ह्रस्वभागवतम्
अथ प्रथम स्कन्धः १
जन्माद्यस्य यतो यदेव परमं ज्ञानं विधात्रे ददौ
सर्वं पश्यति दृश्यते न यदहो चक्षुर्यतः पश्यति ।
वाचा नाभ्युदितं यदेव यत एवाभ्युद्यतेवाग्बहु-
स्थूलं सूक्ष्ममनल्पमल्पमपि यत्तस्मै नमो ब्रह्मणे ॥
धातुर्निर्देशयोगात्कलिमलरहितं नैमिषारण्यमाप्ता
आसीना दीर्घसत्रं सुहुतहुतभुजः शौनकाद्या मुनीन्द्राः ।
सूतं धर्मिष्ठमुग्रश्रवसमुपगतं ज्ञानिवर्यं महान्तं
पृच्छन्ति स्मेश्वरस्य श्रुतिसुखमवतारादि लीलारहस्यम् ॥ १॥
नत्वा व्यासं च देवीं शुकमपि नरनारायणौ चाह सूतः
प्रश्ना वो यं प्रतीमे स भवति भगवान् ब्रह्म चात्मेति गीतः ।
तत्प्रीत्यर्थं सदा तच्छ्रवणमननसङ्कीर्तनाद्यानि कुर्वन्
मर्त्यो यस्तस्य भक्तिर्भवति परपदप्राप्तिरानन्ददात्री ॥ २॥
लोकक्षेमार्थमेषः प्रतिनिमिषमरूपोऽपि रूपाणि धत्ते
तल्लीला वर्णयित्वा मुदितहृदभवत्सत्यवत्यास्तनूजः ।
गङ्गातीरे परीक्षिन्नरपतिरशृणोच्छ्रीशुकाद्वर्णितं तत्
तत्रासीनेन दैवाच्छ्रुतमपि च मया श्रावये तन्मुनीन्द्राः ॥ ३॥
एकं वेदं चतुर्धा विदधदृषिवरो व्यासनामा चतुर्भ्यो
दत्वा शिष्येभ्य आरादकृत बहुपुराणानि धर्मैकनिष्ठः ।
वेदार्त्थोद्बृह्मणार्थं तदनु कृतमहाभारतो नैव तृप्तिं
प्राप्तश्चिन्ताकुलोऽभूत्तमिममुपगतो नारदोऽभाषतैवम् ॥ ४॥
धर्माद्यं कीर्तितं ते कृतिषु न तु यशः श्रीहरेः सम्यगेत -
ल्लीला ब्रह्माण्डसर्गस्थितिलयकरणं वर्णयैतत्प्रजानाम् ।
शृण्वन्तस्तद्ब्रुवन्तो महदभिगमतः श्रीपतौ भक्तिभाजो
मुच्यन्ते कर्मबन्धाद्भवति मम कथाप्यस्य दृष्टान्त एव ॥ ५॥
दासीपुत्रत्वमाप्तो द्विजवरनिलये पूर्वजन्मन्यकार्षं
दास्यं कर्माऽऽत्तमोदं परिचरितयतीन्द्राप्तगोविन्दभक्तिः ।
ध्यानस्थोऽपश्यमादौ हृदि हरिमथ तच्छब्दमात्रेण तुष्टो
जन्मैतत्प्राप्य पश्यन्सकलदिशि हरिं सेवमानश्चरामि ॥ ६॥
एवं देवर्षिणोक्तो हरिमहिमकथामग्नचित्तो मुनीन्द्र-
श्चक्रे सद्ग्रन्थमेवं नियतिकृतकुरुक्षेत्रयुद्धावशिष्टः ।
कृष्णापुत्रान् प्रसुप्तान् निशि कठिनमहन् द्रौणिरेषोऽथ बद्धो
वीराग्रण्यार्जुनेन प्रकटितमति यन्मौलिरत्नं च जह्रे ॥ ७॥
गर्भों मे नाश्यतेऽस्त्रैरिममवतु भवान् उत्तरावाक्यमेवं
श्रुत्वा तद्रक्षकः सन् जिगमिषुरभवद्वारकां वासुदेवः ।
त्वत्पादे मे रतिः स्यादखिलद विपदः सन्तु नः शश्वदेवं
कुन्तीस्तोत्रं च शृण्वन् नगरमाधिवसन् सान्त्वयामास पार्थान् ॥ ८॥
भीष्मः स्वच्छन्दमृत्युर्निजजनकमुदे त्यक्तसर्वार्थकामो
धर्मौघं धर्मसूनो रणभुवि शरशय्यावलम्बी प्रकाश्य ।
सन्तुष्टः पार्थसूतं मृदुहसितमुखं वीक्षमाणः पुरस्तात्
स्तुत्वा सर्वात्मकं तं परमपदमवापास्तसंसारबन्धः ॥ ९॥
धर्मिष्ठो भीष्मवाक्यश्रवणहृतमहापापशङ्कः स्वराज्यं
चक्रे धर्मात्मजन्मा विधिवदथ हरिर्द्वारकां गन्तुकामः ।
सर्वानापृच्छ्य पौरान् रथवरमधिरुह्यात्तमोदं पुरस्त्री-
गीतं शृण्वन् जगाम प्रकटितकरुणः शीघ्रमानर्तदेशान् ॥ १०॥
सम्प्राप्तो द्वारकां श्रीहरिरुरुविरहक्लिष्टपौराक्षिपीतो
नत्वा पित्रोः पुरस्ताच्छिशिरिततनयज्ञातिवर्गः कटाक्षैः ।
पत्नीः सम्भावयामास च मदनशराबाधितो निर्विकारः
स्त्रैणं यं मन्यते यः स भवति पशुबुद्धिश्च मूढाग्रगण्यः ॥ ११॥
द्रौण्यस्त्रप्लुष्टगर्भं जठरगतगदापाणिरङ्गुष्ठमात्रः
कृष्णस्तं जीवयित्वा पुनरपि परितो बालकं सञ्चचार ।
पश्यन् गर्भस्थ एवं हरिमथ दशमे मासि भुव्युत्तराया
जातो नाम्ना परीक्षित् सकलगुणनिधिर्लालितोऽभूदजेन ॥ १२॥
मैत्रेयोपात्तविद्यो विदुरयतिवरो भ्रातरं चाऽम्बिकेयं
गान्धारीं चार्धरात्रे वनमनयदहो ते तपश्चक्रुरुच्चैः ।
तान् स्मृत्वा धर्मजन्मा व्यथितहृदभवन्नारदोऽबोधयत्तं
मा मा चिन्ताकुलो भूः कुरु हरिभजनं यस्य लीला हि सर्वम् ॥ १३॥
धर्मात्मा धर्मसूनुः सकलहितकरः सर्वतो दुर्निमित्तं
पश्यन् पप्रच्छ भीतोऽर्जुनमपि कुशलं द्वारवत्यां यदूनाम् ।
आस्ते कृष्णः सुखं वा पितृसहजकलत्रात्मजाद्यैः समेतो
यद्दोर्दण्डेन गुप्तं यदुपुरमकुतश्चिद्भया यादवाश्च ॥ १४॥
एवं पृष्टोऽश्रुनेत्रो यदुकुलमृषिशापाग्निदग्धं धरित्री-
भारं संहृत्त्य कृष्णस्य च दिवि गमनं बोधयामास पार्थः ।
कृष्णं स्मृत्वा पृथाऽऽप्ता परमपदमथो धर्मजस्त्वौत्तरेयं
भूपं चक्रेऽथ पार्था अमृतपदमगुर्द्रौपदी चेशभक्ता ॥ १५॥
राज्यं कुर्वन् परीक्षिन्नरपतिरशृणोत् पाण्डवान् कृष्णभक्तान्
आत्मानं चास्त्रदग्धं पुनरपि हरिदत्तायुषं भक्तवर्यः ।
कुर्वाणो दिग्जयं स प्रभुरमितबलः पर्यटन् शस्त्रपाणि-
र्गोरूपौ भूमिधर्मौ कृशतरवपुषौ दृष्टवान् दुःखचित्तौ ॥ १६॥
दीनां गामेकपादं वृषमपि हतपादत्रयं हन्तुकामं
पापं घोरं कलिं स प्रभुरवददरे मुञ्च राज्यं मदीयम् ।
नोचेद्धन्मीति भीतः स तु नृपतिपदं चाश्रितः सोऽथ हिंसा-
द्यूतस्त्रीमद्यहेमस्वपि वसतु भवान् मेतरत्रेत्यमुञ्चत् ॥ १७॥
एवं जित्वा कलिं स प्रभुरधिवनमाखेटलीलां प्रकुर्वन्
शान्तोऽगच्छत्किमप्याश्रमपदमकृतातिथ्यतारुष्टचित्तः ।
अंसे राजा मृताहिं न्यधित मुनिवरस्यास्य पुत्रेण कोपाद्-
धृष्ट स्यास्तक्षकाहिप्रवरविषहतः सप्तमेऽह्नीति शप्तः ॥ १८॥
पश्चात्तापेन शुद्धीकृतमहितमतिस्त्यक्तसर्वैहिकार्थो
राजा प्रायोपविष्टः सुरसरितमुपेत्याऽस्त नत्वा मुनीन्द्रान् ।
तत्राऽप्तान् व्यासपुत्रं शुकमपि विनयेनाह मृत्यून्मुखः सन्
किं कुर्यात्किं न कुर्याद्वदतु हितमिति श्रीशुकस्त्वाबभाषे ॥ १९॥
अथ द्वितीय स्कन्धः २
राजन् लोकहितं वचस्तव वृथा देहादिसक्तिः सतां
स्मर्तव्यो हरिरेव मृत्युतरणायान्यो न पन्थाः शिवः ।
श्राव्यं भागवतं चतुर्दशजगद्रूपं विराट्पूरूषं
स्मृत्वा सप्तदिनैर्भवान् परपदं गन्ताऽऽकुलो मा स्म भूः ॥ १॥
स्थूलं रूपमिदं हरेर्जगदिदं ध्यायन् क्रमाद्वैष्णवं
सूक्ष्मं पश्यति रूपमन्तरमलं निष्कामयोगी पुनः ।
सद्योमुक्तिमुपैति देहपतने योगी सकामो यदि
प्राप्नोति क्रममुक्तिमेति पतनं कामातिसक्तो जनः ॥ २॥
तत्तद्देवसमाश्रयेण मनुजस्तत्तद्वरानश्नुते
सेवन्तेऽखिलकामिनो हरिमकामाश्चापि मोक्षेप्सवः ।
भक्त्या यो मनसेन्द्रियैश्च भजते विष्णुं सदा भाग्यवान्
स ज्ञानं लभते परं न भजते यस्तस्य धिग्जीवितम् ॥ ३॥
राजाऽपृच्छदिदं कथं जगदभूत्सृष्टं कथं रक्ष्यते
काले संह्रियते कथं भगवता काः काश्च तच्छक्तयः ।
श्रुत्वैवं मुनिराट् स्तुवन् मधुरिपुं प्रोद्गीतसारस्वतो
नत्वा व्यासमपीह नारदविधिप्रोक्तं स्मरन्नूचिवान् ॥ ४॥
पृष्टोऽजः किल नारदेन वद मे दृश्यं जगत्कीदृशं
सर्वज्ञोऽसि विरिञ्चिराह - भगवानेवाखिलं तत्त्वतः ।
