श्रीजगदीशशतकम्
यद्भासानुविभाति विश्वमखिलं सार्केन्दुतारागणं
यत्किञ्चिद्भ्रुकुटीकटाक्षकलया नाशोद्भवौ पालनम् ।
यत्पादाम्बुजधूलिधारणवशात्कुर्वन्त्य यत्नं सुरा-
स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ १॥
यं सिद्धा मुनयः सुरासुरगणा गन्धर्वयक्षोरगाः
सेशानाः सचतुर्मुखाः प्रतिदिनं ध्यायन्ति शम्प्राप्तये ।
विज्ञानेन विरागयोगतपसा जानन्ति किञ्चित्पदं
तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ २॥
यः पूर्वं जगतामनादिरमलोऽनन्तः परो मध्यगः
स्रष्टा गोपयिता कटाक्षकलया हन्ता नियन्ता विभुः ।
यो धाता ध्रुवधर्मधारकनृणां शश्वद्विहर्ता स्वदृक्
तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ३॥
यः स्वामी भुवनस्य गं मुनिगणा ध्यायन्ति येनाविता
यस्मै देवगणा हरन्ति सुबलिं यस्माज्जगज्जायते ।
यस्याभापरिपूरितं जगदिदं यस्मिंश्च तल्लीयते
तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ४॥
यन्मायापरिमोहिताः सुरगणा गन्धर्वविद्याधरा
योगीशा ऋषयोऽसुराश्च पुरुषा ये स्थावरा जङ्गमाः ।
जायन्ते परितो भ्रमन्ति जगति द्वन्द्वे म्रियन्ते सदा
तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ५॥
साक्षी सर्वगतः प्रभुः प्रकृतयः सर्वेश्वरेशः सुधीः
दिव्यैर्मङ्गलमूर्तिमद्गुणगणैः संसेवितोऽजस्तु यः ।
वेदैश्चोपनिषद्भिरीरितयशाः सञ्चिद्धनानन्दक-
स्तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ६॥
यः पातालपदो मही कटितटः स्वर्लोकशीर्षोऽस्तु यः
मार्ताण्डेक्षणदिक्श्रुतिश्रुतिमुखो गीर्वाणवाहाङ्कधीः ।
मायाक्रीडनको जगद्वपुरजो हीनोह्यदिव्यैर्गुणै
स्तं नीलाचलवासिनं यदुपति वन्दे जगद्वन्दितम् ॥ ७॥
यच्छक्त्या हरते हरो विधिरपि स्रष्टा च शास्ता यमो
वह्निर्दाहयते शशी सुखयते वायुः प्रवात्यञ्जसा ।
missing line in the manuscript
तं नीलाचलवासिनं यदुपतिं वन्दे जगद्वन्दितम् ॥ ८॥
यत्पादपङ्कजपरागविमिश्रतोयं
ब्रह्माण्डमण्डलमखण्डलमाविरिञ्चम् ।
स्तम्बान्तमाशु हि पुनाति न भेदभावं
वन्दे प्रभुं पतितपावननामधेयम् ॥ ९॥
यत्पादपङ्कजजलं चतुराननोऽसौ
शुद्धे कमण्डलुमुखे सुतरां दधार ।
अद्यापि मूर्धनि शिवो वहतीष्टरूपं
वन्दे प्रभुं पतितपावननामधेयम् ॥ १०॥
यत्पादतीर्थममलं परमादरेण
सप्तर्षयः प्रतिदिनं शिरसा वहन्ति ।
विज्ञाननिर्गतमलाः सुपवित्रतायै-
व न्दे प्रभुं पतितपावननामधेयम् ॥ ११॥
सन्नामकीर्तननिरन्तरलब्धिभात्रात्
गात्राद्द्रुतं कलुषिणां सकलान्यघानि ।
दन्दह्यमानतनुभिः परिनिस्सरन्ति
वन्दे प्रभुं पतितपावननामधेयन् ॥ १२॥
यन्नाम मङ्गलममङ्गलभङ्गकार-
