श्रीकृष्णानुस्मृतिः
(अनुस्मृतिस्तोत्रम्)
युधिष्ठिरः--
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
प्रयाणकाले किं जप्यं मोक्षिभिस्तत्त्वचिन्तकैः ॥ १॥
किं नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते ।
प्राप्नुयात् परमां सिद्धिं श्रोतुमिच्छामि तत्त्वतः ॥ २॥
भीष्मः
साक्तिसहितः सूक्ष्म उक्तः प्रश्नस्त्वयानघ ।
शृणु चावहितो राजन् नारदेन पुरा श्रुतम् ॥ ३॥
पुरा नारायणं देवं नारदः परिपृष्टवान् ।
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम् ॥ ४॥
आहुर्वेद्यं परं धाम ब्रह्मादिकमलोद्भवम् ।
भगवन् भूतभव्येश श्रद्दधानैर्जितेन्द्रियैः ॥ ५॥
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः ।
किं जल्प्यं किं जपन्नित्यं काल्यमुत्थाय मानवः ॥ ६॥
कथं युञ्जन् सदा ध्यायेद्भहि तत्त्वं सनातनम् ।
श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम् ।
प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः ॥ ७॥
श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि हीमां दिव्यामनुस्मृतिम् ।
यामधीत्य प्रयाणे तु मदावायोपपद्यते ॥ ८॥
ओङ्कारमग्रतः कृत्वा मां नमस्कृत्य नारदः ।
एकाग्रः प्रयतो भूत्वा चेम मन्त्रमुदीरयेत् ॥ ९॥
ॐ नमो भगवते वासुदेवाय ।
इत्युक्तो नारदः प्राह प्राञ्जलिः प्रयतः स्थितः ।
सर्वदेवेश्वरं विष्णुं सर्वात्मानं हरिं प्रभुम् ॥ १०॥
नारदः--
अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमक्षरं परमं पदम् ॥ ११॥
पुराणं प्रभवं नित्यमक्षयं लोकसाक्षिणम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ १२॥
लोकनाथं सहस्राक्षमद्भुतं परमं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ १३॥
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखम् ।
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम् ॥ १४॥
हिरण्यगर्भममृतं भूगर्भं परतः परम् ।
प्रभोः प्रभुमनाद्यन्तं प्रपद्ये तं रविप्रभम् ॥ १५॥
सहस्रशीर्षं पुरुषं महान्तं तत्त्वभावनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ १६॥
नारायणं च प्राणर्षिं योगात्मानं सनातनम् ।
संस्थानं सर्वतत्त्वानां प्रपद्ये ध्रुवमीश्वरम् ॥ १७॥
यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम् ।
चराचरगुरुर्विष्णुः स मे देवः प्रसीदतु ॥ १८॥
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः ।
ब्रह्मयोनिर्हि विश्वात्मा स मे विष्णुः प्रसीदतु ॥ १९॥
यः पुरा प्रलये प्राप्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मादिषु प्रलीनेषु नष्टे लोके परावरे ॥ २०॥
आभूतसम्प्लवे चैव प्रलीने प्रकृतौ महान् ।
एकस्तिष्ठति विश्वात्मा स मे विष्णुः प्रसीदतु ॥ २१॥
चतुर्भिश्च चतुर्मिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतुः ॥ २२॥
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये ।
गुणाकारः स मे विष्णुर्वासुदेवः प्रसीदतु ॥ २३॥
अग्रीषोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ।
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु ॥ २४॥
योगावास नमस्तेऽस्तु सर्वावास वरप्रद ।
यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोऽस्तु ते ॥ २५॥
चतुर्मूर्ते परं धाम लक्ष्म्यावास वरार्चित ।
सर्वावास नसस्तेऽस्तु वासुदेवः प्रधानकृत् ॥ २६॥
अजस्त्वमगमः पन्था ह्यमूर्तिर्विश्वमूर्तिधृत् । (अजस्त्वमगमः नामयः)
त्रिगतः पञ्चकालज्ञो नमस्ते ज्ञानसागर ॥ २७॥
अव्यक्ताद्व्यक्तमुत्पन्नं व्यक्ताद्यरत्वपरोऽक्षरः ।
यस्मात् परतरं नास्ति तमस्मि शरणं गतः ॥ २८॥
न प्रधानो न च महान् पुरुषश्चेतनो यजः ।
अनयोर्यः परतरस्तमस्मि शरणं गतः ॥ २९॥
चिन्तयन्तो हि यन्नित्यं ब्रह्मेशानादयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ ३०॥
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ ३१॥
एकांशेन जगत्सर्वमवष्टभ्य विभुः स्थितः ।
आग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गातः ॥ ३२॥
सोमार्काग्निमयं तेजो या च तारामयीद्युतिः ।
दिवि सञ्जायते योऽयं स महात्मा प्रसीदतु ॥ ३३॥
गुणादिनिर्गुणश्चाद्यो लक्ष्मीवांश्चेतनो ह्यजः ।
सूक्ष्मः सर्वगतो योगी स महात्मा प्रसीदतु ॥ ३४॥
अव्यक्तं समधिष्ठाता ह्यचिन्त्यः सदसत्परः ।
अस्थितिः प्रकृतिः श्रेष्ठः स महात्मा प्रसीदतु ॥ ३५॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः ।
महान् गुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ ३६॥
सूर्यमध्ये स्थितः सोमस्तस्य मध्ये च या स्थिता ।
भूतबाह्या च या दीप्तिः स मे विष्णुः प्रसीदतु ॥ ३७॥
नमस्ते सर्वतः सर्व सर्वतोऽक्षिशिरोमुख ।
निर्विकार नमस्तेऽस्तु साक्षी क्षेत्री ध्रुवस्थितिः ॥ ३८॥
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे ।
ये च त्वां नाभिजानन्ति संसारे संसरन्ति ते ॥ ३९॥
रागद्वेषविनिर्मुक्ताः कामक्रोधविवर्जिताः ।
आन्यभक्ता विजानन्ति किं पुनर्मारका द्विजाः (?) ॥ ४०॥
एकान्तिनो हि निर्द्वन्द्वा निराशीः कर्मकारिणः ।
ज्ञानाग्निदग्धकर्माणस्त्वां विशन्ति विचिन्तकाः ॥ ४१॥
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ।
पुण्यपापविनिर्मुक्ता भक्तास्त्वां प्रविशन्त्युत ॥ ४२॥
अव्यक्तं बुद्ध्यहङ्कारमनोभूतेन्द्रियाणि च ।
त्वयि तानि च तेषु त्वं न तेषु त्वं न ते त्वयि ॥ ४३॥
एकत्वान्यत्वनानात्वं ये विदुर्यान्ति ते परम् ।
समोऽसि सर्वभूतेषु न ते द्वेष्योऽरित न प्रियः ॥ ४४॥
समत्वमभिकाङ्क्षेऽहं भक्त्या वै नान्यचेतसा ।
चराचरमिदं सर्वं भूतग्रामं चतुर्विधम् ॥ ४५॥
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणा इव ।
स्रष्टा भोक्तासि कूटस्थो ह्यतत्त्वं तत्त्वसंज्ञितः ॥ ४६॥
अकर्महेतुरचलः पृथगात्मा व्यवस्थितः ।
न ते भूतेषु संयोगो भूततत्त्वगुणातिगः ॥ ४७॥
अहङ्कारेण बुद्ध्या वा न मे योगस्त्रिभिर्गुणैः ।
न मे धर्मोऽस्त्यधर्मो वा नारम्भो जन्म वा पुनः ॥ ४८॥
जरामरणमोक्षार्थं त्वां प्रपन्नोऽस्मि सर्वग ।
विषयैरिन्द्रियैर्वापि न मे भूयः समागमः ॥ ४९॥
पृथिवीं यातु मे घ्राणं या तु मे रसना जलम् ।
रूपं हुताशनं यातु स्पर्शो यातु च मारुतम् ॥ ५०॥
श्रोत्रमाकाशमप्येतु मनो वैकारिकं पुनः ।
इन्द्रियाण्यपि संयान्तु स्वां स्वां योनिं यथायथम् ॥ ५१॥
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् ।
वायुराकाशमप्येतु मनश्चाकाश एव च ॥ ५२॥
अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् ।
अहङ्कोरस्ततो बुद्धिं बुद्धिरव्यक्त मेव च ॥ ५३॥
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते ।
वियोगः सर्वकरणैर्गुणभूतैस्तु मे भवेत् ॥ ५४॥
निष्केवलं पदं देव काङ्क्षेऽहं परमं तव ।
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत् पुनः ॥ ५५॥
