श्रीजगन्नाथाचार्यप्रपत्तिः
भारद्वाजकुलारविन्दतरणी सौशील्यप्रेमास्पदं,
श्रीबलरामपदारविन्दसहितं श्रीरामदेशिकगुरुम् ।
ध्यानं पूजनं सर्वदा रघुपतिं श्रीजानकीविग्रहमं,
श्रीजगन्नाथं भजामि पादकैङ्कर्यसेवारतम् ॥ १॥
हे जगदीश जगत्त्रये च गुरवे नाथो जगन्नाथो मां,
रामदेशिकगुरोराज्ञया बहुदिनं शहडोलवासं कृतम् ।
अर्चककार्यरतं विराटनगरे सम्मानं सम्पादितं,
श्रीदेशिकनिर्देशं धार्यमखिलं श्रीचित्रकूटागतम् ॥ २॥
श्रीबलरामप्रपन्नभारनिहितं गद्दीस्थनवमे पदं,
शन्तं सौम्यस्वभावं धैर्यवपुषा संस्थानं सञ्चालितम् ।
सर्वे शिष्यगणाः प्रसन्नमनसा छात्रादि कोषाधिपं,
श्रीजगन्नाथं प्रहर्षादेव यजने चातिथ्यसेवादिकम् ॥ ३॥
सरलं शान्तरसं स्वभावमृदुलं विश्वासप्रेमास्पदं,
सर्वान् सर्वगुणेषु दान्तः निपुणः प्रस्तावमनुमोदितम् ।
लङ्कानाम पुराणकार्यनिरते यो सम्मतिसन्मतिः,
स्वामिन् स्वप्राधिकारन्यस्तमखिलं श्रीरोहिणीश्वरम् ॥ ४॥
साधुस्वभावेन न विग्रहो क्वचित् येनाशस्थानकृतम्प्रयत्नः,
ये चाश्रमे कार्यं कुर्वन्ति नित्यं स्वच्छन्दरूपेण सदा चरन्ति ।
प्रपन्न श्रीरोहिणिदण्डहस्ते विहाय मे कोऽपि यो पूर्वं तस्करः,
अधिकारसम्प्राप्तः श्रीरोहिणीश्वरो सर्वान् वहिष्कृत्य तस्करीकृतम् ॥ ५॥
जरमोहरा जन्मभूमिः नगरे अमरपाटेन ।
जगन्नाथ जगन्नाथो जातो वंशमुदारधीः ॥ ६॥
वैराग्यबालकलेन तीर्थसेवी जितेन्द्रियः ।
रामदेशिकपदं प्राप्तमन्त्रदीक्षा गृहीतवान् ॥ ७॥
प्रहर्षमतुलं लेभे यजने साधुसेवने ।
जगन्नाथपदे नौमि भागवताचार्य कर्म हे ॥ ८॥
इति श्रीजगन्नाथस्वामि प्रपत्तिः ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com