मुच्चारणेन खलु पातकिनां मुखैश्च ।
सद्यः पुनाति शबरान्यवनानधर्मान्
वन्दे प्रभुं पतितपावननामधेयम् ॥ १३॥
यस्यैकवारममलं स्मरणं हि पुंसां
सद्यः क्षिणोति सकलं दुरितं च दुःखम् ।
यः स्वं करोति नयति प्रणतं स्वधाम
वन्दे प्रभुं पतितपावननामधेयम् ॥ १४॥
यज्जन्मकोटिसुकृतेन यदा कदापि
तिर्यङ्नृदेवगण सन्ततिभूति भाजः ।
त्वत्पादसेवनमभूत् स पुमान् विमुक्तो
वन्दे प्रभुं पतितपावननामधेयम् ॥ १५॥
यद्वर्षमासदिनयाममुहूर्तमात्रे
यैः कैः प्रयत्नविधिभिस्तव पूजनं स्यात् ।
सर्वं बभूव सुकृतं पुरुषस्य तस्य
वन्दे प्रभुं पतितपावननामधेयम् ॥ १६॥
धन्यः पुमान् धरणिधर्मधरो ध्रुवोऽसौ
त्वां शर्मदं नमति यः शिरसैकदापि ।
पारं प्रयाति दुरवापजगन्नदीशात्
वन्दे प्रभुं पतितपावननामधेयम् ॥ १७॥
साङ्केत्यहेलनविमन्युगते च हास्ये
दुःखाद्यनन्तसमये पतितोऽपि यस्त्वम् ।
दासस्तवेति वदते त्वभयं ददासि
वदे प्रभुं पतितपावननामधेयम् ॥ १८॥
ब्रह्मेन्द्रशम्भुसनकादिसुरर्षयो यं
न प्राप्नुवन्ति तपसा नियमादियोगैः ।
सख्यं विधाय पुरुषो रमते हि तेन
वन्दे प्रभुं पतितपावननामधेयम् ॥ १९॥
आत्मार्पणां हि कुरुते पुरुषस्तु यस्ते
स्वात्मार्पणं त्वमपि देन करोषि तस्मै ।
श्रेष्ठं तु तं त्वमनुगच्छसि सर्वदैव
वन्दे प्रभुं पतितपावननामधेयम् ॥ २०॥
स्त्रैणो धनान्धमदिरावशसम्प्रमत्तः
पापी त्वजामिलशठः कथनात्तु यस्य ।
नाम्नो जगाम पदवीं मुनिभिर्दुरापां
वन्दे प्रभुं पतितपावननामधेयम् ॥ २१॥
विप्रामिषं त्वयि समर्पितवान् परेण
प्रेम्णा पिशाचकुलजः श्रुतिबद्धघण्टः ।
आलिङ्ग्य तं निजजनं कृतवान् सुदोर्भ्याम् ।
वन्दे प्रभुं पतितपावननामधेयम् ॥ २२॥
दीनोऽतिजीर्णवसनः क्षुधया कृशोऽपि
सन्दत्ततण्डुल उदारमतिः सुदामा ।
उत्पापविस्मृतरमः परिषस्वजे यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ २३॥
भोजेन्दुदास्यनिरता मलिनातिनीचा
कुब्जा तु या मधुपुरे पथि तां विलोक्य ।
गत्वा गृहं कमलया सदृशीं व्यधाद्यः
वन्दे प्रभुं पतितपावननामधेयम् ॥ २४॥
जात्या तु वायकवरं हतधर्मलेशं
गत्वा तदीयभवने कृतवान् सकम्पः ।
वस्त्राणि तद्विरचितानि दधार देहे
वन्दे प्रभुं पतिततपावननामधेयम् ॥ २५॥
नीचो निषादकुलजो जलजीवभोक्ता
जग्राह तत्करसमर्पितकन्दमूलम् ।
कृत्वा सखायमतुलं परिषस्वजे यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ २६॥
मांसादकं वनचरं दुरितौघयुक्तं
गृध्रं जटायुषमलं परिरभ्य दोर्भ्याम् ।
तस्मै ददौ परगतिं पतिदुर्लभां यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ २७॥
विज्ञानभक्तिविरतीष्टसुधर्महीना