एतत्सत्त्वरजस्तमोमयमिदं चित्तादि शब्दादि च
श्रोत्राद्यं घटितं जलेऽण्डमभवद्यस्माद्विराडुद्भवः ॥ ५॥
यः साहस्रकराङ्घ्रिशीर्षनयनो गीतो विराट्पूरुषो
यस्याङ्गानि चतुर्दशापि च जगत्याराध्यते यो मया ।
यः सृष्टिस्थितिसंहृतीश्च कुरुते स्वस्मिन् स्वयं चात्मना
कल्पे कल्प इदं स एव सकलं नैवान्यदस्त्यात्मज ॥ ६॥
योऽरूपो भगवान् बहूनि धृतवान् रूपाणि शक्तीर्दधद्-
यः कृष्णो भविता विधास्यति मुनिर्वेदं चतुर्धा यतः ।
ज्ञानं लब्धमिदं च मे परमिमं ज्ञातुं च वक्तुं च नो
शक्तः कोऽपि विधत्स्व नारद हरौ भक्तिं जनानां हृदि ॥ ७॥
पित्रोङ्क्तं किमु कस्य कस्य तनयेनोक्तं हरिं संस्मरं-
स्त्यक्ष्ये देहमुपायमस्य वद मे देहात्मबन्धः कथम् ।
धर्माः के विविधा नृणां श्रुतिपुराणादिस्वभावः कथं
सर्वज्ञोऽसि वदेति भूपतिवचः श्रुत्वाऽऽह स श्रीशुकः ॥ ८॥
ब्राह्मे कल्पे विधाता सुचिरकृततपा दृष्टवैकुण्ठलोकः
सस्नेहं विष्णुनोक्तः सृज जगदधुना पूर्वसृष्टं मयैव ।
स्रष्टा सृष्टिश्च सृष्टं सकलमहमितो नैव मत्तोऽन्यदासी-
न्नास्ति स्यान्नैव किञ्चित्कमलज न तु ते कर्म बन्धाय भूयात् ॥ ९॥
श्रुत्वैवं कमलोद्भवोऽस्य जगतः सृष्टौ हरिप्रेरित-
स्तिर्यङ्मर्त्यसुरासुराद्यमसृजद्व्यासश्च यद्वर्णयन् ।
सर्गाद्यैर्दशलक्षणैश्च सहितं श्रीमत्पुराणं मुनि-
श्चक्रे यत्र सुवर्णितं विदुरमैत्रेयोक्तमाकर्ण्यताम् ॥ १०॥
अथ तृतीय स्कन्धः ३
अन्धभ्रातृसुतोक्तिविद्धहृदयः श्रीकृष्णभक्तः परं
धर्मिष्ठो विदुरो बहूदकयतिः प्राप्तस्तटं यामुनम् ।
दैवादागतमुद्धवं हरिसखं पप्रच्छ किं द्वारका -
मध्यास्ते ससुखं हरिः कुशलिनः पार्थाश्च किं मेऽग्रजः ॥ १॥
यो बाल्यात्प्रभृतीश्वरार्पितमतिः कृष्णस्य शिष्यो महान्
वृष्णीनां प्रवरः स्मृताखिलतया तूष्णीं स्थितः स क्षणम् ।
वक्तुं प्रारभताथ यादवजना दौर्भाग्यवन्तो विदुः
कृष्णं केवलमानुषं न परमात्मानं जगन्नायकम् ॥ २॥
सङ्गाद्येन यथाकथञ्चन नृणां मृत्योश्च मुक्तिर्भवेद्-
यः केनापि जितः क्वचिन्न च कृपासिन्धुश्च यः सर्वदः ।
तस्य ज्ञातिजनो मुनीन् परिहसन् शप्तश्च मोक्षाय किं
कर्तव्यं न इति स्म पृच्छति न तं मृत्यून्मुखोऽभूच्च सः ॥ ३॥
एकान्तेऽनुगताय मे हरिरदाज्ज्ञानं परं याम्यहं
त्यक्त्वा मानुषदेहमाशु यदवो नङ्क्ष्यन्ति चैषा पुरी ।
गच्छ त्वं बदरीमितीशवचनाद्यातोऽस्मि मित्रासुत-
स्तत्त्वं भागवतं प्रदास्यति च ते यत्तन्नियुक्तोऽत्र सः ॥ ४॥
मैत्रेयं विदुरोऽब्रवीन्मम मुने ज्ञानं परं दीयतां
सृष्टं केन जगत्किमर्थमिति स प्रत्याह शिष्यं गुरुः ।
आसीत्सौम्य सदेकमद्वयमिदं त्वग्रेऽथ तत्त्वं मह-
ज्जातं सत्त्वरजस्तमोमयमहङ्कारत्रयं वै ततः ॥ ५॥
तन्मात्रेन्द्रियभूतजालमभवत्तत्त्वानि भिन्नानि नो
संयुक्तान्यमरैः स्तुतो हरिरिमान्याविश्य संयोजयन् ।
सर्वप्राणिसमेत आस्त सलिले ब्रह्माण्डतो वत्सरान्
साहस्रं च ततः समष्टिपुरुषो जातो जगद्रूपकः ॥ ६॥
चिन्मात्रो भगवान् य एव रमते स्वस्मिन् परापेक्षता
नास्त्यस्य क्वचिदेष भाति सततं मुक्तोऽजया बद्धवत् ।
यः स्तौत्येनममोघवागयमतो धर्मार्थमोक्षादिकं
ब्रूमस्तस्य विभूतिजालमिह ते देवो हरिः प्रीयताम् ॥ ७॥
ब्रूमो भागवतं पुराणमृषये सङ्कर्षणेनोदितं
वर्ण्यन्तेऽत्र विभूतयो भगवतः पाद्मे च कल्पे त्वजः ।
स्वाधाराम्बुजनालतश्चिरमटन् दृष्ट्वा न किञ्चित्तपः
कृत्वा दीर्घमपश्यदन्तरमलं वैकुण्ठमस्तौच्च तम् ॥ ८॥
ज्ञातोऽसि त्वं प्रभो मे वपुरिदमवतारैकमूलं तवास्मा-
ज्जातोऽहं त्वां गृणन्तो भवभयरहिताः स्रष्टुकामोऽस्मि लोकान् ।
तच्छक्तं मां कुरु त्वं प्रणतिमिह करोमीति धात्रा स्तुतोऽजः
प्रोवाचाहं प्रसन्नः सृज जगदिह ते स्वस्ति भूयात् सदेति ॥ ९॥
श्रुत्वेदं कमलोद्भवः कृततपाः सर्गैकचित्तोऽभवत्
सर्गाः प्राकृतवैकृता नवविधाः कौमारसर्गोऽपि च ।
उद्भिज्जाण्डजरायुजा बहुविधाः स्वेदोद्भवा सन्त्यमी
जीवास्तत्र रजोऽधिकास्तु मनुजा रागादिसंसारिणः ॥ १०॥
कालः श्रीहरिशक्तिरेव बहुधा वेधो लवो नाडिका
यामो रात्रिदिनानि पक्षयुगलं मासश्च संवत्सरः ।
एवं कालविभाग एष कुरुते बाल्याद्यवस्थान्तरं
तस्मै वत्सरपञ्चकाय हरये कुर्यात् प्रणामं सदा ॥ ११॥
सृष्ट्वा सोऽज्ञानवृत्तीर्विधिरथ सनकादींश्च चित्तेन भूयो
रुद्रं भ्रूमध्यतश्च क्रतुपुलहपुलस्त्यादिकान् नारदं च ।
वाणीं वेदेतिहासानपि विविधपुराणानि यज्ञान् विचित्रां-
श्चक्रे द्वेधा विभक्तान्नरमिथुनमभूदस्य देहादजस्य ॥ १२॥
कालेऽस्मिन् भुवमब्धिमग्नविवशामुद्धर्तुकामो हरि-
र्नासातो निरगादजस्य किटिपोतोऽयं महीध्राकृतिः ।
गर्जन्नब्धितरङ्गतः क्षितिमिमां पोत्रे निधायोद्धरन्
रुन्धानं दनुजं निपात्य विबुधैर्यज्ञस्वरूपः स्तुतः ॥ १३॥
क्षत्रा पृष्टेन कोऽयं हत इति मुनिना चोक्तमेतस्य माता
सन्ध्यायां कामतप्ता दितिरमलमतिं कश्यपं प्राप मुग्धा ।
तेनोक्तं ते जनिष्यत्सुतयुगममलान् पीडयेत्पुत्रकौ ते
विष्णुर्हन्याल्लोकार्तिहारी तव तनयसुतो भक्तवर्यो भवेच्च ॥ १४॥
पश्यन्तो दिव्यदृश्यान्युरुकुतुकहृदो योगिवर्याः कुमारा
वैकुण्ठं द्रष्टुकामा जयविजयहतस्वेच्छयात्राल्पकोपाः ।
शेपुस्तौ नीचयोनिं प्रविशतमिति तत्रागतं श्रीद्वितीयं
दृष्ट्वा भक्त्या च नत्वा सुविमलमनसस्तुष्टुवुः पद्महस्तम् ॥ १५॥
विलोक्य सदयं प्रियौ हरिरुवाच बद्धाञ्जली
भवेतमसुरौ युवां मुनिवचो न मिथ्या भवेत् ।
विवृद्धतरमन्युना स्मरतमेव मां जन्मभि-
स्त्रिभिर्व्रजतमत्र वां सकलबन्धमुक्तिर्भवेत् ॥ १६॥
नत्वोभौ हरिमात्तभक्तिविनयं प्राप्तौ दितेः पुत्रतां
ज्येष्ठश्चाप्यनुजो हिरण्यकशिपुर्नाम्ना हिरण्याक्षकः ।
स प्राप्तो वरुणं युयुत्सुरनुजः प्रोक्तोऽमुना प्राप्यतां
विष्णुर्युद्धविदग्ध एषि यदि तं नूनं श्वभक्ष्यो भवेः ॥ १७॥
श्रुत्वेदं विष्णुमन्विष्य स भुवनमटन् योद्धुकामो न पश्यन्
क्रीडालोलः समुद्रेप्यथ किटिवपुषं चोद्धरन्तं धरित्रीम् ।
तं दृष्ट्वाऽऽहार्पितेयं मृगहतक जगत्सृष्टिकर्त्रा पुरा नो
नेया ते सा कथं स्यादिति हरिरवदज्जल्पनं ते वृथा स्यात् ॥ १८॥
विष्णुर्दैत्येन लीलारणमकृत गदाशूलहस्तेन भीमं
क्रुध्यन्तं मायिनं तं निजकरतलतः कर्णमूले जघान ।
पोत्रेणोद्धृत्य भूमिं किटितनुमभिगच्छन्तमारान्मुनीन्द्रा
देवाः सन्तुष्टुवुस्तं हरिममलधियो यज्ञमूर्तिं विनम्राः ॥ १९॥
यक्षान् रक्षांसि धाताऽसृजदसुरगणान् कामभोगैकसक्तान्
भूतान्येवं पिशाचान् विविधपितृगणान् साध्यसङ्घानदृश्यान् ।
एवं सृष्ट्वा बहूनप्यथ कमलभवः सर्गवृद्धिं न पश्यन्
