श्रीकृष्णकथामृतमङ्गलश्लोकाः
ॐ श्री
॥ श्रीशङ्कर ।
सर्गस्थित्यन्तकर्तारौ भक्तिगम्यावगोचरौ
उमामहेश्वरौ वन्दे सत्कृपासरिदर्णवौ ॥ १॥
सृष्ट्वाऽखिलं विश्वमिदं विचित्रम्
स्थूलञ्च सूक्ष्मञ्च चराचरञ्च ।
तथापि नित्यं निरुपाधिको यः
तस्मै महेशाय नमोऽस्तु शश्वत् ॥ २॥
मौलो यो बिभृते शुभां सुरधुनीं भाले कलामैन्दवीम्
नेत्रे मन्मथदाहकानलशिखां कण्ठे विषं भीषणम् ।
वामाङ्के गिरिजां वपुष्युपचितं भस्म स्मशानोद्भवम्
तं वन्दे शिरसा भुजङ्गरशनं सर्वैरलिप्तं शिवम् ॥ ३॥
सत्यं नश्वरमस्तु वा जगदिदं जीवः शिवो वेतरः
शून्यं वा परमाणुरस्तु जगतो हेतुः प्रधानं च वा ।
योगो ज्ञानमथास्तु कर्म नितरां निःश्रेयसे साधनम्
जानीमो गिरिशैतदेव भगवन् त्वं नः शरण्यः प्रभुः ॥ ४॥
रत्नौघे सति मङ्गलाय जगतो हालाहलं भीषणम्
स्वर्गादीन्यतिसुन्दराणि भुवनान्युज्झित्य चित्यास्थलम् ।
पौलस्त्ये च निधाय येन विभवं भिक्षाटनं स्वीकृतम्
तं वन्दे विगतस्पृहं शिवकरं मृत्युञ्जयं सादरम् ॥ ५॥
वेदैश्च सर्वैः स्मृतिभिः पुराणैः
शास्त्रैश्च तैस्तैर्मुनिभिः प्रणीतैः ।
ज्ञातं न सम्यक् खलु यस्य रूपम्
भक्तप्रियं तं गिरिशं नमामि ॥ ६॥
यद्विद्यते क्षितितलेऽस्तु शुभाशुभं तत्
विद्युत्कणेन घटितं त्विति दृश्यतेऽन्ते ।
एवं वरावरमतानि लसन्तु कामम्
ध्येयं त्वमेव शशिशेखर मानवानाम् ॥ ७॥
हे पार्वतीश करुणाघन शूलपाणे
द्वेष्यः प्रियो न तव कोऽपि समानबुद्धेः ।
अङ्गीकरोषि भगवन् गरलेन्दुसर्पान्
किं निष्ठुरोसि वद केवलमस्मदर्थे ॥ ८॥
सकलसुरवरिष्ठं संस्तुतं वेदसङ्घैः
अचरचरपदार्थे व्योमवद् व्याप्तदेहम् ।
विनतजनदयालुं भक्तकल्पद्रुमं तम्
चरणनिहितभालं चन्द्रमौलिं नमामि ॥ ९॥
यस्माद्धि शास्त्रसरिदुद्गम आबभूव
यत् स्वाश्रयं तनुभृतां भय-विह्वलानाम् ।
तापापनोदनिपुणं परमव्ययं तत्
दिव्यं महेश्वरपदाब्जमहं नमामि ॥ १०॥
गले लुठति पन्नगः शिरसि राजते चन्द्रमा
तपस्तपति संयमी गिरिजया समं दिव्यति ।
स्मरं दहति मोहिनीमपिच याचते यो रतिम्
विचित्रचरितं भजे गतभिदं प्रभुं तं शिवम् ॥ ११॥
व्योमानिलानलजला वनिसोमसूर्य
होत्रीभिरष्ट-तनुभिर्जगदेकनाथः ।
यस्तिष्ठतीह जनमङ्गलधारणाय
तस्मैनमोस्तु निरपेक्षहृदे शिवाय ॥ १२॥
तद्दूरेऽस्ति तदन्तिकेऽस्त्यपिच तद् बाह्ये तथाऽभ्यन्तरे
तन्नैजत्यथ चैजतीति निगमो जानात्यजानन् परम् ।
देवेत्थं वचनं विसङ्गतमिदं बोद्धुं न शक्ता वयम्
जानेऽहं त्विदमेव मे हितकरं मातापिता नः शिवः ॥ १३॥
कैलासेऽतिमनोहरे निजपदन्यासैर्महीं पावयन्
नृत्योत्क्षेपविकीर्णपिङ्गलकचैः संवेष्टयन्नम्बरम् ।
उच्चैस्तालमृदङ्गवादनरतैः संस्तूयमानः सुरैः
कुर्वन् ताण्डवमीश्वरो विजयतां नः श्रेयसे प्रेयसे ॥ १४॥
भीषाऽस्मात् पवते मरुत् तपति वै सूर्यः प्रसिद्धा श्रुतिः
तिष्ठन् सर्वहृदि त्वमेव पुरुषव्यापारमात्रेश्वरः ।
एवं सद्भिरथानुमोदितमपि श्री ज्ञानदेवादिभिः
नो जाने गिरिजापते तदपि किं कामं मनो धावति ॥ १५॥
कर्माकर्मविवेकमूढमनसां बुद्धिं विधाय स्थिराम्
मोहध्वान्तमपाकरोति नितरां यस्यप्रभा चिन्मयी ।
यस्मिन् ब्रह्मणि राजते जगदिदं सिन्धौ तरड्गोपमम्
तं विश्वेशमहं नमामि सततं गङ्गाधरं श्रीगुरुम् ॥ १६॥
महाभीषणं ताण्डवं संविधित्सुम्
ज्वलल्लोचनं कर्कशं गर्जयन्तम् ।
महीं शीर्णशैलां भृशं कम्पयन्तम्
प्रभुं भीमरूपं हरं तं नमामि ॥ १७॥
हे गङ्गाधर देवदेव चरणौ वन्दे त्वदीयौ शुभौ
दीनं मामुररीकरोषि भगवन्, प्रायोऽपि हीनं गुणैः ।
सन्तुष्टोस्मि तथाधुनाऽखिलगुरो शम्भो प्रसादात् तव
सर्वे सन्तु निरामयाः क्षितितले भद्राणि पश्यन्तु च ॥ १८॥
॥ नमः पार्वती पते हर हर महादेव ।
इति स्वामी वरदानन्दभारतीविरचिताः श्रीकृष्णकथामृतमङ्गलश्लोकाः सम्पूर्णाः ।
भावार्चना (प्राचार्य अ. दा. आठवले)
These verses are first one from each chapter of
shrIkRiShNakathAmRita Marathi text
composed by Swami Varadananda Bharati.
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar