्वनैः शमनयातनानिःसर-
न्मुरारिपुरसम्मुखप्रबलपापिनां विघ्नदौ ।
विघातविनिवारणं निगदितुं किमु द्वाःस्थितौ
विहायसि विहारदृक् क्वचन चक्रभृत् पातु नः ॥ ५३॥
नृलोकविषदोल्लसत्सुकृतजालबद्धं बहि-
र्गतं श्रुतिशिरोऽम्बुधेः किमपि रत्नमभ्रप्रभम् ।
महीपटतटस्थलीललितलोचनालङ्क्रिया
प्रियाणि च फलं क्रियाद्वसनदामनद्धो हरिः ॥ ५४॥
ललाटतटभूनदपटुकृरग्टकनकदल-
न्नवीनशतपर्विकास्तबकमिन्दुबिन्दुत्विवाम् ।
तरङ्गनिकरं गतावधिमधिश्रयद्विस्मृतं
प्रयातु वदनं न कम्पवदनन्तशोभाम्बुधः ॥ ५५॥
गमक्रमकुतूहली क्व च दधद्ममी विभ्रमी
समुद्धटितभङ्गिमन्दिरकपाटवरपाटवम् ।
गुणालयमृणालिनीकुसुमकान्तिकीर्ति श्रिया-
मनध्ययनलोचनः कलुषमोचनं नः क्रियात् ॥ ५६॥
नखद्युतिविलासवैभवलवार्थिकोटिक्षयां
करप्रकरमाधुरीपदनिपातदैन्यग्रहात् ।
ध्रुवं म्रदिमशालिसुन्दरगतिर्गतिर्मादृशां
दृशा विशदपुष्कर द्युतितिरस्क्रियादुष्करः ॥ ५७॥
अगाधनिजमाधुरीधृतनिमञ्जनायाः श्रुतेः
विकर्षणवशादिवोत्तरलमौलिभिर्मानवैः ।
गृहीतमरिजैत्रयात्रिकमिवाखिलाशाचरं
भजे मुरजयि क्षणे मुरजघण्टिकानिस्वनम् ॥ ५८॥
निमेषकणिकाविपद्युवतिदर्शनं दुष्क्रिया-
द्विषन्विविधविभ्रमो नृपचमुर्जुगप्सास्पदम ।
यदन्यदखिलं तदप्यपथमेव यस्मिन् दृशो-
र्मुकुन्दवदनस्पृशोः स समयोस्तु नः श्रेयसे ॥ ५९॥
विलोकितमितस्ततो विरचयग्निवान्वेषय-
न्ननाकलितमादृशः किमु नताननो लज्जया ।
मदीयपतितावलीनृपतितासहस्रासहा
सहस्रदलदा ? सर्षदविलोचनः सम्भवेत् ॥ ६०॥
मुहुर्मथितलोचनोच्चयविषादचक्रं चर-
त्तमालतरुमस्तकोत्थितसिताब्जमत्यद्भुतम् ।
चलद्दलितकज्जलद्युतिमुरारिमौलौ मिल-
त्त्विषा धवलदीधितेः प्रबलमातपत्रं भजे ॥ ६१॥
चलन्नृहरिभूतिवैभववनीसमुद्भेदव-
न्महाद्भुतमहीरहबृहत्पलाशोपमम् ।
स्मरामि दियदुन्मुखं किमपि मण्डलाकारभृ-
त्पटेन घटनाद्धनाघनघटानिभेनोद्भटम् ॥ ६२॥
परेतपृतनापतिः पतितमण्डले चण्डता-
मखण्डबहुदण्डदां प्रकटरान यदाकर्णनम् ।
गतेषु पतितेषु पूजनजनम्रतासम्भ्रमं
त्रपाबहलमावहत् स हृदि गाहतां काहलः ॥ ६३॥
धनांशुमघनाशिनाकृतिघनाघनाडम्बरं
विलोक्य विहितप्रडीनगतयोऽगतीनां गतेः ।
दृगम्बुजविहारलोभत इवापतन्तः स्थित-
