श्रीजगन्नाथदण्डकम्
जय जय नारायण अपारभवसागरोत्तारपरायण सनकस-
नन्दनसनातनप्रभृतियोगिवरविचिन्त्यमानदिव्यतत्त्व स्वमाया-
विलसिताध्यासपरिणमिताशेषभूततत्त्च त्रितत्त्व त्रिदण्डधर
त्रिणाचिकेत त्रिमधुत्रिसुपर्णोपगीयमानदिव्यज्ञान च्छन्दोमय
स्वासनसुपर्णप्रिय भक्तप्रिय भक्तजनैकवत्सल स्वमायाजाल-
व्यवहितात्मस्वरूप विश्वरूप विश्वप्रकाश विश्वतोमुख विश्वतोऽक्षि-
विश्वतःश्रवण विश्वतः पादशिरोग्रीव विश्वहस्तनासारसना-
त्वक्वेशलोमलिङ्ग सर्वलोकात्मक सर्वलोकसुखावह सर्वलोकोपकारक
सर्वलोकनमस्कृत लीलाविलासितकोटिपद्मोद्भवरुद्रेन्द्रमरुदश्विसाध्य-
सिद्धगणप्रणताशेषसुरासुरत्रिभुवनगुरो न कस्यापि ज्ञानगोचर
नमस्ते नमस्ते ।
(श्रीस्कन्दपुराणे)
इति श्रीजगन्नाथदण्डकं सम्पूर्णम् ।
महाविष्णुस्तुतिः
ब्रह्मर्षय ऊचुः -
नमस्ते देवदेवानामादिभूत सनातन ।
पुरुषाय पुराणाय नमस्ते परमात्मने ॥ १॥
जरामरणरोगादिविहीनायामलात्मने ।
ब्रह्मणां पतये तुभ्यं जगतां पतये नमः ॥ २॥
लोकालोकस्वरूरपाय लोकानां पतये नमः ।
शङ्खचक्रगदापद्मपाणये विष्णवे नमः ॥ ३॥
नमो हिरण्यगर्भाय श्रीपते भूपते नमः ।
नगः स्वयम्भुवे तुभ्यं सूत्रात्मादिस्वरूपिणे ॥ ४॥
विराट्प्रजापतेः साक्षाज्जनकाय नमो नमः ।
विश्वतैजसरूपाय प्राज्ञरूपाय ते नमः ॥ ५॥
जाग्रत्स्वप्नस्वरूपाय नमः सुप्त्यात्मने नमः ।
अवस्थासाक्षिणे तुभ्यमवस्थावर्जिताच्युत ॥ ६॥
तुरीयाय विशुद्धाय तुर्यातीताय ते नमः ।
प्रथमाय समस्तस्य जगतः परमात्मने ॥ ७॥
ओङ्कारैकस्वरूपाय शिवाय शिवद प्रभो ।
सर्वविज्ञानसम्पन्न नमो विज्ञानदायिने ॥ ८॥
जगतां योनये तुभ्यं वेधसे विश्वरूपिणे ।
नित्यशुद्धाय बुद्धाय मुक्ताय सुरवरूपिणे ॥ ९॥
नमो वाचामतीताय मनोऽगम्याय ते नमः ।
अप्रमेयाय शान्ताय स्वयम्भानाय साक्षिणे ॥ १०॥
नगः पुंसे पुराणाय श्रेयःप्राप्त्येकहेतवे ।
आकाशादिप्रपञ्चाय नमस्तद्रूप शङ्कर ॥ ११॥
मायारूपाय मायायाः सत्ताहेतो जनार्दन ।
नमः प्रद्युम्नरूपाय नमः सङ्कर्षणात्मने ॥ १२॥
ममोऽनिरुद्धरूपाय वासुदेवाय ते नमः ।
योगाय योगगम्याय योगिनामिष्टसिद्धिद ॥ १३॥
नमस्ते मत्स्यरूपाय नमस्ते कूर्मरूपिणे ।
नमस्तुभ्यं वराहाय नारसिंहाय ते नमः ॥ १४॥
नमो वामनरूपाय नमो रामत्रयात्मने ।
नमः कृष्णाय सर्वज्ञ नमस्ते कल्किरूपिणे ॥ १५॥
कर्मिणां फलरूपाय कर्मरूपाय ते नमः ।
कर्मकर्त्रे नमस्तुभ्यं नमस्ते कर्मसाक्षिणे ॥ १६॥
नमो विज्ञप्तिरूपाय नमो वेदान्तरूपिणे ।
गुपात्रयात्मने तुभ्यं नमो निर्गुणरूपिणे ॥ १७॥
अद्भुतायामरेशाय शिवप्राप्त्येकहेतवे ।
नमो नक्षत्ररूपाय नमस्ते सोमरूपिणे ॥ १८॥
नमः सूर्यात्मने तुभ्यं नमो वज्रधराय ते ।
नमस्ते पद्मनाभाय नमस्ते शार्ङ्गपाणये ॥ १९॥
नमस्तुभ्यं विशालाक्ष नमः श्रीधर नायक ।
नमः संसारतप्तानां तापनाशैकहेतवे ॥ २०॥
श्रौतस्मार्तैकनिष्ठानामचिरादेव मुक्तिद ।
अन्येषामपि सर्वेषां संसारैकप्रदाव्यय ॥ २१॥
नमोऽसुरविमर्दाय नमो विद्याधरार्चित ।
क्षीरोदशायिने तुभ्यं नमो वैकुण्ठवासिने ।
नमो रागाभिभूतानां वैराग्यप्लवदायिने ॥ २२॥
इति सूतसंहितायां महाविष्णुस्तुतिः समाप्ता ।
Proofread by PSA Easwaran