जगन्मङ्गलकवचस्तोत्रम्
श्रीगणेशाय नमः ॥
श्रीराधारमणाय नमः ॥
श्रीसनत्कुमार उवाच ।
ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् ।
पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ १॥
ब्रह्मोवाच ।
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
श्रीकृष्णेनैव कथितं मह्यं च कृपया पुरा ॥ २॥
मया दत्तं च धर्माय तेन नारायणर्षये ।
ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ ३॥
अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् ।
यद्धृत्वा पठनात्सिद्धाः सिद्ध्यादि प्राप्नुवन्ति च ॥ ४॥
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ।
ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ ५॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
ओं राधेशो मे शिरः पातु कण्ठं राधेश्वरः स्वयम् ॥ ६॥
गोपीशश्चक्षुषी पातु तालुं च भगवान्स्वयम् ।
गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ ७॥
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयम्प्रभुः ।
वक्षःस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ ८॥
नाभिं पातु पद्मनाभः कङ्कालं कंससूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ ९॥
पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् ।
नासां च नखरं पातु नरसिंहः स्वयम्प्रभुः ॥ १०॥
सर्वेश्वरश्च सर्वाङ्गं सततं मधुसूदनः ।
प्राच्यां पातु च रामश्च वह्नौ वंशीधरः स्वयम् ॥ ११॥
पातु दामोदरो दक्षे नैरृत्ये च नरोत्तमः ।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १२॥
अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् ।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ॥ १३॥
पातु वृन्दावनेशश्च मां भक्तं शरणागतम् ।
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १४॥
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् ।
इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १५॥
हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् ।
इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १६॥
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
ब्रह्मनारदसंवादे जगन्मङ्गलकवचं समाप्तम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com