च्छदाश्चलदुपर्यधो जयति चामराणां कुलम् ॥ ६४॥
प्रहारशकलीभवन्नमुचिवैरिकैरोटभू-
जुटन्मणिगणोच्चलत्तरझणक्रियामांसलः ।
पलायनपरायणव्यसनवारहाहारवा-
नवाप्य कलितोन्नतिर्जयति कोऽपि वेत्रध्वनिः ॥ ६५॥
जगत्त्रितयभानकृद्यदुकुलप्रदीपप्रभा-
प्रभासनसमुद्भवस्मयरसादिवोद्ग्रीवताम् ।
गतैः किल शिखाशतैर्घनतमास्तमाघस्मराः
स्मरामि धरणीपतेः सरणिदीपिका दीपिकाः ॥ ६६॥
रसास्थितिवशाकृपानिधिकृपाकटाक्षास्पदं
ततो विधिबलावरजमौलिसीमां गतः ।
अनाप्तजलजाक्षवीक्षणलवस्तदाकाङ्क्षया
विनम्रवदनोघटस्त्रुटितजीवनः पातु नः ॥ ६॥
शरद्विमलकौमुदीमयमहीमहाह्लादभू-
धरोपरि परिस्फुटामृतझरीव लीलावहा ।
सुधाधरणिरोहणत्रिजगतीमनोमोहनो-
त्तमाङ्गतलनिर्गलत्सलिलनिर्झरी पातु नः ॥ ६८॥
स्वजातकुसुमस्त्रजामसमभावलावण्यकृ-
न्मुरारिमुखहक्पदाम्बुजसमुच्चलश्रीलवः ।
अवाप्तुमिव माधवाननविलोचनाङ्घ्रिद्वय-
क्रमभ्रमणविभ्रमप्रियमदभ्रमम्भः क्रियात् ॥ ६९॥
मुखेन्दुमथ लोचनं स्वसुतवैरिभावान्निजा
धिपाभरणलोहितोपलकुलश्रियो लुण्टनात् ।
स्वशैत्यविजयाद्रदच्छदहृदोश्च सीमेत्यज-
द्भजद्भुवनपावनं चरणमम्बु विष्णोर्जयेत् ॥ ७०॥
वहन्तमलमम्बुदं स्ववहनाधिकस्निग्धतां
पपौ दलितकालियो ललितकालिमाडन्बरैः ।
रुषेत्वपनयत्पयोजनयनस्य नैल्यं मुहुः
पयो जनयतु प्रियाण्यनयतुष्टिभाजो मम ॥ ७१॥
निपीय वदनाम्बुजोदरमरन्दवृन्दं हरेः
पदाब्जमधुलालसागतमिलिन्दमाला किमु ।
विधौतमुखवर्णकैः शितिपुषां पयोविनुषां
ततः सपदि पातु काचन कृपालुतः पातुका ॥ ७२॥
जगत्त्रितयचित्तमोहनमनुपदेशाय किं
कपोलतलचुम्बिनः कति च केचन श्रीपतेः ।
विलोचनपिधायकाः किमतिलुण्ठनाय श्रियां
दिशन्तु मदनामयं वदनवारिपूरा हरेः ॥ ७३॥
कचिद्द्रुतगतिश्रियो हृदयचौर्यभीता इव
क च स्थिरतरा जगन्नयनरुद्धमार्गा इव ।
दिशन्तु मम सन्ततं स्खलनशोभिताम्भोधिजा-
धिवास्यशरदिन्दवः कुशलमम्भसां बिन्दवः ॥ ७४॥
लसद्वसनदामसन्नहनयन्त्रणानर्गल-
स्खलत्कमललोचनाननसुधांशुपीयूषवत् ।
मिलन्मलयसम्भवद्रवकदम्बवल्गुच्छवि
च्छिनत्तु दुरितामयं किमपि वारिधारामयम् ॥ ७५॥
विलोचनविलुण्ठितामृतमुखालयोद्घाटना-
तटद्वयनटद्विशङ्कटकवाटयुग्मोपमम् ।
भजाम्यभिषवोत्सवोत्तरतरङ्गिकेलीकर-
