श्रीजगन्मोहनाष्टकम्
श्रीविश्वनाथचक्रवर्तिविरचितं
गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम् ।
गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ १॥
भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम् ।
नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम् ॥ २॥
आलोलवक्रालककान्तिचुम्बिगण्डस्थलप्रोन्नतचारहास्यम् ।
वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम् ॥ ३॥
बन्धूकबिम्बद्युतिनिन्दिकुञ्चत्प्रान्ताधरभ्राजितवेणुवक्त्रम् ।
किञ्चित्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ ४॥
अकुण्ठरेखात्रयराजिकण्ठखेलत्स्वरालिश्रुतिरागराजिम् ।
वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ ५॥
आजानुराजद्वलयाङ्गदाञ्चिस्मरार्गलाकारसुवृत्तबाहुम् ।
अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ ६॥
श्वासैजदश्वत्थदलाभतुन्दमध्यस्थरोमावलिरम्यरेखम् ।
पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ ७॥
व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले ।
श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ ८॥
श्रीमज्जगन्मोहनदेवमेतत्पद्याष्टकेन स्मरतो जनस्य ।
प्रेमा भवेद्येन तदङ्घ्रिसाक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥ ९॥
इति श्रीविश्वनाथचक्रवर्तिविरचितं श्रीजगन्मोहनाष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com