नीचा महावनचरी शबरी हि तस्यै ।
भुक्त्वा तदर्पितफलं प्रददौ गतिं यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ २८॥
स्वप्नेऽपि दर्शनममङ्गलदं वदन्ति
येषां बुधाः स्मरणतो ह्यशुभानि लोके ।
तैर्वानरैः सह चकार सुमित्रतायै
वन्दे प्रभुं पतितपावननामधेयम् ॥ २९॥
दुष्टानुजं रजनिकाचरवंशजातं
पादान्तिके निपतितं भरतेन तुल्यम् ।
उत्थाप्य तं स्वभुजतः परिषस्वजे यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ ३०॥
जात्या तु गोपकुलजाः परधर्महीना
गोपाश्च गोपवनितास्तुलसीवने तैः ।
चिक्रीड रासपरिमण्डलमण्डितो यो ।
वन्दे प्रभुं पतितपावननामधेयम् ॥ ३१॥
वापी महाविषधरः किल कालियेन
सम्प्लुत्य भास्करसुताह्रदनीरमध्ये ।
संस्कृत्य तत्फणगणेष्वभयं ददौ यो
वन्दे प्रभुं पतितपावननामधेयम् ॥ ३२॥
किं किं ब्रवीमि पतितोद्धरणं हि लोके
यद्यत्त्वया कृतमनन्तचतुर्मुखेषु ।
तस्मात् त्वदीयचरणं शरणं गतोऽहं
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३३॥
न त्वत्समः पतितपावनकार्यकारी
नास्मादृशो जगति सम्पतितोऽवनीशः ।
दिष्ट्या कृतं विशदमित्यनवेक्ष्य योगं
मामुद्धररव कृपया जगदीशकृत्य ॥ ३४॥
अन्वेषितं भुवनमेतदतीव बुद्ध्या
स्वोद्धारकारणकृते भवतो विना मे ।
दृष्टो न कोपि पतितोद्धरणे समर्थो
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३५॥
कामस्य पाशवलितं चपलं मनो मे
सङ्घावतीष्टविषयेषु वदामि सत्यम् ।
प्राप्स्यामि केन विधिना गतिमुत्तमां ते
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३६॥
त्वं सर्वदिव्यगुणवृन्दसमन्वितोऽसि
तैः सर्वगर्हितगुणैर्वलितस्तथाहम् ।
लज्जावनं तव करे मम सर्वथास्ति
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३७॥
सूर्यो यथा स्वकिरणैः स्पृशतीष्टनेष्टम् ।
संशोषयन्न हि करोति कदापि भेदम् ।
विस्मृत्य तद्वदगुणं मम नैजरीत्या
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३८॥
शोचामि तन्निजगुणानवलोक्य दुष्ठान्
पापं करोमि खलु यद्वशगोऽहमद्य ।
हृष्यामि ते गुणगणानवलोक्य भव्यान्
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ३९॥
ज्ञानी न योगनिरतो न हि भक्तिनिष्ठो
वैराग्यलेशसहितो न च धर्मधारी ।
प्राप्स्याम्यहं कथमहो तव पादपद्मं
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४०॥
स्वाभाविकी भवति दाहनशक्तिरग्रे-
श्चन्द्रस्य शैत्यमनिशं वहनं च वायोः ।
तद्वत्तवापि पतितोद्धरणं हि नित्यं
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४१॥
वेदे पुराणकथने श्रुतवानहं यत्
नित्यं तवेड्य पतितोद्धरणं हि लोके ।
इच्छाम्यहं तदवलोकितुमात्मशुद्ध्यै
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४२॥
सम्यग्बभूव यदहं पतितानगण्य-
स्त्वं सर्वदोद्धरसि तान् पतिताग्रगण्यान् ।
संस्कृत्य रीतिममलां विजचित्तजातां
मामुद्धरस्व कृपया जगदीशकृत्य ॥ ४३॥
तव दया न हि चेदवनीतले
मम समान् जगतीतलपामरान् ।
अतिपुनीत दयावशगो हि कः
पतितपावन माधव पाहि माम् ॥ ४४॥
सकलकारणकारणकारणाः
पतिततारणतारणतारणाः ।
निखिलभावनभावनभावनाः
पतितपावन माधव पाहि माम् ॥ ४५॥
विपुलजीवनजीवनजीवनो
जनविलोपनलोपनलोपनः ।
विशदकामदकामदकामदः
पतितपावन माधव पाहि माम् ॥ ४६॥
हृदयहर्षणहर्षणहर्षणो
मनुजकर्षणकर्षणकर्षणः ।
अवनिपोषणपोषणपोषणः
पतितपावन माधव पाहि माम् ॥ ४७॥
दुरितवर्तनवर्तनवर्तनः
श्रुतिप्रवर्तनकर्तनकर्तनः ।
जगति नर्तननर्तननर्तनः
पतितपावन माधव पाहि माम् ॥ ४८॥
सकलगोकुलगोकुलगोकुलः
सकलगोकुलगोकुलगोकुलः ।
सकलगोकुलगोकुलगोकुलः
पतितपावन माधव पाहि माम् ॥ ४९॥
निबिडनीरदसन्निभमद्भुतं
विपुलचारुचतुर्भुजशोभितम् ।
जनदयापरिपूर्णशरीरकं
तमवलोकितुमुत्सहते मनः ॥ ५०॥
ज्वलितरत्नविभासितभासितं
मकुटमण्डितमस्तकमिष्टदम् ।
सुभगकुण्डलमण्डलगण्डकं
तमवलोकितुमुत्सहते मनः ॥ ५१॥
स्मितमुखं सरसोरुहलोचनं
रुचिरनासिकया परिराजितम् ।
अतिविशालसुफालविशोभितं
तमवलोकितुमुत्सहते मनः ॥ ५२॥
उरसि हारविहारमनोहरं
तुलसिकावनमालिकयान्वितम् ।
कलितकौस्तुभकण्ठदरोपमं
तमवलोकितुमुत्सहते मनः ॥ ५३॥
कनकसूत्रनिबद्धकटिस्थलं
विमलपीतपटेन विराजितम् ।
विलसितं भुजबद्धशुभाङ्गदं
तमवलोकितुमुत्सहते मनः ॥ ५४॥
कटकशोभितपाणितटं शुभं
दरगदासिसुचक्रशरासनैः ।
अतिविराजितमूर्तिमनुत्तमं
तमवलोकितुमुत्सहते मनः ॥ ५५॥
कुटिलकुन्तलमण्डलमञ्जुलं
भ्रुकुटिभावितकर्णमहाशयम् ।
हृदि सुपाण्डरलक्षणलक्षितं
तमवलोकितुमुत्सहते मनः ॥ ५६॥
भवविलासनिरासविधायकं
मुनिगणामलमानसमानसम् ।
लसितनू पुरयुग्मपदाम्बुजं
तमवलोकितुमुत्सहते मनः ॥ ५७॥
चन्द्रांशुगौरेण सुनीलवाससा
मदाविघूर्णारुणदिव्यचक्षुषा ।
रामेण युक्तं कृतदासमुक्तं
श्रीमज्जगन्नाथमहं नमामि ॥ ५८॥
जगज्जनन्या करुणाग्रगण्यया
सुभद्रया शोभितदक्षभागम् ।
प्रपन्नपालं पतितार्तिहारिणं
श्रीमज्जगन्नाथमहं नमामि ॥ ५१॥
दयाविधानेन सुदासकामदं
महाप्रसादेन भवापहारिणम् ।
विमुक्तिदं नीलगिरौ निवासिनं
श्रीमज्जगन्नाथमहं नमामि ॥ ६०॥
पापप्रणाशाय जगज्जनानां
संराजते योऽन्धितटे दयालुः ।
तमुद्धरन्तं पतितानघौघात्
श्रीमज्जगन्नाथमहं नमामि ॥ ६१॥
रत्नासनस्थं प्रणवस्वरूपं
सतां गतं दीनदयानिधानम् ।
प्रदर्शयन् स्वस्य वपुर्जनेभ्यः
श्रीमज्जगन्नाथमहं नमामि ॥ ६२॥
या ज्ञानयोगेन विरागभक्त्या
गतिर्भवत्यब्दशतैर्मुनीनाम् ।
महाप्रसादेन तु तद्गतिप्रदम् ।
श्रीमज्जगन्नाथमहं नमामि ॥ ६३॥
ये पापिनरत्यक्तसमस्तसत्क्रिया
लोकेव्यवाये विषयैर्विलिप्ताः ।
महाप्रसादेन पुनाति तान् यः
श्रीमज्जगन्नाथमहं नमामिः ॥ ६४॥
अस्मादृशां पापविनिष्ठितानां
नान्योऽस्त्युपायस्तरणे भवाब्धेः ।
महाप्रसादं ददतं तदर्थं
श्रीमजगन्नाथमहं नमामि ॥ ६५॥
यथाम्बरं वै गतिरस्ति पक्षिणां
यथा पशूनां पृथिवी गतिश्च ।
अस्मादृशां पापनिविष्टचेतसां
गतिस्त्वमेवासि तथा न चान्यः ॥ ६६॥
अन्यः समर्थो भुवि कोऽपि नारित
य उद्धरेन्मां कृपयातिपापद्मम् ।
आधारभूतं तव पादपा
तस्माज्जगत्पावन रक्ष लज्जाम् ॥ ६७॥
यो मां तवास्मीति जनः प्रयाचते
तस्मै ददामीत्यभयं व्रतं से ।
आधार एषोऽद्य ममादिनाथ
व्रतं स्वकीयं न विहातुमर्हसि ॥ ६८॥
त्यक्त्वा सुधर्मानखिलान् जनो यदा-
ह्यनन्यधर्मा शरणं समीहते ।
अहं तदाघानि विमोचयामि
व्रतं त्वदीयं शरणं ममेदम् ॥ ६९॥
श्रुत्वा पुराणानि विधाय धर्मान्
करोमि किञ्चिन्न हि तद्विधानम् ।
लज्जाविहीनेऽपि पुरः स्थिते मयि
प्र सीद नीलाचलनाथ दीने ॥ ७०॥
प्रारब्धदोषाद्यदभूदभूत्त-
च्छोचामि किञ्चिन्न हि तस्य दुःखम् ।
शोचामि यत्वच्छरणागतं मां
प्रवाधते पापपराभवोऽलम् ॥ ७१॥
न चित्तवृत्तिस्थिरता प्रयाति
न पापकर्मस्वपि मेऽस्ति तोषः ।
केन प्रयत्नेन गतिं च लप्स्ये
लज्जा त्विदानी तव पाणिपद्मे ॥ ७२॥
शास्त्रेषु वेदेषु पुराणकल्पे
श्रुतो मया त्वं पतितोद्धरः सदा ।
अतोऽतिपापे पतितप्रधाने
दयाविधाने त्वमसि क्षमोऽद्य ॥ ७३॥
गृध्रे गुहे वै नृगभूमिदेवे
गजे पिशाचेऽपि कृता दया या ।
कारागृहे राजसु मागधस्य
कुरुष्व दीने मयि तां दयां प्रभो ॥ ७४॥
यद्यप्यहं पापसमूहकारी
स्थातुं हि नार्होऽस्मि पुरस्तथापि ।
त्वं नाम संस्मृत्य निजं जगत्पते
मामुद्धर प्रेष्ठमकिञ्चनानाम् ॥ ७५॥
क्व याम्यहं के नितरां स्मरासि
नान्योऽस्ति लोके प्रभुदीननाथः ।
ऋते भवन्तं जगदेकनाथ-
मुपायहीनः शरणागतोऽहम् ॥ ७६॥
पाञ्चालराजस्य कुमारिकाया
लज्जा त्वदीयस्मरणेन रक्षिता ।
तथैव नीलाद्रिपतेऽनुकम्पया
लज्जां मदीयामव वासुदेव ॥ ७७॥
त्वत्प्रेरितौ मत्पितरौ प्रचक्रतु-
र्मन्नाम यद्भागवतप्रसादम् ।
स्वसम्प्रदाये कृतवान् यतस्त्वं
सत् श्रीजगन्नाथ भवत्कराम्बुजे ॥ ७८॥
हास्यं न लोके मम किञ्चिदस्ति
हास्यास्पदं यत्स्वयमेव जातः ।
किन्तु त्वदग्रे शरणागतानां
हास्यं च लोकेषु महाननर्थः ॥ ७९॥
शोचामि नाहं नरकप्रपातं
शोचामि नाहं पतितोऽभवं यत् ।
शोचाम्यहं त्वच्छरणागतस्य