क्रियस्य कमलाकरग्रहकरस्य कर्णद्वयीम् ॥ ७६॥
धनः क्वगतमात्मनो मदमदभ्रमाहूतवान्
परेतसदृशि द्युतौ प्रतिकरोति पाथोरहम् ।
रसातलगतं विधुर्मधुरिमाणमाकृष्टवान्
यदङ्गनयनाननावरणतः स्वपन् पातु सः ॥ ७७॥
अखण्डसुखसम्पदानयनयोः शितिक्षमाधर-
स्थलीसुषमया निशारतिगुरोर्विषादश्रिया ।
समं समदमुत्थितः प्रभुरभूतपूर्वं क्रियात्
कृपाविपुलसम्पुटप्रतिमदृष्टिरिष्टं मम ॥ ७८॥
प्लवप्रवररामणीयक इवाभिलुब्धोत्थितं
सुधामयमरीचिमण्डलपिचण्डमध्यात् किमु ।
घनप्रमदमर्मतः किमु समुद्धृतं शर्म तत्
करोतु करुणानिधेरभिनवाक्षियुग्मं गम ॥ ७९॥
अनादृतजगस्थितेर्निजरथैकवासोद्वल-
त्कलेश्च रुचिसन्ततेः स्वरथसन्निवेशावनीम् ।
विमृश्य विभजद्धृवं रथतटभ्रमीविभ्रमि
क्रियान्मुहुरदभ्रमिष्टचयमभ्रमित्रं महः ॥ ८०॥
मनोवचनयोगिचिन्तनपरिच्युतश्रीधरा-
धिरोहणमहोत्सवोन्नतनिमित्ततां दर्शयन् ।
तुलामुचि रुचिच्छटापटिमविक्रियात्पातक-
व्यथाहररथाङ्गभृन्मम मनोरथानश्लथान् ॥ ८१॥
रथो मुरहरत्विषा विकसता विलासेन सा
सलोचनचयेन सप्रमदसम्भवेनाम्भसा ।
तदप्यमितवीचिभिर्गहनतां जगाहे यतः
स तर्पयतु दर्पहृत् कलिमलस्य कोऽपि क्षणः ॥ ८२॥
स्वकीयसुरनिम्नगाप्रभृतिलीर्थराजीनृपा-
भिषेकमुकुटं शिरस्यसितशैलचूडामणिम् ।
अधोऽप्यमरधोरणीमुकुटधाटिकामावह-
द्रथोपरि परिस्फुटं किमपि पीठमन्तर्दधे ॥ ८३॥
हरेर्यदभवत्त्विषां भुवि तदेव तादृक् पुन-
र्वदेन्ननु वदेन्न तद्यदभवद्रथारोहणे ।
विलोचनचयोत्कथोपरि विभावयत्तच्च किं
शुभानि यदिदंविधं तदनिशं विधत्तां महः ॥ ७४॥
किमद्रवमयी सुधा न धवलाकृतिश्चन्द्रिका
न बिन्दुपतनान्विता प्रमदवृष्टिरत्युन्नता ।
शताङ्गमधिरोहतः स्फुरतु कापि केलीमन-
स्तटे तटविटप्यधः स्फुटकृटी नटस्य प्रभोः ॥ ८५॥
विकीर्ण इव कुत्रचित् कचन दुर्मदोर्मिक्रमः
क्व च स्तबकबन्धुरः क्वचन पूरधौरेयकः ।
क्व च प्रबलवृष्टिमान् मुहरुदेति यात्रोत्सवः
स चक्रधरचक्रिचङ्क्रमणकेलिकालोऽवतात् ॥ ८६॥
स्थिरश्रवणदिग्गजव्रजकपोलदानापगा-
वगाहगतसम्भ्रमभ्रमरवाञ्छितश्रेयसम् ।
भुजङ्गजगदम्बरावरणदुर्दमाडम्बरां
भजामि हरिचक्रचङ्क्रमणघुङ्क्रियाघोषणाम् ॥ ८७॥
किमु स्वभयविद्द्रवद्दुरितवर्गमार्गं दद-
द्वलेन दलयन् मलं नलिनजाण्डभाण्डोदरम् ।
समुद्धतघनाघनध्वनिनियुद्धबद्धादर-
स्त्रिविक्रमरथारवः श्रवणसीम्नि विश्राम्यतु ॥ ८८॥
अदृद्यदुदधेस्तटीनिकटजन्मजन्मावली-
शिरःसुजनजन्मना पदमदायि दृक्पाटवम् ।
पुनर्यदभवन तद्वचसि यत्समारम्भणे
स चक्रिगमनक्रमः कमलचक्षुषो रक्षतात् ॥ ८९॥
जहाति जननोमनोनयनरङ्करत्नं शिशुं
शिशुर्न जननीस्तनेऽर्पयति चित्तवृत्तिं मनाक् ।
प्रियस्वजतिवल्लभो missing in the manuscript प्रियां
रथे चलति यत्र नः सृजतु रक्षणं स क्षणः ॥ १०॥
प्रमोदजलधौ निमज्जति मनोजलार्द्रा दशः
कदम्बकुसुमश्रियं हरति वर्षबद्धोऽञ्जलिः ।
प्रधावति जयध्वनिर्निपतितं शिरो भूतले
स कोऽपि समयः क्रियादतिचरित्रचित्रः श्रियम् ॥ ९१॥
विनिर्मितबहूत्सवैः परमसम्पदैः स्यूतव-
द्विभूषितवदद्भुतैः समुपलिप्तवत् कौतुकैः ।
करिष्यति कदा दृशोरमृतसेचनं मेचका-
चलाधरकलानिधेरथ विहारकालो मम ॥ ९२॥
अखण्डमहिमा भुवो भरतखण्डसीमास्मयः
पयःपतितटीभुवः सुकृतिनः सपत्नोदयः ।
पुनर्जनजनुर्जुषां किमपि वैभवं चक्षुषां
हरेः स्फुरतु मानसे मम स कोऽपि यात्रोत्सवः ॥ ९३॥
अहिस्थलतलाद्बिहिर्न हि महीजनैधिक्क्रिया
जयध्वनिभरस्फुटद्गगनमेव यस्यायशः ।
मनः सदनमस्तु नो नदनरेन्द्रवेलावनी-
वनीभवनवासिनः सरभसक्षणः सक्षणः ॥ ९४॥
कुलोद्भवकलावतीजनपरिभ्रमः सत्क्रिया-
कथारथमहश्लथा यदि च सा पशुव्यापृतिः ।
चिरातुरजरावतामपि हि मन्दतादूषणं
यतः स तनुतां शुभं वनजनेत्रयात्रोत्सवः ॥ ९५॥
विपन्मुखसमुद्रयद्ध्वजमपातयत् पातकं
सवेगमुदसारयत् परिकरं गदानां गणः ।
रहस्युदधिवन्मुहुः कमपि मन्त्रमन्तर्व्यथा
जनोऽयमनुयातुमिच्छति हरेः स पायान्महः ॥ ९६॥
समं निजगृहाङ्गणद्रुमफलेन निःश्रेयसं
विरिञ्चिपदवीकटीकनकवद्बिडौजःपदम् ।
मुखोदरचरत्सुधाकबलवन्महापापिनां
ययाजनि भयानि सा हरतु कापि यात्रा हरेः ॥ ९७॥
रथस्थितमुकुन्दसुन्दरमुखेन्दुसन्दर्शन-
प्रवाहविरहादिव स्वरवकैरवार्तस्वना ।
लुठत्यपि च तिष्ठति क्व च शुचातिमोहेन या
न यातु मम सा विलोचनपथाद्रथाङ्गावली ॥ ९८॥
नितान्तपतिता इति प्रथमतः प्रभूतप्रथा
रथाङ्गिपदभावतः सुगतयो भवामो वयम् ।
इति प्रतिजनं घनस्तनितकैतवेन ब्रुव-
द्भजे मधुमथो रथोच्चलितचक्रचक्रं हृदि ॥ ९९॥
मुकुन्दपदचुम्बनान्निगमशूलिमौलीन्दिरा-
कुचार्कतनयातटीमुनिमनस्सहाध्यासिनि ।
अनेकसुकृतश्रिया नयनयोर्विहारक्रिया
भविष्यति कदा रथे मम पृथाभुवः सारथे ॥ १००॥
सुखैर्ननु तनूततेर्मनुजनुस्समूहैर्दिशां
मुरारिमुखमाधुरीझरभरैश्च यस्मिन् दृशाम् ।
भिदानकिमहो महोऽवतु विलासहासप्रभा
प्रवालमणिदोलिकानिभरदच्छदस्य प्रभोः ॥ १०१॥
पतिः पतितसौहृदो मयि पितापि तादृक् सुतः
सुतप्तहृदयोदयोद्गमहिमा हि माता न मे ।
मनः श्वशुरयोरयोमयतिले बलं मे बलं
भवन्निति कदागदी तदितनातनः पातु नः ॥ १०२॥
चमूकरिणि मन्दता क्वचन रागभङ्गोद्गताः
सुगीतिषु नभः पतत्कुसुमकेष्वनुत्कण्ठता ।
शताङ्गचरणेष्वधोगतिरियंविधा यत्र त-
द्भिनत्तु भवपीडनं मधुमथो रथक्रीडनम् ॥ १०३॥
रथप्रवरमेदिनीधरतलावनीसम्भव-
न्नवीनवनलेखिकावलिकलिप्रगल्भप्रभाः ।
जनास्तनुजिताञ्जनाः कलितरज्जवो यत्र तं
शताङ्गसमतां गतेः स्मरतु चित्तमत्युत्सुकम् ॥ १०४॥
अनर्गलबलेन यन्मधुरिमा चतुर्दिक्तटीः
प्रपूरयितुमुत्सुको झरचतुष्टयं पुष्टयन् ।
तटिद्द्युतिदिडम्बकृद्वसनपट्टिकाकैतवा-
हृदातु मुदमिन्दिराहृदयनन्दनस्यन्दनः ॥ १०५॥
इदंविधविलासिनीत्यहृदयत्वमत्युन्नतं
नितान्तमहतीति चेद्वहति रम्यतां ग्राम्यताम् ।
शिरःशिखरलङ्घिनीत्यनुभवानुलापः कथं
रथं श्रितवतो गतिप्रमदसन्ततिर्वर्ण्यते ॥ १०६॥
मनांसि सुषमासमाधवरथोत्तमस्तामथो
जनस्तमपि तं पुनः प्रमदसिन्धुवीचीरयः ।
चकर्ष नितरामतो जयति यत्प्रकर्षादयः
स नः सृजतु गुत्सवत्कुशलमुत्सवः श्रीहरेः ॥ १०७॥
जगद्विजयिमञ्जिमोत्करवरोपलब्धिर्नव-
प्रसूनशरचातुरीपरिणतिर्गुणानां जयः ।
स यत्र तरुणीगणः प्रणयपूर्णलीलापणः
स मेऽस्तु कृतरक्षणः सरसिजेक्षणस्य क्षणः ॥ १०८॥
दयामधुरिमामृतप्रमदभुक्तिमुक्तिश्रियां
परस्परगुरोर्विनिस्सरणसम्भ्रमाडम्बरः ।
मुहुर्जयति यत्र नो हृदि भवन्तु ताः सङ्कटाः
फटाधरपतेः फटानटनकृत्कटाक्षच्छटाः ॥ १०९॥
अपाङ्गतटरिङ्गणस्मितवचांसि वामभ्रुवोऽ-
नुगच्छति यथा यथा कुलभुवस्त्रपाचातुरी ।
कपालिकमलाश्रिता ननु तथा तथा लीलयाऽ-
नुगच्छति यदीयदृग्द्यतु मदीयदुःखानि सः ॥ ११०॥
स्पृशन्नमरमण्डलं प्रमथनाथसङ्घट्टितो
रमास्यपरिरम्भकृद्भजनभाजि मज्जन्मुहुः ।
अनाथजनसन्ततौ विहितसीवनः श्रीवन-
प्रभूतनयनस्य पश्यतु समां दृगन्तः कदा ॥ १११॥
अखण्डमणिमण्डनत्विषि करावलम्बं द्विष-
द्दिशो हसदनेहसोऽपि च सहायभावं मुहुः ।
किमीहविकसन्मनोनयनमुल्लसद्दुर्लभं
रमारमणरामणीयकमहर्निशं भावयेत् ॥ ११२॥
मिलन्निखिलमङ्गलावलिनिवाससीमार्पणा-
मधश्चरणयोर्दधत्प्रपदचर्वितोर्वीतलम् ।
यदीयनृकुलं क्वचिन्मुरहराननश्रीसुधा-
नुधावि नयनं दयाजलधिमन्यानं भजे ॥ ११३॥
निराकृतिपुराकृतप्रचुरपातकान्तः पुनः-
प्रवेशविनिवारकार्गलयुगाभबाहुद्वयः ।
कचावचितपुण्यपादपफलाभिरूवोल्लस-
द्भुजा यदवलोकिनः क्वचन धाम तत्कामये ॥ ११४॥
कियद्गगनमुद्तानललता यदा सङ्कटा
धरा यदि नरान्दिश क्वचन पुञ्जदीपत्विषः ।
ततादिविततारवं यदि जगत्कृशं किं सखे
ब्रवीमि मुरजिद्दिनात्ययशताङ्गयात्राश्रियः ॥ ११५॥
अनादिमृदुमर्दलैरथ विहारितादृङ्महो
मुदं हृदयमस्त्रवन्नयनयोर्युगं तादृशम् ।
अपायि पुरुषैर्दिशां कुलमधं च यस्मिंस्तथा
स कोऽपि समयः समुत्सवमयः प्रियाणि क्रियात् ॥ ११६॥
पिचण्डपरिपूरकाधिकनिपातपीताम्बरा-
ननद्युतिसुधाबहिर्गमभयेन बद्धानना ।
सरोरुहमयी स्वनर्तनमनोज्ञरूपालिका
हरेरलकपालिका भवतु पालिका मादृशम् ॥ ११७॥
सारसामर्थ्यसंसारसाधो यशः
सारसानल्पकासारसामन्त हे ।
सारसायब्जवासारसा त्वां कृपा
सारसानन्ददा सारसान्द्रद्युते ॥ ११८॥
सुधामारामाराधननिरुपमारातिभयद
स्वनामारामाराजिषु तरुणमारायित भवान् ।
अकौमारा मारालचयसुषमा राजतयशः
श्रियामारामाराशयतु रमाराजधरणेः ॥ ११९॥
नवमालिकालिनवमार्थकीर्तिम-
न्नवमानितेन्द्रनवमाष्टदिग्गजाम् ।
नवमारकान्त्यनवमातिदानव-
न्नवमामिलाधनवमापि मत्कृपाम् ॥ १२०॥
धनव्ययोपमानवर्जितोर्जितार्जमानव-
द्भटच्छटाक्षमानवद्यकीर्तिबंहिमानवः ।
महोऽप्यहो रमानवर्धतेनसत्तमानव-
न्नवर्णहीनमानवप्रभोविभासमानवः ॥ १२१॥
पदांशुखेलनखरांशुसम्पदा
पदाहपुष्पायुधकोटिकिम्पदा ।
पदाय मूर्तिर्भवतु व्रजापदा
पदाप्तवृन्दावनचन्द्रिकापदा ॥ १२२॥
समारसम्पद्व्रजभूरमासमा
समाजसौभाग्यकलानिवासमा ।
समापयन्तं शुभकर्मभिः समा
समाकुलं कर्म सदद्य शंसमा ॥ १२३॥
इति श्रीकविराजकृत कृष्णस्तुतिः सम्पूर्णा ।
Proofread by Rajesh Thyagarajan