त्वद्बुद्धिस्त्वद्गतप्राणस्त्वद्भावस्त्वत्परायणः ।
त्यामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते ॥ ५६॥
पूर्वदेहकृता ये तु व्याधयः प्रविशन्तु माम् ।
अर्दयन्तु च दुःखानि ऋणं मे प्रविमुञ्चतु ॥ ५७॥
अनुध्यातोऽसि देवेश न मे जन्म भवेत् पुनः ।
तस्माद्ब्रवीमि कर्माणि ऋणं मे न भवेदिति ॥ ५८॥
नोपतिष्टन्तु मां सर्वे व्याधयः पूर्वसञ्चिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ ५९॥
श्रीभगवानुवाच-
अहं भगवतस्तस्य मम चासौ सनातनः ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६०॥
कर्मेन्द्रियाणि संयस्य पञ्चबुद्धीन्द्रियाणि च ।
दशेन्द्रियाणि मनसि ह्यहङ्कारे तथा मनः ॥ ६१॥
अहङ्कारं ततो बुद्धौ बुद्धिमात्मनि योजयेत् ।
यतबुद्धीन्द्रियः पश्येद्बुद्ध्या बोधेत् परात् परम् ॥ ६२॥
ममायमिति यस्याहं येन सर्वमिदं ततम् ।
आत्मनात्मनि संयोज्य परमात्मन्यनुस्मरेत् ॥ ६३॥
ततो बुद्धेः परं बुद्ध्वा लभते न पुनर्भवम् ।
मरणे समनुप्राप्ते यश्चैवं मामनुस्मरेत् ॥ ६४॥
अपि पापसमाचारः स याति परमां गतिम् ।
ॐ नमो भगवते तस्मै देहिनां परमात्मने ॥ ६५॥
नारायणाय भक्तानामेकनिष्टाय शाश्वते ।
इमामनुस्मृतिं दिव्यां वैष्णवीं सुसमाहितः ॥ ६६॥
स्वपन् विबुध्यंश्च पठेद्यत्र तत्र समाहितः ।
पौर्णमास्याममावास्यां च द्वादश्यां च विशेषतः ॥ ६७॥
श्रावयेच्छ्रद्ध्धानानां मद्भक्तानां विशेषतः ।
यद्यहङ्कारमाश्रित्य यज्ञदानताःक्रियाः ॥ ६८॥
कुर्वंस्तत्फलमाप्नोति पुनरावर्तनं हि तत् ।
अभ्यर्चयन् पितॄन देवान पठन् जुह्वत् बलिं ददत् ॥ ६९॥
ज्वलन्नग्निं स्मरेद्यो मां स याति परमां गतिम् ।
यज्ञो दान तपश्चैव पावनानि मनीषिणाम् ॥ ७०॥
यज्ञं दानं तपस्तस्मात् कुर्यादाशीर्विवर्जितः ।
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ॥ ७१॥
तस्माक्षयो भवेल्लोकः श्वपाकस्यापि नारद । (तस्याक्षयो)
किं पुनर्ये यजन्ते मां साधका विधिपूर्वकम् ॥ ७२॥
श्रद्धावन्तोऽनसूयन्तस्ते मां यान्ति मदाश्रिताः ।
कर्माण्याद्यन्तवन्तीह मद्भक्तो नान्तमश्नुते ॥ ७३॥
मामेव तस्मादेवर्षे ध्याहि नित्यमतन्द्रितः ।
अवाप्स्यसि ततः सिद्धिं द्रक्ष्यसे च पदं मम ॥ ७४॥
अज्ञानिने च यो ज्ञानं दद्याद्धर्मोपदेशनम् ।
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥ ७५॥
तस्मात् प्रदेयं साधुभ्यो जन्मबन्धभयापहम् ।
एवं दत्त्वा नरश्रेष्ठः श्रेयो वीर्यं च विन्दति ॥ ७६॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ।
नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते ॥ ७७॥
भीष्मः उवाच ।
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा ।
यदुवाच पुरा शम्भुस्तदुक्तं तव सुव्रत ॥ ७८॥
त्वमप्येकमना भूत्वा ध्याहि ध्येयं गुणातिगम् ।
भजस्व सर्वभावेन परमात्मानमव्ययम् ॥ ७९॥
श्रुत्देदं नारदो वाक्यं दिव्यं नारायणेरितम् ।
अत्यन्तभक्तिमान् देवमेकान्तित्वमुपेयिवान् ॥ ८०॥
नारायणमृषिं देवं दशवर्षाण्यनन्यभाक् ।
इदं जपन् वै प्राप्नोति तद्विष्णोः परमं पदम् ॥ ८१॥
किं तस्य बहुभिर्मन्त्रैर्यस्य भक्तिर्जनार्दने ।
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ८२॥
इमां रहस्यां परमामनुस्मृती-
मधीत्य बुद्धिं लभते च नैष्ठिकीं
विहाय दुःखान् प्रविमुच्य सङ्कटात्
स वीतरागो विचरेन्महीमिमाम् ॥ ८३॥
इति श्रीकृष्णानुस्मृतिः सम्पूर्णा ।
(अनुस्मृतिस्तोत्रम्)
Proofread by Rajesh Thyagarajan