श्रीकृष्णचारित्रमञ्जरी
विष्णुर्ब्रह्मादिदेवैः क्षितिभरहरणे प्रार्थितः प्रादुरासीद्
देवक्यां नन्दनन्दी शिशुवधविहितां पूतनां यो जघान ।
उत्थानौत्सुक्यकाले रथचरणगतं चासुरं पादघातै-
श्चक्रावर्तं च मात्रा गुरुरिति निहितो भूतले सोऽवतान्माम् ॥ १॥
यो मातुर्जृम्भमाणो जगदिदमखिलं दर्शयन्नङ्करूढो
गर्गेणाचीर्णनामा कृतरुचिरमहाबाललीलो वयस्यैः ।
गोपीगेहेषु भाण्डस्थितमुरुदयया क्षीरदध्यादि मुष्णन्
मृन्ना भक्षीति मातुः स्ववदनगजगद्भासयन् भासतां मे ॥ २॥
दध्नोमत्रस्य भङ्गादुपगमितरुषा नन्दपत्न्याऽथ बद्धः
कृच्छ्रेणोलूखले यो धनपतितनयौ मोचयामास शापात् ।
नन्दाद्यैः प्राप्य वृन्दावनमिह रमयन् वेणुनादादिभिर्यो
वत्सान्पान्वत्सरूपं क्रतुभुगरिमथो पोथयन्सोऽवतान्माम् ॥ ३॥
रक्षन् वत्सान्वयस्यैर्बकमभिनदथो तिग्मतुण्डे गृहीत्वा
प्रीतिं कर्तुं सखीनां खरमपि बलतो घातयन् कालियाहिम् ।
उन्मथ्योद्वास्य कृष्णामतिविमलजलां यो व्यधाद्दाववह्निं
सुप्तानावृत्य गोष्ठे स्थितमपिबदसौ दुष्टवृक्षच्चिदव्यात् ॥ ४॥
दुर्गारण्यप्रवेशाच्च्युतनिजसरणीन् गोगणानाह्वयद्यो
दावाग्निं तत्र पीत्वा समपुषदनुगान् गोपकानाविषिण्णान् ।
गोभिर्गोपैः परितः सरिदुदकतटस्थोपले भोज्यमन्नं
भुक्त्वा वेणोर्निनादाद्व्रजगतवनिताचित्तहारी स माऽव्यात् ॥ ५॥
कृष्णोऽस्माकं पतिः स्यादिति कृततपसां मज्जने गोपिकानां
नग्नानां वस्त्रदाता द्विजवरवनितानीतमन्नं समश्नन् ।
श्रान्तैर्गोपैः समं यो बलमथनबलावाहृतेऽस्मिन् सवृष्टौ
प्रोद्ध्रुत्याहार्यवर्यं निजजनमखिलं पालयन् पात्वसौ माम् ॥ ६॥
गोविन्दाख्योऽथ तातं जलपतिहृतमानीय लोकं स्वकीयं
यः कालिन्द्या निशायामरमयदमलज्योत्स्नया दीपितायाम् ।
नन्दादीनां प्रदर्श्य व्रजगतवनितागानकृष्टार्तचित्ताः
चार्वङ्गीर्नर्मवाक्यैः स्तनभरनमिताः प्रीणयन् प्रीयतां नः ॥ ७॥
अन्तर्धत्ते स्म तासां मदहरणकृते त्वेकया क्रीडमानः
स्वस्कन्धारोहणाद्यैः पुनरपि विहितो गर्वशान्त्यै मृगाक्ष्याः ।
खिन्नानां गोपिकानां बहुविधनुतिभिर्यो वहन् प्रीतिमाविः-
प्राप्तो रासोत्सवेन न्यरमयदबलाः प्रीयतां मे हरिः सः ॥ ८॥
हत्वा यः शङ्खचूडं मणिमथ समदादग्रजायार्तगोपी-
गीतानेकस्वलीलो हतवृषभमहापूर्वदेवोऽमरेड्यः ।
केशिप्राणापहारी सुरमुनिवदनप्रार्थिताशेषकृत्यो
हत्वा पुत्रं मयस्य स्वजनमपिहितं मोचयन् मोक्षदः स्यात् ॥ ९॥
अक्रूराकारितो यान् व्रजयुवतिजनान्सान्त्वयित्वाऽभितप्तान्
स्वं रूपं मज्जतेऽस्मै विलसितमहिगं दर्शयंस्तेन वन्द्यः ।
यो गत्वा कंसधानीं हृतरजकशिराश्चारुवेषः सुदाम्नः