क्रुद्धस्तत्याज देहं पुनरसृजदृषीन् लोकभर्त्तॄन् मनूंश्च ॥ २०॥
घात्रा सञ्चोदितत्वान्मुनिरकृत तपः कर्दमः श्रीहरिस्तं
प्रोचे पत्नीं स्वकीयां कुरु मनुतनयां देवहूतिं सरागाम् ।
पुत्र्यः स्युस्ते नवास्यामहमपि दशमः स्यामितीशेन चोक्तो
भक्तः प्रत्युद्ययौ तं मनुमतिविमलं प्राप्तमत्यन्तभक्तम् ॥ २१॥
सिद्धोऽहं तव दर्शनान्मम सुता चोद्वोढुकामा गुणैः
प्रख्याता कुरु पाणिपीडनमिति श्रुत्वा मनूक्तिं मुनिः ।
प्राहैषास्तु मम प्रियाऽऽत्मसदृशापत्यस्य लाभे यतिः
स्यामेवेति स मानवीमुदवहच्चास्मान्निवृत्तो मनुः ॥ २२॥
मग्ना बिन्दुसरोवरे रतिसमा कान्तेन योगीश्वरे-
णारूढा च विमानमेत्य विविधान् लोकान् सुखान्यन्वभूत् ।
पुत्रीश्चाजनयन्नवाथ वनमेष्यन्तं पतिं प्राह सा-
पुत्रं मे त्वभयाय देहि तदहं मुच्येय संसारतः ॥ २३॥
खेदेनालमितो न यामि मुनिनेत्याश्वासिता गर्भिणी
काले पुत्रमसूत सा च कपिलं श्रीवासुदेवं सती ।
पुत्रीर्ब्रह्मसुतास्तयोरुदवहन् जग्मुश्च ते कर्दमः
पत्नीमर्पितवान् सुते भगवति प्राप्तः परां सद्गतिम् ॥ २४॥
निर्विण्णां जननीं प्रपन्नमनसं पुत्रो हरिः प्राह तां -
चित्तं बन्धकृदात्मनो गुणरतं सक्तं न चेन्मोक्षकृत् ।
भक्तिः सज्जनसङ्गमेन च भवेत्सक्तिर्निरस्या तया
भक्तः पश्यति सर्वतो हरिमतो निर्भीकतामेति सः ॥ २५॥
सूक्ष्मस्थूलानि भूतान्यपि दश दश च ज्ञानकर्मेन्द्रियाणि
प्रोक्तं भिन्नं चतुर्धा हृदिति यदखिलं प्राकृतं तत्त्वजालम् ।
तद्भिन्नः पञ्चविंशः पुरुष इति दृढं विद्धि तत्सन्निधौ सा
शक्ता स्वं कर्म कर्त्तुं प्रकृतिरिति विविच्यैनमेव स्मरेस्तम् ॥ २६॥
नाक्तोऽयं प्रकृतेर्गुणैस्तु पुरुषः कर्ता न भोक्ता च नो
कर्ताऽस्मीत्याभिमन्यते यदि पुनः प्राप्नोति संसारिताम् ।
तन्मुक्त्यर्थमिहात्मचिन्तनरता च स्याः शमाद्यैर्भृशं
योगी भक्तिविरक्तिमान्न तु पुनर्बध्येत मायागुणैः ॥ २७॥
योगानुष्ठानदूरीकृतमलविशदस्वान्तरङ्गो विविक्ते
देशे योगी निषण्णः स्मितमधुरमुखं स्निग्धनीलाभ्रवर्णम् ।
ध्यायन् वैकुण्ठरूपं सततमिह भवेन्मुक्त एषः स्वकीयं
प्रारब्धान्ते शरीरं त्यजति खलु यथा जीर्णवस्त्रं मनुष्यः ॥ २८॥
भक्तिः सत्त्वरजस्तमोगुणभिदामाश्रित्य चोक्ता त्रिधा
तस्या भेदविभेदतो बहुविधा भक्तिश्च या निर्गुणा ।
सा सेव्या फलदैव तां सुकृतिनश्चापाद्य शृण्वन्ति मे
लीलास्ताः कथयन्ति भीतिरहिताश्चान्ते जयेयुर्मृतिम् ॥ २९॥
पापात्मा स्वकुटुम्बपोषणमतिर्विस्मृत्य धर्मांश्च मे
मायामोहितचित्तवृत्तिरनघे मोघोद्यमोऽतृप्तिमान् ।
कासश्वासकृतश्रमो यमभटैर्नीतो भृशं ताडित-
स्तामिस्रादिषु पीड्यते नृपभटैर्दण्ड्यो यथा पुरुषः ॥ ३०॥
नष्टाघोऽपि स वासनामलिनधीरेव प्रविष्टः स्त्रिया
गर्भं संवृत उल्बतः कृमिगणैर्दष्टः शरीरे सदा ।
सर्वाङ्गोत्थितवेदनः स्तुतहरिः काले कृतावाक्शिराः
क्षिप्तः सन् बहिरिष्टविघ्नकलुषस्वान्तो बहु क्लिश्यति ॥ ३१॥
पुण्यात्माऽपि नरः पितॄननुदिनं देवांश्च सन्तर्पय-
न्नन्ते गच्छति चान्द्रलोकममरैः साकं वसन् सोमपाः ।
पुण्यान्ते पुनरेष्यतीह पुनरावृत्या भृशं दुःखितो
भक्तिज्ञानविरक्तिमान् परपदं प्राप्नोति नावर्तते ॥ ३२॥
मातस्ते भक्तिरस्तु स्वयमनवरतं निर्गुणं भावयेर्माम्
मृत्युर्माभूत्तवेदं मतमनुसर मे योगिनी स्याश्च मुक्ता ।
इत्युक्त्वाऽगाद्धरिस्तद्वचनमनुसरन्तीश्वरध्यानसक्ता
जीवन्मुक्ताऽऽश्रमे सा निजतनुमजहान्मानवी कर्मणोऽन्ते ॥ ३३॥
अथ चतुर्थ स्कन्धः ४
धातुः सर्गा व्यवर्धन्त स हरिरजनि क्षत्तराकूतिपुत्रो
यज्ञाख्यः सानसूया विधिहरिपशुपत्यंशपुत्रानसूत ।
मूर्तिर्नारायणं तं नरमपि सुषुवे वैष्णवांशौ प्रसूतेः
पुत्र्येकाऽन्या सती तु त्रिनयनमुदुवाहाऽनपत्याऽभवच्च ॥ १॥
सत्रे विश्वसृजां शुभे विधिसुतो दक्षोऽखिलैर्मानितो
दृप्तो नैव शिवेन तत्र कुपितः शम्भुं शपन्नाह सः ।
यज्ञे भागमयं भवो न लभतां देवैः सहैवं रुषा
प्रत्युक्तं बत नन्दिना पशुरयं बस्ताननः स्यादिति ॥ २॥
दक्षोऽथाऽऽरभताध्वरं स्मितमुखी ज्ञात्वा सतीदं शिवं
प्रोचे ते श्वशुरः करोति यजनं यावः प्रतिष्ठस्व तत् ।
तेनोक्तं न निमन्त्रिता वयमिदं मन्निन्दनार्थं कृतं
गच्छेस्त्वं यदि निन्दनं तव भवेद्द्रष्टास्यनिष्टानि च ॥ ३॥
मातृज्ञातिदिदृक्षया शिववचोऽनादृत्य सा प्रस्थिता
प्राप्ता यज्ञभुवं विनिन्दितहरं यज्ञं निरीक्ष्याह सा ।
मा मा निन्दत शङ्करं त्वघहरः सर्वैश्च वन्द्योऽयमि-
त्युक्त्वा दक्षजमात्मदेहमदहद्योगाग्निना च स्वयम् ॥ ४॥
रुद्रक्रोधोत्थधीरप्रमथपरिवृढो वीरभद्रः शिवाज्ञां
लब्ध्वा यज्ञं सदक्षं प्रमथितमितरैर्भूतसङ्घैः समेतः ।
प्राप्तस्तां यज्ञशालां शिवविमुखमुनीन्द्रामरान् भग्नगात्रान्
कृत्वाऽथो दक्षशीर्षं हृतममरमुखे दक्षिणाग्नौ जुहाव ॥ ५॥
देवांस्तानपराधिनोऽपि गिरिशे निर्भिन्नगात्रानजः
कैलासं नयति स्म नेमुरमराः श्रीदक्षिणामूर्तये ।
दक्षो जीवतु रुद्रभागसहितो यज्ञः समारभ्यतां
देवाः पूर्ववदेव सन्त्विति शिवं ब्रह्मा स्तुवन्नब्रावीत् ॥ ६॥
दक्षो रुद्रकटाक्षतस्त्वजमुखोऽप्युत्थाय नत्वा शिवम
दध्यौ विष्णुमथो व्यलोकि सकलैः प्रीतः स्तुतः श्रीहरिः ।
यज्ञस्त्वेष समाप्तिमाप विकलाङ्गत्वं सुराणां हृतम्
प्रायः सा च हिमाद्रिजा गिरिशमेवाऽप्ता पतिं पूर्ववत् ॥ ७॥
पुत्रो बालः सुनीतेः सदसि कटुवचोविद्धचेता विमातु-
र्विष्णुर्दुःखार्तिहारी भज तमिति जनन्युक्तितः प्रस्थितोऽतः ।
मार्गे श्रीनारदात्तद्भजनविधिमहामन्त्रयोगान् ध्रुवाख्यो
लब्ध्वा चाब्दार्धमृच्छन् मधुवनमकरोद्भक्तवर्यस्तपांसि ॥ ८॥
देवर्ष्या दिष्टमार्गः कृतकठिनतपा लोकनाथं समीक्ष्य
स्तुत्वा भक्त्या स लब्ध्वा वरमभिलषितं राजभोगं सुदीर्घम् ।
अन्यैर्नाधिष्ठितं च ध्रुवपदममलं बन्धुभिर्मानितः स्वैः
प्राप्तो गेहं जनन्यौ पितरमपि ननामाथ राज्येऽभिषिक्तः ॥ ९॥
भ्राता यक्षहतोऽभवत् स सुरुचिर्दग्धा च दावाग्निना
ज्ञात्वेदं ध्रुव आजुहाव विमना युद्धाय यक्षान् भृशम् ।
मायायुद्धमकारि तैर्बहुविधैः शस्त्रैः स विद्धस्तदा
रक्षेत्त्वां खलु शार्ङगपाणिरिति तं प्रोचुर्मुनीनां गणाः ॥ १०॥
पौत्रं क्रुद्धं स दृष्ट्वा मनुरवददलं वत्स रोषेण यक्षा
दह्यन्तेऽस्त्रैस्तवैकः सहजहतिकरः पीडितोऽनेकसङ्घः ।
राज्ञो भक्तस्य नेदं समुचितमखिलं सर्वशक्तस्य लीला-
स्तत्रैते स्मो निमित्तानि च विरम रणादेवमुक्त्वा जगाम ॥ ११॥
सद्वाक्यादरतः क्षणात्स विरतो युद्धात्कृतानुग्रहो
यक्षेन्द्रेण चिराय साधु धरणीं रक्षन् भजन् श्रीहरिम् ।
मृत्योर्मूर्ध्नि पदं निधाय वरमारूढो विमानं ध्रुवः
