कैवल्याष्टकम् अथवा केवलाष्टकम्
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ १॥
आब्रह्मस्तम्बपर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ २॥
स गुरुः स पिता चापि सा माता बान्धवोऽपि सः ।
शिक्षयेच्चेत्सदा स्मर्तुं हरेर्नामैव केवलम् ॥ ३॥
निःश्र्वासे न हि विश्र्वासः कदा रुद्धो भविष्यति ।
कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ४॥
हरिः सदा वसेत्तत्र यत्र भगवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ५॥
अहो दुःखं महादुःखं दुःखद् दुःखतरं यतः ।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ६॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ७॥
तृणीकृत्य जगत्सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ८॥
इति कैवल्याष्टकम् अथवा केवलाष्टकं सम्पूर्णम् ।
श्रीकृष्णार्पणमस्तु ।
इति नीलकण्ठगोस्वामी विरचितं केवलाष्टकं सम्पूर्णम् ॥
This is part of larger text, pancharatnam written by Nilantha Goswami.