प्रीतिं कुर्वंस्त्रिवक्रां व्यतनुत रुचिरां पौरमह्योऽवतात्सः ॥ १०॥
शार्वं भङ्क्त्वा धनुर्यो बलमपि धनुषो रक्षकं कुञ्जरं तं
मल्लांश्चाणूरपूर्वानपि सहसहजो मर्दयन्स्तुङ्गमञ्चात् ।
भोजेशं पातयित्वा व्यसुमकृत निजान् नन्दयन् प्राप्य गर्गात्
द्वैजं संस्कारमाप्तो गुरुमथ विदिताशेषविद्योऽवतान्नः ॥ ११॥
दत्वा पुत्रं प्रवक्त्रे प्रतिगतमधुरः सान्त्वयन्नुद्धवास्या-
द्गोष्टस्थान् नन्दपूर्वानरमयदबलां प्रीतिकृद्यः शुभस्य ।
अक्रूरस्याथ तेन प्रतिविदितपृथापुत्रकृत्यो जरायाः
सूनुं निर्भिन्नसेनं व्यतनुत बहुशो विद्रुतं नः स पायात् ॥ १२॥
पुर्या निर्गत्य रामादथ सहमुसली प्राप्य कृष्णोऽभ्यनुज्ञां
गोमन्तं चापि मौलिं खगपतिविहितां वासुदेवं सृगालम् ।
हत्वा शत्रुं च पुर्यामधिजलधि पुरीं निर्मितां बन्धुवर्गान्
नित्ये यः सोऽवतान्नः प्रमथितयवनो मौचुकुन्दाक्षिवह्नेः ॥ १३॥
राज्ञा संस्तूयमानो हतयवनबलो भीतवन्मागधेशा-
द्गोमन्तं प्राप्य भूयो जितमगधपतिर्जातशान्ताग्निशैलः ।
आगत्य द्वारकां यो हृदिकसुतगिरा ज्ञातकौन्तेयकृत्यः
पश्यत्स्वादाय भैष्मीं नृषु युधि जितावान्भूभृतः प्रीयतां नः ॥ १४॥
वैरूप्यं रुक्मिणो योऽकृत मणिसहितं जाम्बवद्देहजातां
सत्यां तेनैव युक्तामपि परिजगृहे हस्तिनं कुल्यहेतोः ।
यातो व्यस्यात्र सत्याशुचमथ समगाद्द्वारकां सत्ययेतो
द्रष्टुं पार्थान्सकृष्णान्द्रुपदपुरमगाद्विद्धलक्ष्यान्स पायात् ॥ १५॥
कृष्णः प्राप्याथ सत्राजिदहितवधकृद्यः श्वफल्कस्य सूनौ
रत्नं सन्दर्श्य रामं व्यधित गतरूषं द्रष्टुकामः प्रतस्थे ।
इन्द्रप्रस्थस्थस्थपार्थानथ सहविजयो यामुनं तीरमायन्
कालिन्दीं तत्र लब्ध्वा यमसुतपुरकृत् पातु मां द्वारकास्थः ॥ १६॥
यो जह्ने मित्रविन्दामथ दृढवृषभान् सप्त बध्वाऽपि नीलां
भद्रां मद्रेशपुत्रीमपि परिजगृहे शक्र विज्ञापितार्थः ।
तार्क्ष्यरूढः सभार्यो हिमगिरिशिखरे भौमदुर्गं समेत्य
छित्वा दुर्गाणि कृन्त्वा मुरगलमरिणा देवतेड्यः स माऽव्यात् ॥ १७॥
त्रिंशत्पञ्चावधीद्यः सचिववरसुतान् भूमिजेनातिघोरं
युद्धं कृत्वा गजाद्यैररिहृतशिरसं तं व्यधाद्भूस्तुतोऽथ ।
कृत्वा राज्येऽस्य सूनुं वरयुवतिजनान् भूरिशश्चारुवेषान्
प्रापय्य द्वारकां सोऽकृत मुदमदितेः कुण्डलाभ्यामवेन्माम् ॥ १८॥
इन्द्राराध्योऽमरेन्द्रप्रियतममगमाहृत्य देवान् विजित्य
प्राप्याथ द्वारकां यः सुतमतिरुचिरं रुक्मिणीशः प्रपेदे ।
भ्रातृव्यं पौण्ड्रकाख्यं पुररुधमतनोत् कृत्तशीर्षं तदीया-
पत्योत्पन्नां च कृत्यां रथचरणरुचा कालयन् कामधुक् स्यात् ॥ १९॥
कृष्णः सूर्योपरागे निजयुवतिगणैर्भार्गवं क्षेत्रमाप्त-