पश्चान्मातुरगात् परं ध्रुवपदं श्रीनारदस्तज्जगौ ॥ १२॥
अङ्गस्तत्कुलजः प्रजार्थमयजद्यज्ञं सुतं लब्धवान्
नाम्ना वेनममुं चकार तनयं क्रूरं च दुष्टाशयम् ।
दृष्ट्वा राज्यविरक्तधीः सुतनयो बन्धाय दुष्टात्मजो
निर्वेदाय भवेदिति स्वगृहतस्तुष्टो ययौ काननम् ॥ १३॥
वेनो राज्येऽभिषिक्तो मुनिभिरतिजवाद्यज्ञदानादिकर्मा-
ण्याज्ञाशक्त्या निरुन्धन्नहह परिहसन् निर्जरान् श्रीहरिं च ।
धर्मं वक्तॄन् मुनीन्द्रान् सकलहितकरान् धर्मशास्त्रं च निन्द-
न्नेषां हुङ्कारमात्राद्गलदसुरपतद्वेनवत्स्यान्न कोऽपि ॥ १४॥
तद्बाहू मथितौ ततोऽजनि हरिर्नाम्ना पृथुः श्रीसखः
स्वीकृत्यार्पितवस्तुजालमखिलैः स्तोतॄन् हसन्नूचिवान् ।
किञ्चिद्वो न कृतं मया न विदिता वो मे गुणा नैव मे
स्तोत्रप्रेम जनाः सदा सकलदो देवो हरिः स्तूयताम् ॥ १५॥
इत्थं राजवचो निशम्य मुनिभिः प्रोत्साहितास्ते तदा
सूताद्या जगदुर्दृढं हरिकला राजैष सम्मार्जयन् ।
दोषान् वेनकृतान् समो मघवता दोग्धा धरित्रीं मखान्
कुर्वन् दण्डितदुर्जनो यतिवरान् सम्पूजयेत्कीर्तिमान् ॥ १६॥
सूतादीन् समपूजयन्नरवरः कामैः प्रजाभिः पृथु-
र्दग्धा जाठरवह्निना वयमतो देह्यन्नमित्यर्थितः ।
अन्नं देहि जनेभ्य आशु वसुधे नोचेद्धता स्या मये-
त्युक्त्वा स्वं धनुराददे परवशा स्तौति स्म तं गौर्भिया ॥ १७॥
कामान् क्षीरमयान् ददामि सकलान् वत्सं तथा दोहनं
दोग्धारं नृप कल्पयेति कथितः कृत्वा मनुं वत्सकम् ।
राजाधुक्षत गां स ओषधिगणं हस्ते निजैर्वत्सकै-
स्तत्तद्वस्तु यथोचितं च दुदुहुर्देवासुरर्ष्यादयः ॥ १८॥
चक्रे राजाश्वमेधान् शततममखमेध्याश्वहर्तारमिन्द्रं
जित्वाश्वं राजपुत्रः पुनरलभत तं मायिनं देवराजम् ।
राजा कोपाज्जिघांसुर्मुनिभिरतिबलो वारितो धातृवाक्यं
श्रुत्वा तस्मान्निवृत्तो मुदितवृषसखः कीर्तितः पौरमुख्यैः ॥ १९॥
प्रत्यक्षो हरिराह योगसुदृढं चित्तं हि नो चञ्चलं
भक्तस्त्वं वृणु मे वरं सकलदोऽस्म्येष प्रसन्नो नृप ।
प्रत्यूचे नृपतिर्महत्तममुखात्त्वत्कीर्तनं त्वत्कथा-
स्त्वन्नामानि पिबानि भोस्तदुचितं कर्णायुतं देहि मे ॥ २०॥
राजैकोनशतक्रतुः पृथुरथ प्राभाषतोच्चैः प्रजा
भद्रं वो भवतु स्वधर्मनिरता भूत्वा भवन्तः सदा ।
सर्वं कर्म समर्पयन्तु हरये निस्सङ्गतापाविताः
क्षेमं दास्यति वः स इत्यभिवदन् सर्वैश्च पूज्योऽभवत् ॥ २१॥
राज्ञा सम्पूज्य पृष्टः सहसहजमुनिर्योगिवर्यः कुमारः
प्रोचे सद्धर्मकारी हरिपदकमलध्यानतो योगनिष्ठः ।
कामार्थाबाधितः सन् यमनियमतितिक्षादिभिर्द्वन्द्वभावान्
जित्वा ब्रह्माहमस्मीत्यनुभवति नरः क्षेममार्गो नृणां सः ॥ २२॥
दृष्ट्वाऽऽत्मानं प्रवयसमथ स्वेषु पुत्रेषु राजा
सन्न्यस्योर्वीं वनमुपगतश्चार्चिषा सेव्यमानः ।
योगी कृष्णे निहितसकलो द्वन्द्वजेता तपस्वी-
सद्योमुक्तिं परपदमवापान्वगात्तं प्रिया च ॥ २३॥
ख्यातः प्राचीनबर्हिस्त्वसृजदथ सुतान् स प्रचेतस्समाख्यान्
पित्राऽऽदिष्टा गतास्ते दश कुसुमसुगन्धामलं तीर्थमेकम् ।
पश्यन्तश्चेन्दुचूडं सविनयमनमन् रुद्रगीताख्यमन्त्रं
लब्ध्वाऽस्मात्तीर्थमग्ना हरिभजनमकुर्वंश्च मन्त्रं जपन्तः ॥ २४॥
एषां राजा पिता तु क्रतुकृदमलहृन्नारदेनैवमुक्तो
यज्ञेनालं न दद्यात्सुखमयमघकृत्प्राणिहिंसा नराणाम् ।
वाक्यं च श्रूयतां मे नवमुखनगरे क्वापि पत्नीविधेयः
कश्चिद्राजाऽवसत्स्वैः सह निजसुहृदं विस्मरन् मूढबुद्धिः ॥ २५॥
प्रेयस्येव पुरञ्जनी नृपवरस्यैषा तथाप्येकदा
तां नाऽऽपृच्छ्य वनं गतश्च मृगयां कुर्वन् निवृत्तस्ततः ।
स्नात्वा लेपनमाल्यतः स्वयमलङ्कुर्वन् स्मरावेगतः
क्रोधागारगतां प्रियामनुनयन् भोगांश्च भुङ्क्ते स्म सः ॥ २६॥
नानाभोगपरम्परासु नृपतिः पत्नीसमेतः सदा
मग्नः पुत्रशतान्यजीजनदहो यज्वा सकामो भृशम् ।
क्षीणायुर्बुबुधे न कालजवमित्याज्ञाय सेनाबले-
नाक्रान्तश्च बभूव भूरिबलिना गन्धर्वराजेन सः ॥ २७॥
संवृत्तेऽथ रणे हतः स नृपतिः सञ्चिन्तयन् प्रेयसीं
स्त्रीत्वेनाजनि सा विदर्भवनिता पत्यौ मृते दुखिता ।
तत्राप्तो द्विज आह मानससरोहंसावहं त्वं च न-
न्वावामेक इति क्षणात्प्रियतरौ हंसौ च तौ जग्मतुः ॥ २८॥
राजा जीवोऽत्र देहे पुरि सह निवसन् बुद्धिपत्न्या सखायं
विस्मृत्येशं त्र्यवस्थो जनिमृतिवशगः कालगन्धर्वपिष्टः ।
दैवेनादिष्टभक्तोत्तमसमभिगमाद्विप्रमीशं सखायं
पश्यन् ब्रह्मात्मबुद्धिर्भवति भज हरिं सर्वथा तेऽस्तु भद्रम् ॥ २९॥
इत्युक्तस्तपसे नृपो वनमगादब्दायुतं तत्सुता-
श्चक्रुर्दीर्घतपोऽभिदृश्य गरुडारूढं हरिं चास्तुवन् ।
तद्वाक्याद्गृहमागता उदवहन् वार्क्षीं वधुं मारिषा
पुत्रं चाजनयत् स दक्ष इति वै ख्यातः प्रजासृष्टिकृत् ॥ ३०॥
पुत्रा वेदिषदः समर्प्य महिषीं पुत्रेऽब्धितीरं गताः
सत्रं चासत नारदाद्धरिकथाः श्रुत्वा ययुस्तद्गतिम् ।
मैत्रेयस्य मुखादिमाश्च विदुरः पीत्वा हरेः सत्कथाः
प्राप्तो हस्तिपुरं निनाय विपिनं ज्येष्ठं च तां सौबलीम् ॥ ३१॥
अथ पन्चम स्कन्धः ५
भूयः श्रीशुक आह पौरव मनोराद्यः सुतः श्रीहरौ
भक्तः सत्पुरुषः प्रियव्रत इति ख्यातो विरिञ्चोक्तितः ।
कन्ये द्वे उदुवाह रात्रिमकरोद्गच्छन् दिनं तेजसा
जाता अस्य सुतास्त्रयोदश पुनः सोऽन्वाचरन्नारदम् ॥ १॥
तस्य ज्येष्ठसुतस्तु मन्दरगिरिं प्राप्तस्तपश्चाऽचर-
न्नाग्नीध्रोऽप्सरसं विलोक्य जडवद्वक्ता तया सम्मिलन् ।
भौमस्वर्गसुखं विचित्रमुपभुज्याब्दायुतान्युत्सुक-
स्तृप्तिं नाऽप सुतान्नवाप्यजनयन्नाभ्यादिकान् भोगिराट् ॥ २॥
आग्नीध्रस्य सुतस्तु नाभिरनपत्योऽभूत्प्रजार्थेष्टिकृत्
प्रत्यक्षं हरिमाहुरत्र मुनयो राज्ञोऽस्तु पुत्रः शुभः ।
यस्तुल्यो भवता भवेदिति वचः श्रुत्वा स्वतुल्यं परं
नो पश्यन् हरिरेव नाभितनयो जातः पितृप्रीतिकृत् ॥ ३॥
नाभेः पुत्रः प्रसिद्धोऽभवदृषभ इति स्वर्गराड् रुद्धवर्षं
चक्रे वर्षं सुवर्षं हृतमदसुरराजार्पितायां जयन्त्याम् ।
उत्पाद्य श्रेष्ठपुत्रान् यतिवरनृपतिश्रोत्रियानेष नाना-
धर्मानुष्ठानधीरः सकलशुभकरः पुत्रकानादिदेश ॥ ४॥
पुत्रा मानुषजन्म दुर्लभमिदं मोक्षाय बन्धाय नो
मुक्तिः सज्जनसङ्गतो हरिकथालापादिना लभ्यते ।
मा मा मत्सरबुद्धिरस्तु व इदं ब्रह्मैव सर्वं जगत्
लोकान् ब्रूत विमुक्तिमार्गमिममित्युक्त्वा यतिः प्रस्थितः ॥ ५॥
मौनी योगिवरः सुखं जनपदग्रामाटवीतीर्थगो
निस्सङ्गो विचरन् निजात्मनि परं वस्त्वेव पश्यन् क्रमात् ।
सम्प्राप्तः कुटकाचलं निजतनुं वह्नौ जुहाव स्वयं
निष्कामो यतिधर्मसद्गुरुरयं देवाय तस्मै नमः ॥ ६॥
तत्पुत्रो भरतोऽभवन्नरपतिस्तत्स्मारकं वर्षना-
