श्रीकृष्णमुक्तकम्
उदेतु हृदयाकाशे मम हेरम्बभास्करः ।
उत्साहकमलोल्लासं कुर्वन् विघ्नहिमं नुदन् ॥
अभ्यर्थितः कमलजेन भुवोऽपनेतुं
भारं बभूव वसुदेवसुतोऽद्भुताङ्गः ।
तातेन यो व्रजमनीयत कंसभीत्या
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १॥
नन्देन नन्दनधिया किल रक्ष्यमाणो
यः पूतनामनयदन्तिकमन्तकस्य ।
वात्यासुरं च शकटं तु पदा बिभेद
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २॥
मात्रे प्रदर्श्य भुवनं विवृते निजास्ये
गर्गेण नामनि कृते सह पूर्वजेन ।
जह्ने मनांसि चरितैत्रेर्व्रजवासिनां यः
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३॥
दुश्चेष्टितेन बत संयमितो जनन्या
पाशैरुलूखल उपासकलोकनिघ्नः ।
भङ्क्त्वार्जुनौ धनदजाववति स्म यो वै
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४॥
गोवर्धनं गिरिवरं समुपेत्य वत्सान्
सञ्चारयन् सहबलस्तदुपत्यकासु ।
यो वत्सदानवमहन् बकदानवं च
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५॥
गोपाभिकानजगरोदरसम्प्रविष्टान्
दृष्ट्वा स्वयं प्रसभमेत्य गळे प्रवृद्धः ।
प्राणैर्वियोज्य दितिजं स्वजनानपाद् यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ६॥
ब्रह्माणमाशु परिदर्शितयोगमायो
योऽमूमुहत् कृतवयस्यकवत्ससङ्घः ।
प्रीतश्च यः सपदि संस्तुवते च तस्मै
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ७॥
पौगण्डकं वय उपेत्य मनोज्ञवेषो
वृन्दावने तु पशुपैः सह चारयन् गाः ।
योऽहन् बलेन सह धेनुकदैत्यमुग्रं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ८॥
क्रीडन् वने सहृदयैः सह गोपवेषं
ज्येष्ठेन यः सपदि धातितवान् प्रलम्बम् ।
मुञ्जाटवीमुपगतोऽग्निभयादपात् वान् ।
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ९॥
यः कालियस्य गरुडस्य कलिन्दजायाः
कालुष्यमेकपद एव पदा जहार ।
वह्निं समन्तत उपागतमापिबद् यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १०॥
यो यज्ञविघ्नकुपितेन्द्रनियुक्तमेधै-
रुत्सृष्टवारिपरिपीडितमात्मनाथम् ।
गोगोपवृन्दमवितुं धृतवान् महीघ्रं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ११॥
इन्द्रेण यो गतमदेन कृताभिषेको
गोविन्द इत्यभिहितस्त्रिदशैस्समेतैः ।
नन्दं जलेशपुरनीतमुपानयद् यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १२॥
यः पृष्टनन्दवचसा गतमर्त्यबुद्धीन्
स्वस्मिन् यथार्थमवगन्तुमुदूढवाञ्छान् ।
आत्मस्वरूपमवबोधयति स्म गोपान्
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १३॥
वृन्दावने चरति चन्द्रकराभिमृष्टे
वेणुस्वनश्रवणमोहितवल्लवीभिः ।
रासोत्सवं व्यतनुताखिलमोहनं यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १४॥
यः शङ्खचूडमवधीदबला हरन्तं
व्योमं च गोपगणमद्रिगुहां नयन्तम् ।
नन्दं व्यमोचयदहेर्मुनिशापतोऽमुं
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ १५॥
योऽहन्नरिष्टमसुरं वृषभाकृतिं स्वान्
सन्त्रासयन्तमपि केशिनमश्वरूपम् ।
श्रीनारदोदितसमस्तमहापदानः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १६॥
अक्रूरमागतमकृत्रिमभक्तिभाजं
यो मानयन् सहबलो मधुरां प्रयातः ।
मार्गे प्रदर्श्य परमं महिमानमस्मै
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १७॥
दुर्वादिनं रजकमाशु निपात्य कुब्जा -
मृज्वीं विधाय च सुदामकवायकाभ्याम् ।
दत्त्वा वरं सपदि यः प्रबभञ्ज चापं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १८॥
हत्वा गजं झटिति रङ्गगतः सराम-
श्चाणूरमुष्टिकमुखान् विनिहत्य मल्लान् ।
कंसं गुरुद्रुहमहन् सह सोदरैर्यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ १९॥
कृत्वा च बन्धनगतौ पितरौ विमुक्तौ
नन्दं विसृज्य सह बन्धुजनैव्रजाय ।
मातामहं यदुकुलस्य पतिं व्यधाद् यः
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ २०॥
गर्गात् कृतोपनयनो व्रतमास्थितो यः
सान्दीपनिं गुरुमुपेत्य गृहीतविद्यः ।
तस्मै मृतार्भकमदाद्घृतपाञ्चजन्यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २१॥
आश्वास्य गोपवनिताजनमुद्धवेन
गत्वा गृहं रमयति स्म वितीर्णगन्धाम् ।
श्वावल्किना हृतपृथात्मजसङ्कटो यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २२॥
यो मागधेन समुपाहृतभूमिभारं
प्राप्ताहवोपकरणो बत चित्रयुद्धम् ।
कृत्वाग्रजेन रहितो बहुशो जहार (सहितो)
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २३॥
रुद्धे पुरे यवनकेन पुरीं विधाय
यो द्वारकां स्वजनमत्र निवेश्य हृष्टः ।
म्लेच्छं चकार मुचुकुन्दहगग्निदग्धं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २४॥
मान्धातृसूनुमनुगृह्य जरासुताय
दत्त्वा जयं श्रुतविदर्भसुताभिलाषः ।
तां राक्षसेन विधिनोदवहच्छ्रियं यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २५॥
लब्ध्वा तु शम्बरहृतं तनयं स्मरं यः
कृत्वा प्रयत्नमयशःपरिमार्जनाय ।
सात्राजितीमपि च जाम्बवतीमवाप
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २६॥
हत्वा स्यमन्तककृते दयितापितृघ्न-
मक्रूरसीरिहृदिकात्मजसत्यभामाः ।
क्षुब्धाः प्रसन्नमनसश्च कृता हि येन
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २७॥
काळिन्द्यविन्दत पतिं मिहिरात्मजा यं
विन्दानुविन्दसहजापि च मित्रविन्दा ।
बद्धर्षभं सपदि नाग्नजिती च सत्या
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २८॥
भद्रां च केकयपतेस्तनयामुवाह
भित्त्वा च लक्षमपरैर्नर पैरभेद्यम् ।
मद्राधिपस्य तनयामपि लक्षणां यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ २९॥
भौमं निहत्य समुरं तदुपाहृतानां
स्त्रीणां तु षोडशसहस्रमुदावहद् यः ।
ताभिः पृथगूगृहगताभिररंस्त वै यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३०॥
दातुं तु भौमहृतकुण्डलमिन्द्रमात्रे
स्वर्गं गतः खगवरेण ससत्यभामः ।
यः स्वस्तरुं सह मदेन जहार शच्याः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३१॥
आनर्तनाथतनयापतिनाग्रजेन
यो द्वारकामधिवसन् निजवल्लभासु ।
एकैकशो दश दशाजनयत् तनूजान्
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३२॥
यस्त्वर्जुनेन यतिवेषनिगूहितेन
दुर्योधनप्रियकृतं हलिनं प्रतार्य ।
भद्रां स्वसारमपहारितवान् सुभद्रां
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३३॥
इन्द्रात्मजेन सह खाण्डवमग्निदग्धं
कृत्वा मयं च परिरक्ष्य सभामनेन ।
योऽकारयत् प्रियकृते खलु धर्मसूनोः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३४॥
भीमेन मागधनृपं युधि घातयित्वा
तद्बद्धभूपतिगणांश्च विसृज्य भक्तान् ।
योऽयाजयत् ऋतुवरेण हि धर्मसूनुं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३५॥
हत्वा तु चैद्यपृथिवीपतिदन्तवक्रा-
वाजन्मनः प्रभृति सम्भृतमत्सरौ यः ।
तुष्टो बभूव कृतकृत्यतयातिमात्रं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३६॥
साल्वं ससौभमखिलानपि मोहयन्तं
हत्वा ससैन्यमपि पौण्ड्रककाशिपौ यः ।
चक्रे च काशिनगरीं निजचक्रदग्धां
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३७॥
आकृष्टनीलसरिता विविदान्तकर्त्रा
साम्बापकारविषमीकृतहस्तिनेन ! ।
यस्त्वग्रजेन सह रञ्जितवांस्त्रिलोकीं
कृष्णोडवतात् स भगवान् हृदयस्थितो नः ॥ ३८॥
अज्ञातभूमिसुरधेन्वपहारदोषात्
सम्प्राप्तकूपवसतिं कृकलासरूपम् ।
उद्धृत्य यो गमितवान् नृपतिं नृगं स्वः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ३९॥
मायावलोकनकुतूहलतोऽभियातं
धर्मं गृहस्थविहितं बहुधा प्रदर्श्य ।
चक्रे प्रसन्नमनसं खलु नारदं यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४०॥
श्रुत्वा निरुद्धमनिरुद्धमुपेत्य बाणं
जित्वा वृषध्वजगिरा तमथानुगृह्य ।
प्रत्यानयत् सपदि पौत्रमुषान्वितं यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४१॥
दारिद्र्यतप्तदयितावचसा समेतं
स्वस्मै प्रदत्तपृथुकप्रसृतिं कुचेलम् ।
भूत्या जितामरपतिं कृतवान् क्षणाद् यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४२॥
सूर्योपरागसमये भृगुवर्यतीर्थ-
स्नानार्थमागतनृपर्षिसुहृत्समाजे ।
यज्ञोत्सवं समतनोदृषिभिः पितुर्यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४३॥
मात्रे तु कंसनीहतांस्तनयान् प्रदर्श्य
वैदेहभूपतिवृषश्रुतदेवविप्रौ ।
अन्वग्रहीद् युगपदेत्य गृहं तयोर्यः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४४॥
उत्पाद्य घोरसमरं कुरुपाण्डवानां
भारं भुवो बत जहार निरायुधो यः ।
धर्मात्मजं च जयिनं कृतवान् सधर्मं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४५॥
तीर्थाप्लुते मुनिजनोज्झितसूतहत्यं
स्विष्टक्रतुं निहतवल्कलमप्रजं यः ।
आनन्दयच्चिरवियुक्तमुपेत्य हृष्टः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४६॥
ज्येष्ठेन रुकमिणि हतेऽतिबलेऽक्षगोष्ठयां
कालिङ्गभूपदशनांश्च निपात्य सेषात् ।
सञ्चप्रियाञ्च समरञ्जयमात्मना यः
(तञ्चप्रियां च समरञ्जयदात्मना यः)
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४७॥
पार्थेन यः सह पदं परमं स्वमेत्य
स्वीकृत्य नष्टतनयान् द्विजपुङ्गवाय ।
दत्त्वा वयस्यमकरोत् सफलप्रतिज्ञं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४८॥
मूर्त्या गिरा मधुरया स्मितवीक्षणाद्यै-
राकृष्टसर्वकरणाः सकलाश्च देव्यः ।
आनन्दवारिधिगता न विदुर्यतोऽन्यत्
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ४९॥
यो विप्रशापहतमात्मकुलं निशम्य
वैराग्ययुक्तमनसौ पितरौ मुमुक्षू ।
श्रीनारदेन कृतवान् विदितात्मतत्त्वौ
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५०॥
प्रोवाच यः स्वमतमुत्तममुद्धवाय
यं सूरयो जगति भागवतं वदन्ति ।
पीतासवं च कृतवान् कुलमात्मशेषं
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५१॥
कीर्ति वितत्य भुवने सकलाघहन्त्रीं
यो दैवतैरनुमतो भवपद्मजाद्यैः ।
व्याधेन विद्धचरणो गतवान् स्वकाष्ठां
कृष्णोऽवतात् म भगवान् हृदयस्थितो नः ॥ ५२॥
श्रीकृष्णमुक्तकमिदं पठतां जनानां
यः पातकानि सकलानि विधूय सद्यः ।
भक्तिं स्थिरां स्वविषयां विदधाति तुष्टः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५३॥
गोपात्मजा व्रतकृशाः परिहासपूर्वं
योऽन्वग्रहीत् तदभिलाषसमर्थनेन ।
चक्रे च यो द्विजसतीः सफलात्मभक्तीः
कृष्णोऽवतात् स भगवान् हृदयस्थितो नः ॥ ५४॥
कृष्णः कृष्णः कृष्ण इत्यन्तकाले
जल्पन् जन्तुर्जीवित यो जहाति ।
आद्यः शब्दः कल्पते तस्य मुक्त्यै
व्रीळानम्रौ तिष्ठतोऽन्यावृणार्थौ ॥ ५५॥
इति श्रीकृष्णमुक्तकं सम्पूर्णम् ।
Proofread by Mohan Chettoor