स्तत्रायातान् स्वबन्धून् मुनिगणमपि सन्तोष्य यज्ञं स्वपित्रा ।
योऽनुष्ठाप्याप्य नैजं पुरमथ वदिताऽनेकतत्त्वानि पित्रे
मातुः पुत्रान् प्रदर्श्याकृत हितमहितं मेऽपनुद्यात् स ईशः ॥ २०॥
रुक्मिण्या नर्मवाक्यैररमत बहुभिः स्त्रीजनैर्योऽथ पुत्रा-
नेकैकस्यां प्रपेदे दश दश रुचिरान् पौत्रकानप्यनेकान् ।
पौत्रस्योद्वाहकाले भृशकुपितबलाद्रुक्मिणं घातयित्वा
नन्दन् योषिद्गणेन प्रतिगृहमबलाप्रीतिकारी गतिर्मे ॥ २१॥
नानारत्नप्रदीप्तासमविभवयुतद्व्यष्टसाहस्रकान्ता-
गेहेष्वश्नन् शयानः क्व च जपमगृयादीनि कुर्वन् क्वचिच्च ।
दीव्यन्नक्षैर्ब्रुवाणः प्रवचनमपरैर्मन्त्रयन्नेवमादि-
व्यापरान्नादरस्य प्रतिसदमहो दर्शयन् नः स पायात् ॥ २२॥
प्रातर्ध्यायन् प्रसन्नः कृतनिजविहितः सत्सभां प्राप्य कृष्णो
दूतं राज्ञां प्रतोष्यामरमुनिविदिताशेषकृत्यः प्रयासीत् ।
शक्रप्रस्थं चमूभिर्बहुविभवयुतं बन्धुभिर्मानितोऽयं
भीमेनापात्य बार्हद्रथमथ नृपतीन् मोचयन्मे प्रसीदेत् ॥ २३॥
पुत्रं राज्येऽस्य कृत्वा हृतशिरसमथो चेदिराजं विधाय
प्रोद्यन्तं राजसूयं यमसुतविहितं संस्थितं यो विधाय ।
शक्रप्रस्थात् प्रयातो निजनगरमसौ साल्वभग्नं समीक्ष्य
क्रुद्धो घन्नब्धिगं तं शिववरबलिनं यान् पुरं पातु नित्यम् ॥ २४॥
विप्रादाकर्ण्य धर्मं वनगतमनुजैः सान्त्वयित्वैत्य सर्वा-
नभ्येत्य द्वारकां यो नृगमथ कुजनिं दिव्यरूपं चकार ।
गत्वा वैदेहगेहं कतिपयदिवसांस्तत्र नीत्वाऽतिभक्तौ
सन्तोष्य द्वारकां यान् बहुबलसमतोऽयन्नुपप्लाव्यमव्यात् ॥ २५॥
दौत्यं कुर्वन्ननन्ता निजरुचिरतनूर्दर्शयन् दिव्यदृष्टे-
र्गीतातत्त्वोपदेशाद्रणमुखविजयस्याचरन् सारथित्वम् ।
नीत्वा कैलासमेनं पशुपतिमुखतो दापयित्वाऽस्त्रमस्मै
भीमेनापात्य दुष्टं क्षितिपतिमकरोद्धर्मराजं तमीडे ॥ २६॥
प्राप्तः स्थानं यदूनां प्रियसखमकृतावाप्तकामं कुचेलं
कुर्वन् कर्माश्वमेधं निजभवनमथो दर्शयित्वाऽर्जुनाय ।
पुत्रान् विप्राय दत्वा सहसहजमसौ दन्तवक्रं निपात्य
प्राप्याथ द्वारकां स्वां समवतु विहरन्नुद्धवायोक्ततत्त्वः ॥ २७॥
रक्षन् लोकान् समस्तान् निजजननयनान्दकारी निरस्ता-
वद्यः सौख्यैकमूर्तिः सुरतरुकुसुमैः कीर्यमाणोऽमरेन्द्रैः ।
सिद्धैर्गन्धर्वपूर्वैर्जयजयवचनैः स्तूयमानोऽत्र कृष्णः
स्त्रीभिः पुत्रैश्च पौत्रैः स जयति भगवान् सर्वसम्पत्समृद्धः ॥ २८॥
इति श्रीकृष्णचारित्रमञ्जरी लेशतः कृता ।
राघवेन्द्रेण यतिना भूयात् कृष्णप्रसाददा ॥ २९॥
श्रीराघवेन्द्रतीर्थश्रीचरणविरचिता श्रीकृष्णचारित्रमञ्जरी
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
NA