नेयं दशा नाथ तवानुरूपा ॥ ८०॥
य आद्योऽन्तोऽनादिः सकलगुणवृन्दैकसदनं
स्वशक्त्येदं विश्वं सृजति सुतरां पाति हरते ।
जगत्क्रीडाकारी निजजनदयादाननिरतो
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८१॥
कदम्बच्छायायां धृतविपिनपुष्पाभरणक-
स्त्रिभङ्गाकारो यः कृतमधुरवंशीकलरवः ।
कटाक्षाक्षेपेण ब्रजपुरवधूनां हि सुखदो
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८२॥
सदा वृन्दारण्ये वरमधुरवंशीध्वनिरतो
निकुञ्जे भृङ्गाढ्ये बहुसुरभिसञ्चारणपरः ।
सुहृद्भिर्गोपालैस्सुखितवदनैर्योऽतिशुशुभे
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८३॥
मनोहारी हारी व्रजवनविहारी यदुपति-
द्विषद्दारी तारी हृदि शिवविचारी सुमनसाम् ।
सदा सञ्चारी यो दिनपतिकुमारीकलतटे
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८ ४॥
भवान्तर्यामी यो वरविहगगामी स्वसुषदः
सतामात्मारामी कटिकनकदामी विभुवपुः ।
सुधामा शन्धामा जनसुगतिकामी करुणया
जग न्नाथस्वामी नयनपथगामी भवतु मे ॥ ८५॥
प्रवीरै राजन्त्यां मदनबलशैनेयसुभगैः
सुधर्मायां सिंहासनवरगतो योऽतिशुशुभे ।
चतुर्बाहुः श्यामो धनुरसिगदाद्यायुधधरो
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ८६॥
निहन्ता कंसं च प्रवलमुरभौमादिनिकरा-
न्नियन्ता विश्वस्य प्रचुरतरयास पाषण्डदलनः ।
सुयन्ता सङ्गोप्तामरपतिसुतस्यात्मविभवै-
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८७॥
सरस्यय्वास्तीरे यो वरभरतशत्रुघ्नसहित-
स्सुमित्रापुत्रेण प्रविलसति लीलातिललितः ।
सुहद्भिसंयुक्तो धृतसशरकोदण्डसुभुजो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८८॥
कदाचिद्रत्नाढ्ये हिमगिरिसुशृङ्गे यमगृहे
सखीभिः संयुक्तो जनकतनयाभ्राजितभुजः ।
सुपुष्पालङ्कारैरतिलसितसर्वाङ्गसुभगो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८९॥
विजेता शत्रूणां निशिचरकृलोद्भूतजनुषा-
मृषीणां सङ्गोप्तोदधिविपुलसेतो रचयिता ।
प्रदाता गृध्रस्याद्भुतगतिमगुर्यां न मुनयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९०॥
दयापारावारो वरगुणगणस्यैकनिलयो
यशो भासं शुद्धिं यदशुचिजनोऽपि प्रलभते ।
मरालो यत्पादः शिवमनसि सन्मानसवरे
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९१॥
सृजाशक्त्या सृष्टिं पुनरपि च हर्त्र्यैव हरणं
सुपालिन्या पालं स्वशरणशरण्यः प्रकुरुते ।
य ईदृग्गौरीशः प्रभुरपि च तस्यापि सुखदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९२॥
सतां धर्माचार्यो मुनिजनसुविज्ञानदपरो
महान् योगाचार्यः प्रकृतिपतिरत्यद्भुतकलः ।
