श्रीकृष्णलीलास्तुतिः
निगमतरोः प्रतिशाखं मृगितं च मया परं ब्रह्म ।
मिलितमिदानीमङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ १॥
तप्तं तपोभिरन्यैः फलितं च तद्गोपबालानाम् ।
आसां यत्कुचकुम्भे नीलनिचोलायते परम्ब्रह्म ॥ २॥
श्रुतिमपरे स्मृतिमपरे भारतमन्ये भजन्तु भवभीताः ।
अहमपि नन्दं वन्दे यस्यालिन्दे परम्ब्रह्म ॥ ३॥
किं कथयामः कस्मै कस्य मनः प्रत्ययमाधत्ते ।
रमयति गोपवधूटीकुञ्जकुटीरे परम्व्रह्म ॥ ४॥
नीतन्नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।
इति समुदीर्य लुठन्तं भूमौ बालं नमामि गोपालं सम्पूर्णम् । ५॥
पश्यत बलमबलानामनाविले हृद्बिले बबन्धुर्याः ।
तनुदृष्टिपातरश्म्याऽऽकृष्टममूर्तं परम्ब्रह्म ॥ ६॥
एतत्त्वामहमर्थयामि सततं रे चित्त चिन्तातुर
मा चिन्तां कुरु चञ्चलेषु विषयेष्वागारदारादिषु ।
गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ ७॥
ध्यानाभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ॥ ८॥
इति श्रीकृष्णलीलास्तुतिः समाप्ता ।
Proofread by PSA Easwaran psaeaswaran at gmail.com