श्रीकृष्णारार्तिका
शरणागतभीतिनिवृत्तिपरं
परपक्षतमोनिकरांशुनिधिम् ।
निधिसेवितपादसरोजयुगं
युगधर्मनिवर्त्तककालफलम् ॥ १॥
करजोल्लिखितप्रमदोच्चकुचं
कुचकुङ्कुमलिप्तयशोहृदयम् ।
हृदयस्थितगोकुलवासिजनं
जनसञ्चितपुण्यचयैकफलम् ॥ २॥
फलदानपरातिसमर्थभुजं
भुजदण्डगृहीतकुचाग्रमणिम् ।
मणिशोभितहस्तधृताद्रिवरं
वरगोपवधूचयसंवलितम् ॥ ३॥
वलितप्रमदायुतरासकरं
करपद्मयुगाहितवेणुवरम् ।
वरभक्तिशिरःस्थितपद्मकरं
करमर्दितयादवयूथरिपुम् ॥ ४॥
रिपुयूथभुजङ्गमदर्पहरं
हरपूजितरम्यसरोजपदम् ।
पदपद्मयुगार्चनदत्तपदं
पदपद्मनखस्थितभक्तिरसम् ॥ ५॥
रसपूरितगोपवधूशारणं
शरणागतघोषजनाभयदम् ।
भयदाधशिरोहरखड्गधरं
धरणीकृतपुण्यचयैकफलम् ॥ ६॥
फलहेतुविमर्द्दितदुष्टखरं
खरमुक्तिदपादसरोजवरम् ।
वरबर्हिशिखण्डिकयुक्तकचं
कचपाशिनिवेशितपुष्पचयम् ॥ ७॥
घोषाधिपतिं कमलाधिपतिं
वन्दे तमहं मथुराधिपतिम् ॥ ८॥
इति श्रीविठ्ठलेशविरचिता श्रीकृष्णारार्तिका समाप्ता ।
Proofread by PSA Easwaran