महादेवस्तस्यामलमनसि यच्चारुचरणो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १३॥
हरेर्नाथो हारी हरियतिपतिः संहरिमुखो
प्तिर्दीप्तिर्दीप्तिर्हरिवहसुशिष्यच्छलकरः ।
हरेर्मित्रं चित्रं हरिकटिरनादिर्हरिगति-
र्जगन्नाथः स्वामी नयनपथगमी भवतु मे ॥ ९४॥
शरन्मेघाकारो हलमुसलसन्धारणपरो
धराधारोद्धारो जनकलिविकारापहरणः ।
य ईदृक्छ्रीरामः शुभगतिकरस्तेन सहितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९५॥
अहं पापासक्तः प्रभुरपि महापापदहनो-
ऽस्त्यहं हीनाचारः प्रभुरपि समुद्धारणकरः ।
विचिन्त्येमं योगं निजचरणगाल्पस्य कृपया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ९६॥
असौ यः के सदा शेते केशेशः शङ्करः सताम् ।
नादिवेदार्णनामा मां कुमेशो विश्वगोऽवतु ॥ ९७॥
तव चरणसरोजं सिद्धदेवेन्द्रवन्द्यं
निखिलपतिततारं ज्ञानविज्ञानकारम् ।
निजजनपरिपालं कल्मषाणां हि कालं
मुनिमनसि मरालं विश्वपालं नमामि ॥ ९८॥
जयतु जलधिवासी नीलशैलेन्द्रभासी
निजजनरिपुनाशी सत्यविश्वप्रकाशी ।
व्रजविपिनविलासी सर्वदा मन्दहासी
नरनरकनिरासी दिव्यसौन्दर्यराशिः ॥ ९९॥
मयि विरतिविलीने सर्व दुःखैकताने
खलसमलकुलीने सर्वदा पापपीने ।
मदमदनविलीने त्वं दयां संविधत्स्व
निजपदजलनीने पामरेऽस्मिन्नवीने ॥ १००॥
नीलाचलनिवासाय दिव्येश्वर्यविभासिने ।
बलभद्रसुभद्राभ्या जगन्नाथाय ते नमः ॥ १०१॥
हे नाथ हे रमानाथ प्रणतार्तिविनाशन ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०२॥
नारायण सुरश्रेष्ठ दीनोद्धारपरायण ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०३॥
जगद्धातर्जगत्त्रातर्जगन्मातर्जगत्पितः ।
जगदीश दयासिन्धो रघुराजे दयां कुरु ॥ १०४॥
जगदाधार धीरेन्द्र धाराधर्मधुरन्धर ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०५॥
जनार्दन जगद्वास जगद्वन्ध जगद्धर ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०६॥
त्वदन्यो न गतिर्मेऽद्य त्वामहं शरणं गतः ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०७॥
त्वदाधारस्त्वद्बलोऽहं त्वमेव शरणं मम ।
जगन्नाथ दयासिन्धो रघुराजे दयां कुरु ॥ १०८॥
जगदीशस्य शतकं रघुराजकृतं शुभम् ।
पठतां शृण्वतां शश्वज्जगदीशः प्रसीदतु ॥ १०९॥
रामेन्दुखण्डविधुभिर्मितेऽब्दे तैर्यष्य उत्तमे ।
शनावमायां शतकं जगदीशस्य निर्मितम् ॥ ११०॥
इति श्रीसिद्धि श्रीबान्धवेशमहाराजाधिराजश्रीमहाराजश्रीराजावहादुद
श्रीकृष्णचन्द्रकृपापात्राधिकारीं श्रीरघुराजसिंहजादेवविरचितं
श्रीजगदीशशतकं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan