कल्किस्तवः २
उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः ।
कल्किर्हरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ १॥
यवनीनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापवह्निम् ।
सुकृतद्रुमसेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम् ॥ २॥
प्रेङ्खद्वाजितरङ्गमुन्मदगजग्राहप्रगल्भं भट-
व्यावल्गत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् ।
म्लेच्छानीकमहार्णवं सुविपुलं सङ्ग्रामकल्पावधौ
यश्चौर्वाग्निरिवाभवद्यतु स वः कल्पानि कल्की हरिः ॥ ३॥
इति कल्किस्तवः २ सम्पूर्णः ।
Proofread by PSA Easwaran