मैतद्भारतमित्यहो शतसहस्राब्दान् महीं पालयन् ।
पञ्चाजीजनदात्मजान् यजनकृद्ध्यायन् विराट्पूरुषं
सर्वं कर्मफलं समर्प्य हरये प्राप्तश्चतुर्थाश्रमम् ॥ ७॥
तस्मिन् ध्यायत्यनन्तं झटिति मृगवधूः सिंहभीतोत्पतन्ती
नद्यां विस्रस्तगर्भाम्रियत नव शिशुं मोचयन् मृत्युवक्त्रात् ।
स्नेहात्तत्पालनप्रीणननिरतमतिस्तत्स्मृतेर्देहपाते
भूयो जातो मृगः सन् हरिभजनरतस्तं च देहं जहौ सः ॥ ८॥
दैवाद्भूयः स जातः सततनुतहरिर्ब्राह्मणः पूर्वजन्म-
स्मृत्या मूकोऽवधूतः कुहचन सहजक्षेत्ररक्षानियुक्तः ।
चण्डीगेहं च नीतो निशि पुरुषपशुर्दुर्जनैस्तत्र देवी
हत्वा तान् पीतरक्ता भरतमुरुकृपं भक्तवर्यं ररक्ष ॥ ९॥
गच्छन् सौवीरराजः पथि निजशिबिकां वाहयंस्तेन वाचा
निन्दन् पूर्वं तदीयं हितसरसवचः श्रद्धयाऽऽकर्ण्य पश्चात् ।
स्वस्थानात्सोऽवरूढः कृतनतिरभितः प्राह कस्त्वं कुतस्त्वं
योगी मे योगशास्त्रं जनिमृतितरणं ब्रूहि नश्यत्वघं मे ॥ १०॥
स प्रत्याह रहूगणं जगदिदं श्रव्यं च दृश्यं च नो
सत्यं सर्वमिदं मनोमयमतो दुःखं सुखं चागतम् ।
दुःखं स्यात् सगुणं मनो यदि सुखं नैर्गुण्यभाक् संसृति-
र्नश्येदात्मविचारतो हरिगुरूपास्त्या मनः स्वं जयेत् ॥ ११॥
भूयोऽप्याहैष राजा भ्रमति मम मनः सज्जगद्भाति विप्रे-
णोक्तं नो ब्रह्मणोऽन्यत्किमपि सदणवः स्थौल्यकार्श्यादिकं च ।
सर्वं सङ्कल्पितं सत्पदनतिभिरिदं ज्ञायते पूर्वजन्म
न्यासं कृष्णाङ्घ्रिभक्तो भरतनरपतिर्मूढवत्सोऽद्य वर्ते ॥ १२॥
राजन् पश्य भवाटवीं विचरति क्लिश्यन् जनो मोहितो
वर्तन्ते वृकदस्यवोऽत्र भयदा दंशाः सृगालादयः ।
एतान् जेतुमहं ददामि विमलज्ञानासिमीशं भजे-
त्युक्तः स्वं गुरुमानतः स सकलान् ज्ञानी विरक्तो गतः ॥ १३॥
उक्तं व्याससुतेन पौरव गृहाटव्यां कलत्रं वृको
दंशो दुर्जन इन्द्रियाणि च मनः षड्दस्यवो भीकराः ॥ १४॥
पुत्रो जम्बुक एवमादिभिरहो शीर्णं भवत्यर्थदं
मार्त्यं जन्म हरिं भजन् भरतवद्धन्यो भवेन्मानवः ॥
राजाभूद्भरतात्मजोऽथ सुमतिः कालेऽवधूतवत्तद्-
वंशे ज्ञानिवरः प्रतीह इतरो नाम्ना गयः कीर्तितः ।
तृप्तो यस्य मखार्पितानि च हवींष्यादत्तवान् श्रीहरि-
र्मत्ते यत्र मघोनि विद्धि विरजं चान्त्यं नृपं तत्कुले ॥ १५॥
भूयः श्रीशुक आह पश्य जगदाकारेण दृश्यं हरेः
स्थूलं रूपमिदं सरोजवदियं भाति क्षितिः सप्तधा ।
भिन्ना द्वीपसमुद्रतो गिरिवरो मेरुर्यथा कर्णिका
जम्बूर्नाम विभज्यते च नवधा द्वीपोऽष्टभिः पर्वतैः ॥ १६॥
मेरोर्मूर्ध्निपतद्धरेः पदजलस्रोतः पुनाति प्रभो-
र्भक्तान् स्वार्जितपुण्यशेषसुखभोगार्थं नराः स्वर्गिणः ।
वर्षाण्यष्ट विशन्ति भारतमिदं सत्कर्मदेशः शिवः
पत्न्येलावृतमावसन् सह हरिं सङ्कर्षणं स्तौति च ॥ १७॥
भद्राश्वे मुनयो हयास्यमसुरः श्रीमान् नृसिंहं कुतोऽ
प्यार्या भूश्च वराहमादिकमठं क्वापि स्तुवन्त्यर्यमा ।
मत्स्यं सूर्यसुतो मनुः कमलजा कन्दर्परूपं हरिं
सर्वे लोकहितार्थमच्युतपदं भक्त्या भजन्ते नताः ॥ १८॥
वर्षे किम्पुरुषे हरिर्हनुमता रामः सुखं स्तूयते
देवर्षिः स च भारते खलु नरं नारायणं सेवते ।
गङ्गाद्याः सरितोऽत्र सन्ति हिमवन्मुख्या नगाः पुण्यदा
जन्मात्र स्पृहयन्ति कृष्णचरितालापप्रिया निर्ज्जराः ॥ १९॥
प्लक्षे स्तौतीध्मजिह्वो रविमथ विमले शाल्मले यज्ञबाहुः
सोमं वह्निं हिरण्यः कुश इह घृतपृष्ठस्तमापोमयं च ।
क्रौञ्चे द्वीपे तु देवं मरुतमुरुबलं चापि मेधातिथिर्वै
शाकेऽथो वीतिहोत्रोऽद्वयममृतमजं पुष्करे तर्पयन्ति ॥ २०॥
माने द्यौः क्षमया समा भवति तन्मध्येऽन्तरिक्षस्त्रिषु
प्रत्यक्षो रविरस्तमेति समुदेत्येष क्रमात्सर्वदा ।
मन्त्रैर्यः किल वालखिल्यमुनिभिः संसेव्यते वैदिकै-
र्गच्छन् स्यन्दनतोऽप्सरःप्रभृतिभिर्नानाविधं स्तूयते ॥ २१॥
आदित्यः खलु विष्णुरेव भगवान् क्षेमाय जीवात्मनां
मासर्त्वादिकभेदमाकलयति ग्लौश्शोभते तर्पयन् ।
सर्वान् सर्वमयः सुखं तदुपरि प्रीतास्तु सप्तर्षयः
कुर्वन्त्येव परिक्रमं ध्रुवपदस्यैते जगत्क्षेमदाः ॥ २२॥
तद्विष्णोः परमं पदं यदखिलस्थानान्यतीत्य स्थितं
ज्योतिश्चक्रमिदं यदाश्रयि सदा कालेन च भ्राम्यते ।
एतद्भूमिप शिंशुमारवपुराभाति त्रिलोकात्मनो
विष्णो रूपमिदं स्मरन् प्रतिदिनं मर्त्यस्त्वघान्मुच्यते ॥ २३॥
सूर्यस्याधस्तु राहुश्चरति भवदधः सिद्धविद्याधराद्या
विद्यन्ते सप्तलोका भृशमतलमुखा भूतिमन्तो भुवोऽधः ।
आधिव्याघिक्लमाद्या इह न मृतिभयं चक्रमात्राद्धरेरे-
वैतत्तन्नो बलेर्यः सुतलमधिवसन् रक्षितो वामनेन ॥ २४॥
शेषः पातालमूले वसति निजवधूमण्डितो यस्तु मूर्ध्ना
भूमिं धत्ते च यस्य भ्रुकुटिनिटिलतः शूलधारी त्रिनेत्रः ।
काले संहाररुद्रो भवति स च हरेर्जन्मकर्माणि गाय-
न्नुच्चैः सङ्कर्षणाख्यः कमलजभवने वर्ण्यते नारदेन ॥ २५॥
विद्यन्ते नरका अधो भुव उपर्युक्ता जलानां जना
नीयन्तेऽघकरा इमान् यमभटैः पापानुसारं च ते ।
पीड्यन्ते विदयं यमेन च भटैर्यावत्कृतान्तं मयेत्
युक्तं ते जगदीदृशं च सकलं स्थूलं वपुः श्रीहरेः ॥ २६॥
अथ षष्ठ स्कन्धः ६
विष्णोर्नाम समुच्चरन्न नरकं यात्यस्तपापो यथा
विप्रोऽजामिलनामकः कृतमहापापः स दासीपतिः ।
कृष्टः कालभटैर्भयान्निजशिशुं नारायणेत्याह्वयत्
तत्राप्तैश्च चतुर्भुजैर्यमभटा रुद्धा भटैः श्रीहरेः ॥ १॥
उक्तं श्रीवैष्णवैरप्यघकृदयमनेनोदितं नाम विष्णो-
स्तेनायं ध्वस्तपापो विदितमविदितं कृष्णनामोच्चरन् यः ।
तस्याघं मार्जितं स्यान्नरकगतिरमुष्यास्ति नो गच्छतेति
श्रुत्वेदं प्राप्तगङ्गः स्मृतहरिरगमद्विष्णुलोकं द्विजः सः ॥ २॥
संवृत्तं कथितं यमस्य सदने दूतैर्यमः प्राह नः
सर्वान् पाति हरिः स एव जगतः स्वामी कथास्तस्य यः ।
वक्ता नाम शृणोति वा स्मरति वा यत्किञ्चिदस्य प्रसा-
दार्थं कर्म करोति तस्य नरकप्राप्तिर्न च स्यादिति ॥ ३॥
प्राचेतसस्तदघमर्षणतीर्थगामी
दक्षस्तपोकृतसुदीर्घमपत्यकामः ।
यद्धंसगुह्यममुना भगवान् प्रसन्न-
स्तस्मै वधूं वरमभीष्टमदादसिक्नीम् ॥ ४॥
पुत्रा दक्षस्य नारायणसरसि निमग्नाश्च मन्त्रं जपन्तो
हर्यश्वा नारदाप्तेश्वरभजनरसास्त्यक्तकामा विचेरुः ।
भूयः सृष्टांश्च पुत्रान् मुनिरकृत तथैवात्र दक्षेण शप्तो
मा विश्रान्तिस्थलं तेऽस्त्विति हरिकरुणामेव मेने स शापम् ॥ ५॥
दक्षः षष्टि सुताः ससर्ज च कृशाश्वायेन्दवे कश्यपा-
यैता अङ्गिरसे ददौ निजसुता धर्माय भूताय च ।
तासां पुत्रपरम्पराश्च पुपुषुः सर्वत्र दैत्याः क्रमे-
णादित्या अपि कश्यपस्य तनया आसन् मिथो वैरिणः ॥ ६॥
इन्द्रः श्रीमदबाधितो निजगुरुं दृष्ट्वाऽप्यनादृत्य तं
दैत्यैरुन्मथितो विरिञ्चवचनात्तं विश्वरूपं गतः ।
रक्षास्मान् भव नो गुरुस्त्वमिति चाप्यभ्यर्थयामास स
स्वीकृत्यैतदयं गुरुर्दिविषदां मन्त्रं ददौ वैष्णवम् ॥ ७॥
एतेनोक्तं विशुद्धा जपत सुरगणा मन्त्रमेतं प्रभाते
मध्याह्ने च प्रदोषे निशि भुवि दिवि चाप्यन्तरिक्षेऽतलादौ ।
जाग्रत्स्वप्नाद्यवस्थासु च भवतु सदा सर्वतो रक्षिता मे
विष्णुर्लोकैकनाथः परमुरुकरुणश्चक्रपाणे प्रसीद ॥ ८॥
एवं मन्त्रमुपास्य वर्धितबलः शक्रो जितारिर्गुरुं
त्वाष्ट्रं यज्ञहविर्ददानमसुरेभ्योऽहन् जिघांसुर्हरिम् ।
त्वष्टा चाप्यकृताभिचारहवनं जातस्ततो भीकरो
वृत्रस्तः तद्भयतः सुराश्च शरणं प्राप्ताः स्तुवन्तो हरिम् ॥ ९॥
उक्तः श्रीहरिणा वृषा सह सुरैर्लब्ध्वाऽस्थि दध्यङ् मुने-
र्विप्राद्योगिवरादतः खलु कृतं वज्रं वहन्नायुधम् ।
प्राप्तो युद्धभुवं पलायनपरान् दैत्यांस्तु वृत्रोऽवदद्-
युद्धे शत्रुहतस्य चाच्युतपदं स्मर्तुश्च मृत्युर्वरम् ॥ १०॥
वृत्रः शूलधरश्च देवभयदः शक्रप्रयुक्तां गदां
गृह्णन् दन्तिवरं प्रताड्य च ततः प्रोचे हसन् वासवम् ।
पापस्त्वं निजकर्मभिः प्रहर मां वज्रेण देहेन मे
कुर्यां भूतबलिं महेन्द्र सदयं गृह्णातु मां श्रीहरिः ॥ ११॥
एवं देहं जिहासुर्निजमसुरवरो वज्रिणा कृत्तहस्तः
शक्रं प्रोचे न कुर्मः किमपि वयमिदं चेशतन्त्रं समस्तम् ।
युद्धे मृत्युर्जयो वा भवतु न च ततो दुःखतोषौ ममैवं
धीरो वज्रेण कृत्तो न्यपतदधिरणं प्राप सायुज्यमुक्तिम् ॥ १२॥
हते वृत्रे देवास्तुतुषुरघबाधाकुलमना-
श्चिरं हित्वाऽऽहारं सरसिरुहनालीमधिवसन् ।
हरिं स्मृत्वा चेष्ट्वा धुतसकलपापः कुलिशभृद्-
बभूवेन्द्रस्त्वन्यो नहुष इति पापाच्छयुरभूत् ॥ १३॥
वृत्रोऽयं शृणु शूरसेनविषये प्राक्चित्रकेतुर्नृप-
स्तस्यैकाजनयत् प्रिया सुतमतो हृष्टोऽभवद् भूमिपः ।
ईर्ष्याकोपबलादमारयदमुं बालं सपत्नीजनः
सर्वे दुःखहतास्तदाभिययतुः श्रीनारदश्चाङ्गिराः ॥ १४॥
उक्तं चाङ्गिरसा भवान् खलु हरेर्भक्तः कलत्रे धने
पुत्रे वा ममतां जहातु सकलं मायामयं नश्वरम् ।
देहो दुःखकरः शरीरिण इमं देहाभिमानं त्यजे-
त्येनं नारद आह भूप न चिराद्द्रष्टासि सङ्कर्षणम् ॥ १५॥
राजाऽथो नारदप्रेरितमृततनयप्रोक्तमाकर्ण्य पुत्रे
निर्विण्णो राज्यपत्न्यादिषु च मुनिवरादाप्तमन्त्रोपदेशः ।
दध्यौ देशे विविक्ते हरिमचलमनाः क्वापि सङ्कर्षणाख्यं
दृष्ट्वा ज्ञानं स लेभे परममधिपतित्वं च विद्याधराणाम् ॥ १६॥
शृण्वन् विद्याधरीणां हरिनुतिममलो वर्षलक्षाणि नीत्वा
गच्छन् वैमानिकः खे स च कथमपि तं शङ्करं चाद्रिमूर्ध्नि ।
अङ्के कृत्वा प्रियां स्वां मुनिसदसि परज्ञानदं हा विनिन्दन्
रुद्राण्या दत्तशापो व्यजनि हुतभुजो दैत्यवर्यः स वृत्रः ॥ १७॥
दैत्यान् हन्ति वृषेति रुष्टहृदया खिन्ना दितिर्मानिनी
पुत्रं शक्रहणं चिकीर्षुरभजद्विष्णुं व्रताचारिणी ।
मायी गर्भगमर्भकं कुलिशभृद्भग्नव्रताया दिते
श्च्छित्वा चाकृत सप्त सप्ततनयान् रोषं जहौ सा सती ॥ १८॥
राजन् पुंसवनं ततं शृणु दितेः पत्योक्तमादौ सती
शुद्धे मार्गशिरे च पक्ष उदितं विप्रैर्मरुत्सम्भवम् ।
श्रुत्वा भर्तुरनुज्ञया हरिमथो लक्ष्मीं च सम्पूजयेत्
कुर्याद्दण्डनमस्कृतिं च जुहुयादग्नौ हविश्च क्रमात् ॥ १९॥
अथ सप्तम स्कन्धः ७
पृष्टः कार्ष्णिरुवाच नो विषमता विष्णोर्न यो निर्घृणो
देवर्ष्यादिजयाजयौ च भवतः सत्त्वादिवृद्धेः क्रमात् ।
एतत्पाण्डुसुतस्य यज्ञसदसि श्रीनारदोक्तं शृणु
श्रीकृष्णस्य निरन्तरस्मरणतो सर्वस्य मुक्तिर्भवेत् ॥ १॥
श्रुत्वा भ्रातृवधं हिरण्यकशिपुः क्रुद्धः प्रतिज्ञां सद-
स्यातेने हरिरक्ततश्च सहजं सन्तर्पयिष्ये भृशम् ।
अम्बां प्राह सहस्नुषां च तनयान् मोघेन दुःखेन किं
वीरस्वर्गमियाय मे च सहजो जातो मृतः स्यादिति ॥ २॥
गत्वा मन्दरपर्वतं स दितिजो घोरं तपस्तप्तवान्
लोकास्तेन चकम्पिरे कमलजं दृष्ट्वा पुरः सोऽब्रावीत् ।
मृत्युर्माऽस्तु ममासुरैः सुरनरैस्तिर्यग्भिरन्तर्बहि-
र्भूमौ वा दिवि चायुधैरथ भवेत्सर्वाधिपत्यं प्रभो ॥ ३॥
एवं लब्धवरो दिशश्च विदिशो जित्वा त्रिलोकाधिपो
माहेन्द्रं पदमध्युवास मुनिभिः सिद्धादिभिश्च स्तुतः ।
विष्णुं हन्तुमियेष चास्य तनयः प्रह्लाद उच्चैर्गृणन्
ध्यायन् श्रीहरिमिद्धभक्तिरसिकः सच्चित्तमानन्दयत् ॥ ४॥
ज्ञातज्ञेयः स बालो हरिविमुखगुरुप्रोक्तविद्याश्च शृण्वन्
पृष्टः पित्राऽऽह लब्धा जनक नवविधा विष्णुभक्तिर्गुरोर्मे ।
इत्युक्तः पुत्रहत्योद्यमविफलतया चेद्धकोपान्धचित्तो
दैत्येन्द्रः पाशिपाशैः सुतमरुणदयं चाह बालान् सतीर्थ्यान् ॥ ५॥
जन्मैतन्मानुषं नो सुलभमिह सुखं लभ्यते कर्मतो वा
दुःखं कौमारकाले चरत शुभधियो वैष्णवानेव धर्मान् ।
जित्वा चित्तेन्द्रियाणि स्मरत हरिपदं सौहृदं भूतजाले
कुर्वन्तस्तत्प्रसादात्करगतमखिलं स्यादिदं नारदोक्तम् ॥ ६॥
रायः पुत्राः कलत्रं च न ददति सुखं नश्वरं सर्वमेत-
न्नित्यः क्षेत्रज्ञ आत्मा हरिरुरुकरुणः सर्वभूताधिवासः ।
नूनं स्त्रीयक्षरक्षःखगमृगदितिजा मुक्तिमापुर्मुकुन्दः
प्रीयेताव्याजभक्त्या हरिभजनरतः स्वस्तिमान् स्याद्यथाहम् ॥ ७॥
प्रह्लादस्य गिरं हिरण्यकशिपुः श्रुत्वा क्रुधाऽताडयत्
स्तम्भं गर्जनकम्पितत्रिभुवनस्तस्मान्नृसिंहो हरिः ।
तीक्ष्णाक्षो भ्रुकुटीमुखोल्बणवपुर्न्निर्गत्य दैत्यं नखैः
क्रूरैस्तं तु विदार्य रक्तलहरीसिक्तः स्तुतोऽभूत् सुरैः ॥ ८॥
आन्त्रस्रग्धरकन्धरं नरहरिं नापुः सुरा नो रमा
प्रह्लादस्त्वनमत्पुरो विगतभीश्चास्तौत्प्रशान्तं हरिम् ।
संसारार्णवतः समुद्धर जनांस्तेऽनुग्रहार्हाः सदा
मूढास्त्वद्विमुखाः प्रभो कुरु च मां भक्तं हरे ते नमः ॥ ९॥
तुष्टः श्रीहरिराह तेऽस्तु सततं भद्रं त्रिभिः सप्तभिः
पूतस्ते जनको नृपोचितसुखं भोग्यं त्वया बालक ।
पुण्यं नश्यति भोगतः कृतमघं सत्कर्मभिश्च स्वकै-
रन्ते मां त्वमवाप्स्यसीति भगवानन्तर्हितोऽभूत्ततः ॥ १०॥
पृष्टः पाण्डुसुतेन नारदमुनिः प्रोचे जना धर्मत-
स्तिष्ठन्तीश्वरचिन्तया शमदमाहिंसातितिक्षादिकः ।
सामान्यः खलु धर्म एव हि नृणां वर्णादिभेदेन तद्-
धर्मस्यास्ति च भेद एव विदिता वर्णाश्च विप्रादयः ॥ ११॥
भेदाश्चाश्रमभेदतोऽपि कथिता धर्मस्य वर्णी गुरो-
र्दासः प्रोक्तमथाऽचरन् गुरुकुले छन्दांस्यधीयीत च ।
सन्ध्योपासनमाचरेच्च मितभुक् स्त्रीचिन्तनं वर्जयेद्-
वानप्रस्थ इहाचरन् स्वनियमानार्षं पदं प्राप्स्यति ॥ १२॥
सन्यासी सकलेषु पश्यति परं ब्राह्म प्रशान्तो मुनि-
र्नारम्भान् यतिरारभेत गदितं विज्ञानिना भिक्षुणा ।
प्रह्लादाय मधुव्रतादिह गुरोरेषा विरक्तिः शयो-
र्लब्धान्नेन च तुष्टिरेवमुभयं लब्धं गुरुभ्यामिति ॥ १३॥
कुर्वन् गार्हिककर्म सज्जनमुखाच्छृण्वन् हरेः सत्कथा
गायन् श्रीहरिनाम बन्धुसुतदारादौ च रक्तो बहिः ।
अन्तस्तत्र विरक्त एव विभजन् सर्वेषु वित्तं समं
तीर्थस्नानकृदाश्रमादि सततं गच्छेद्गृहस्थो जनः ॥ १४॥
श्राद्धं कर्म समाचरन् यजनतः सन्तर्पयन् निर्जरान्
भूतादीन् निजधर्ममेव विदधत्तुष्टो गृहस्थो भवेत् ।
मोक्षार्थी तु गुरुं समेत्य विधिवत्प्राणान् नियच्छन् जये-
च्चित्तं चेन्द्रियवर्गमेतदखिलं ब्रह्मेति सञ्चिन्तयेत् ॥ १५॥
अथ अष्टम स्कन्धः ८
पृष्टश्चाह शुको व्यजायत हरिर्मन्वन्तरे चाऽदिमे
यज्ञो नाम विभुर्द्वितीय उदितः सद्ब्रह्मचारी स्वयम् ।
भूयोऽभूदपि सत्यसेन इति यो जातस्तृतीये महा-
कारुण्येन रिरक्षिषुर्गजवरं जातश्चतुर्थे हरिः ॥ १॥
कश्चिद्दन्तिवरस्त्रिकूटविपिने क्षीराब्धिमध्ये मृगान्
शास्ता स्वैः सहितो गृहीव सरसि क्रीडन् निमग्नो बली ।
ग्राहेणाभिहतो रुषा च चरणे दैवाच्चिरं सङ्गरं
कुर्वन् नष्टसमस्तशक्तिरवशस्तुष्टाव भक्त्या हरिम् ॥ २॥
जन्माद्यस्य यतः स मेऽत्र शरणं भूमन् कृपावारिधे
बद्धं मोचय मां स्वकर्मभिरितस्तस्मै नमो ब्रह्मणे ।
श्रुत्वेदं हरिरुद्धृताम्बुजकरं दन्तीन्द्रमत्रारिणा
ग्राहात्कृत्तमुखादमूमुचदरं पश्यत्सु देवादिषु ॥ ३॥
इन्द्रद्युम्नो नरपतिरयं ध्यानमग्नोऽपि दैवात्
शप्तोऽगस्त्येन च गजवपुः श्रीहरेः स्पर्शयोगात् ।
तत्सारूप्यं गत उरुमुदा पार्षदत्वं च हूहू-
र्गन्धर्वोऽयं स्वपदमगमद्ग्राहताया विमुक्तः ॥ ४॥
वैकुण्ठस्त्ववतीर्य शुभ्रतनयो मन्वन्तरे पञ्चमे
वैकुण्ठं कृतवान् रमापतिरयं षष्ठे तु वैराजजः ।
सम्भूत्यामजितोऽजनिष्ट विधिना दुर्वाससः शापतो
निःश्रीकेष्वसुरैर्जितेषु च सुरेष्वस्तूयत श्रीहरिः ॥ ५॥
प्रत्यक्षो हरिराह सन्धिमसुरैः कृत्वाऽथ निर्मथ्यतां
क्षीराब्धिः कुरुतात्र मन्दरगिरिं मन्थानमुत्साहिनः ।
नेत्रं वासुकिमप्यतन्द्रमिति ते श्रुत्वा वहन्तो गिरिं
दैत्यैः साकमहो निपेतुरमरा ईशेन चोत्थापिताः ॥ ६॥
दैत्याश्च त्रिदशा ममन्थुरुदधिं मग्नं जले मन्दरं
विष्णुः कूर्मवपुः स्वपृष्ठतलतः प्रोद्धृत्य चान्यद्वपुः ।
बिभ्रत्तत्र सहस्रबाहु जलधिं मथ्नन् व्यलासीत्ततो
जातं रूक्षतरं विषं समपिबत् त्र्यक्षश्च सर्वैः स्तुतः ॥ ७॥
जातान्यब्धेर्बहून्येव च गजरमणीकल्पवृक्षादि शक्रो
धेनुं विप्राश्च रत्नं हरिरपि जगृहुर्वारुणीं दैत्यवर्याः ।
जाता लक्ष्मीः सदोषान् सुरदनुजमुनीन्द्रादिकांश्चापि हित्वा
विष्णुं वव्रे पतिं तैरमृतमपहृतं दानवैर्विष्णुहस्तात् ॥ ८॥
दृष्ट्वा देवान् विषण्णान् हरिरतुलमरं मोहिनीरूपमास्था-
यान्योन्यं दस्युभावादुरुकलहरतान् दैत्यवर्यान् कटाक्षैः ।
गीर्भिश्चाऽमोह्य गृह्णन्नमृतमथ ददौ निर्जरेभ्यो निगृह्य
स्वर्भानुं व्याजरूपं कृतफलमखिलेभ्योऽददात् भक्तिगम्यः ॥ ९॥
गते च गरुडध्वजे त्रिदशदानवाश्चक्रिरे
रणं सुतुमुलं ततः सुरगणे च पर्याकुले ।
हरिः पुनरुपागतो निहतकालनेमिस्त्वहन्
सुमालिमुखदानवानपि च माल्यवन्तं रणे ॥ १०॥
शक्रेणाभिहतः पपात च बलिर्वज्रेण दैत्या हता
जम्भाद्या अथ नारदस्य वचसा शक्रो निवृत्तो रणात् ।
शुक्रस्तूर्णमजीवयद्रणहतान् मन्त्रेण पूर्णाङ्गकान्
दैत्यान् दैत्यगुरुर्बलिस्तु विजितो ज्ञानी न दुःखं गतः ॥ ११॥
योषिद्रूपं दिदृक्षुर्हरिपदमगमच्छङ्करः श्रीहरेस्तद्-
दृष्ट्वा चारामदेशे चलकुचयुगलं कन्दुकाघातलोलम् ।
कामावेगात् परिष्वज्य च पुनरुदितज्ञानतो भक्तिनम्रः
कैलासे सत्सभायां हरिमहिमकथामाबभाषे भवानीम् ॥ १२॥
ख्यातो वामन इत्यजायत हरिर्मन्वन्तरे सप्तमे
चक्रे याचनमष्टमादिषु तथा मन्वन्तरेष्वच्युतः ।
अंशेनावतरन् दधाति विविधं श्रीसार्वभौमादिकं
रूपं नाम च भक्तरक्षणपरो ह्येवं सदा श्रीहरिः ॥ १३॥
रक्षन्तो मनवः सुरा मनुसुता लोकत्रयं धर्मतो
वर्षन्तो धनधान्यपोषणपराः शक्रा हरिप्रेरिताः ।
वर्तन्ते श्रुतितत्त्वबोधनपराः सप्तर्षयश्च ब्रुवन्
ज्ञानं कर्म च योगमेष भगवानास्ते सलीलं प्रभुः ॥ १४॥
युद्धे शक्रहतो बलिर्भृगुसुतेनाजीवितो दैत्यराड्
भक्त्याऽऽराध्य भृगून् गुरूनयजत श्रीमान् जिगीषुर्दिवम् ।
यज्ञं विश्वजितं रथाद्यनलतो लब्ध्वा नतो भार्गवं
प्रह्लादं च युयुत्सुराप च दिवं भीताः सुराः धाविताः ॥ १५॥
भ्रष्टश्रीषु सुरेषु देवजननीं खिन्नां भृशं कश्यपः
प्रोचे देवि पयोव्रतेन विधिवच्छ्रीवासुदेवं भज ।
पूजातर्पणहोमदाननिरता ध्यानेन मन्त्रं जपे-
रेतत्प्रोक्तमजेन मे भवतु ते भद्रं हरिः प्रीयताम् ॥ १६॥
इत्युक्ता व्रतमन्वतिष्ठददितिः सा द्वादशाहं हरिः
प्रत्यक्षः स्तुत आह देवि सकलं जाने तवाकाङ्क्षितम् ।
भूत्वा ते तनयो ददामि सकलं कालं प्रतीक्षस्व भोः
प्रीतास्मीति तिरोदधेऽथ भगवान् गर्भं प्रविष्टोऽदितेः ॥ १७॥
शृण्वन् धातृनुतिं हरिः समजनि प्रीतस्तयोः पश्यतोः
पित्रोर्विप्रकुमारकोऽभवदयं छत्री वटुर्वामनः ।
तेजस्वी हयमेधवाटमविशद्भक्यादरात्पूजितः
प्रोक्तोऽभूद्बलिना ददामि सकलं यद्यद्भवानिच्छति ॥ १८॥
इत्युक्तो हरिराह ते नृप कुलं जानेऽत्र नो भीरवो
नादाताऽर्थिषु देहि भूमिमिह मे पादैस्त्रिभिः सम्मिताम् ।
लोकेशो वितरामि ते हितमिति प्रोच्चैर्वदन्तं बलिं
शुक्रः प्राह न देयमेष कपटो विष्णुर्हरेत्तेऽखिलम् ॥ १९॥
वाग्दत्तं तु ददामि नून मनृतं वक्तुं न शक्तोऽस्म्ययं
विष्णुश्चेत्सुकृती भवेयमहमित्युक्त्वाऽसुरः सादरम् ।
तत्पादाववनिज्य चेष्टमददाद्वर्णी विवृद्धोऽभवत्
पद्भ्यामेव विचक्रमे त्रिभुवनं कीर्त्त्याऽभिषिक्तोऽसुरः ॥ २०॥
विष्णोर्वै चरणावनेजनमरं धात्रा कृतं योगिनो
वेदाद्याश्च ववन्दिरे हरिमथो दैत्याः प्रविष्टा रसाम् ।
बद्धो दैत्यवरः खगेन हरिणाप्युक्तश्च मे दीयतां
तार्तीयीकपदं न चेद्दिशसि तल्लोकान् विशेर्नारकान् ॥ २१॥
एवं विप्रकृतो बलिः स्थिरमतिः प्रोचे तृतीयं पदं
मूर्ध्नि त्वं कुरु मे भयं न नरकादस्मद्गुरुस्त्वं हरे ।
प्रह्लादेन च वन्दितो हरिरुवाचाद्य व्रज ज्ञातिभिः
प्राह्लादे सुतलं सुभद्रमिह ते पश्येश्च मां रक्षकम् ॥ २२॥
मुक्तं तं बलिमाह गच्छ सुतलं त्वद्दुर्गपालोऽस्मि ते
तन्द्रारोगपराभवादि न भवेन्मन्वन्तरे चाष्टमे ।
इन्द्रस्त्वं भवितासि गच्छ सुमते प्रह्लाद पौत्रेण वो
भद्रं स्यादिति देवदानवसमो नाकं सुरेभ्यो ददौ ॥ २३॥
परं ज्ञानं सत्यव्रतनृपतये मत्स्यवपुषा
हरिर्दत्वा चक्रे नुतिकृतममुं सप्तममनुम् ।
हयग्रीवं हत्वा हृतनिखिलवेदानजमुखे
पुनर्निक्षिप्यैष त्रिभुवनसुरक्षां समतनोत् ॥ २४॥
अथ नवम स्कन्धः ९
सोऽयं वैवस्वतो वै मनुरभवदिलां तस्य पुत्रीं वसिष्ठ-
श्चक्रे पुत्रं कुमारः स तु वनमविशत्स्वैः सहेलावृतं च ।
तेन स्त्रीरूपमाप्तः शशिसुतबुधपत्नी च भूत्वा ततश्च
स्त्रीत्वं पुंस्त्वं च लब्ध्वा स वनमभिययौ त्यक्तराज्यस्तपोऽर्थम् ॥ १॥
नष्टे सुद्युम्न आर्तो मनुरकृत तपो दीर्घमिक्ष्वाकुमुख्यान्
लेभे पुत्रान् दशैको हतविधिबलतो धेनुहत्या पृषध्रः ।
राज्यान्निष्कासितोऽन्यः कविरिहविषये निःस्पृहस्त्यक्तसर्वः
सायुज्यं तौ गतौ द्वावितरमनुसुता लेभिरे पुत्रपौत्रान् ॥ २॥
शर्यातेरिष्टपुत्री च्यवनमुनिमतिक्रोधशीलं कृतान्धं
वृद्धं वव्रे सुकन्या पतिपरिचरणं भक्तिपूर्वं चकार ।
चक्राते देववैद्यौ मुनिमुरुकरुणौ नेत्रवन्तं युवानं
यज्ञे शक्रेण साकं मुनिरकृत तयोः सोमपानार्हतां च ॥ ३॥
नाभागादम्बरीषो हरिनिहितमतिर्जात एनं व्रतान्ते
हन्तुं दुर्वाससा च प्रकुपितमनसा प्रेषिता घोरकृत्या ।
तां दग्ध्वा विष्णुचक्रं मुनिमभिपतति स्मैष भक्तध्रुगार्तो
भीतश्चक्रानलात् स त्रिभुवनमखिलं पर्यटन् श्रान्तिमाप ॥ ४॥
नो पश्यन् क्वापि रक्षां हरिपदमभयं प्राप्तवान् श्रीहरिस्तं
प्रोचे याह्रम्बरीषं भज शरणमृषे रक्षिता त्वां स राजा ।
श्रुत्वेत्थं भूपमाप्तो मुनिरभयमहो चक्रबाधाविमुक्त-
स्तत्कारुण्यं स जानन् हरिभजनमहत्वं च शंसन् व्यचारीत् ॥ ५॥
इक्ष्वाकुः ख्यात आसीद्दशसु मनुसुतेष्वस्य पुत्रो विकुक्षि-
स्तत्पुत्रस्त्विन्द्रवाहः शृणु नृप युवनाश्वोऽत्र गर्भं दधार ।
मान्धातारं प्रसूते स्म च तनयमहो वव्रिरे तस्य पुत्र्यः
पञ्चाशत् सौभरिं तं पतिमथ तपसे निर्गतास्तेन साकम् ॥ ६॥
देहेनैव त्रिशङ्कुस्त्रिदिवमपि गतः कौशिकानुग्रहेण
प्रीतस्तेनास्य पुत्रोप्यभवदुरुगदः श्रीहरिश्चन्द्रनामा ।
क्रीतोऽभूद्येन बालः क्रतुपशुरवशस्तं त्वजीगर्ततश्च modified
बालं भूपाच्च मन्त्रैर्वरुणकरुणयाऽमोचयन्मन्त्रकृत् सः ॥ ७॥
वंशेऽस्मिन् सुप्रसिद्धः सगरनरपतिस्तस्य यज्ञाश्वमाहृ-
त्येन्द्रोऽगाद्राजपुत्राः कपिलमुनिसमीपेऽश्वमेनं च दृष्ट्वा ।
तन्निन्दाग्नौ प्रदग्धाः सगरसुतसुतस्त्वंशुमांस्तं ववन्दे
तद्वाचाश्वेन पूर्णः क्रतुरयमभिषिक्तोऽम्शुमांस्तत्र राज्ये ॥ ८॥
पौत्रस्त्वंशुमतो भगीरथ इति ख्यातश्च भस्मीकृतान्
पूर्वान् दीर्घतपाः क्षमी सुरनदीस्पर्शाद्दिवं प्रापयन् ।
मुक्तिं प्राप तदन्वयेऽथ गुरुणा शप्तः सुदासात्मजो
रक्षोऽभूदथ मुक्तिमाप च ततः खट्वाङ्गनामाऽभवत् ॥ ९॥
भानोर्वंशे हरिरथ भरतो लक्ष्मणोंऽशेन जज्ञे
शत्रुघ्नोऽप्यार्यवाचा वनमनुजवधूसंयुतश्चैष गत्वा ।
सीताहर्तारमस्त्रैरनुजमपि निहत्याखिलैर्वातजाद्यै-
रन्ते प्राप्तस्त्वयोध्यां नगरमधिवसन् राजधर्मानकार्षीत् ॥ १०॥
सन्तुष्टा अभवन् जना भुवि नृपे रामे न धर्मच्युतिः
सीता दुर्जनभाषितेन विपिने त्यक्ता विशुद्धा सती ।
वाल्मीक्याश्रमतः सुतौ च सुषुवे सर्वेषु पश्यत्सु सा
भूद्वारं प्रविवेश यज्ञमकरोद्रामः सदाराधितः ॥ ११॥
वंशेऽत्र भूपतिवरा बहवः किलैष
नश्येत् सुमित्रनृपतिश्चरमो भवेच्च ।
एकोऽत्र जैमिनिमुनेः प्रियशिष्यभावाद्-
योगी बभूव विदितश्च हिरण्यनाभः ॥ १२॥
इक्ष्वाकोस्तनयो निमिः कुलगुरोः शापान्मुदा त्यक्तवान्
देहं सर्वविलोचनेषु च निमेषोन्मेषणे कारयन् ।
आस्ते त्यक्तशरीरमस्य मथितं जातस्ततो भूपतिः modified
नाम्नासौ मिथिलः पुरी च मिथिला तस्याऽत्र सीताऽजनि ॥ १३॥
ताराचन्द्रमसोः सुतो बुध इलां चक्रे प्रियां मानवीं
तत्पुत्रश्च पुरूरवा उदवहत्स्वःसुन्दरीमुर्वशीम्म् ।
तं त्यक्त्वा च जगाम सा स तु चरन्नुन्मत्तवत्सर्वत-
स्तद्वाचाऽथ निवृत्त एव च यजन् गन्धर्वलोकं ययौ ॥ १४॥
जातः श्रीजमदग्नितो भृगुकुले चैलस्य वंशे हरी-
रामस्तस्य सवत्सधेनुमहरत् श्रीकार्तवीर्यार्जुनः ।
हत्वा कृत्तसहस्रहस्तकममुं प्रत्यानयद्गां स च
प्रोचे तं जनकः क्षमां कुरु सदा पूज्यो द्विजः स्यात्वया ॥ १५॥
जघ्नुस्तेऽर्जुनपुत्रकाश्च पितरं रामस्य वैरेण तान्
हत्वा क्षत्रियदुष्टनिग्रहकरस्त्रिःसप्तकृत्वः पुनः ।
रामः सर्वमयं मखैरयजत क्षेमाय लोकस्य स
प्रीतः शान्तमनास्तपः कृतयशा आस्ते महेन्द्राचले ॥ १६॥
आयुश्चैलसुतस्ततो रजिरयं वीरः सुराभ्यर्थितो
दैत्यान् नाकपदापहारनिरतान् हत्वा सुरैर्मानितः ।
प्रह्लादाद्यरिशङ्कितेन हरिणा न्यस्तं नृपश्चाऽददे
स्वाराज्यं जनके मृते प्रतिददुः पुत्रा न तत्ते हताः ॥ १७॥
दैवात् सन्दृष्टकूपोद्धृतभृगुकुलजामुद्वहन् देवयानीं
शर्मिष्ठासङ्गदोषात् श्वशुरमुनिवरादाप्तशापो ययातिः ।
वृद्धो भूत्वाऽथ पृष्टादलभत तनयाद्यौवनं तस्य दत्वा
वार्धक्यं चेद्धकामो रतिसुखरसिको वासुदेवं समीजे ॥ १८॥
ऊचे भूपः स्वपत्नीमज इव रतिभोगैकतृष्णोऽस्मि हा हा
भोगैः कामः प्रवृद्धो भवति न तु शमं याति नूनं मुमुक्षुः ।
स्त्रीभिः सङ्गं न कुर्यादहमिह विपिनं यामि भद्रं तवास्त्वि-
त्युक्त्वा गच्छन्नरण्यं हरिभजनरतः सर्वमुक्तो बभूव ॥ १९॥
पूरोः कुले बहुषु राजसु कीर्तिशाली
दौष्यन्तिरेव भरतो महितस्त्रिलोके ।
पत्नीभिरात्मतनयेषु हतेषु धीरः
सर्वं मृषेत्युपरराम स भूपवर्यः ॥ २०॥
वंशेऽस्मिन् रन्तिदेवो नृपतिरुरुकृपः क्लेशलब्धं स्वभक्ष्यं
पेयं च क्षुत्पिपासाविवशतरनृणां स्नेहपूर्वं प्रदाय ।
दुःखान्मुक्तस्त्रिलोको भवतु भवतु मे सर्वदुःखं तदेमी-
त्युक्त्वा दृष्ट्वा त्रिमूर्तीन् विधिहरिगिरिशान् भक्तिपूर्वं ननाम ॥ २१॥
श्रीशन्तनुः पूरुकुले प्रसिद्धस्तद्वंशजाः पाण्डुसुता महान्तः ।
तन्मध्यमो जिष्णुरतोऽभिमन्युस्तस्माद्भवान् पौरव एव सत्वम् ॥ २२॥
द्रुह्रुश्व तुर्वसुरनुश्च यदुर्ययातेः
पुत्रा यदोर्ननु कुलं सुतरां पवित्रम् ।
श्रीकृष्णजन्म यत एव पुमान् स्मरंस्तत्
प्राप्नोति चिन्मयपदं शिथिलीकृताघः ॥ २३॥
जातोऽभून्मधुरापुरे हरिरजः शौरेः सुतो गोकुलं
कृत्वा पावनमर्जुनोद्धवगुरुः संहृत्त्य भूमेर्भरम् ।
त्यक्त्वा देहमगात् स्वधाम भगवान् यः पाति भक्तान् सदा
यल्लीलाश्रवणेन भक्तहृदयं सच्चित्सुखं प्राप्स्यति ॥ २४॥
अथ दशम स्कन्धः १० (पूर्वार्धः)
पृष्टो राज्ञाऽऽह कार्ष्णिर्न खलु नृप हरे जन्म कर्मापि सर्वं
लीलास्तस्यैतदास्तां निजरिपुजननीं सोदरीं हन्तुकामः ।
कंसो रुद्धो निवृत्तः श्रुतविधिसुतवाग्देवकीपुत्रषट्कं
हत्वाऽबध्नाद्गृहे तां पतिमपि मधुरामेकनाथः शशास ॥ १॥
शेषः सप्तमगर्भतः खलु शिशुर्नीतो हरे मायया
रोहिण्या उदरेऽर्पितश्च भगवान् भारं जिहीर्षुभुवः ।
देवक्या जठरं विवेश भगिनीं दृष्ट्वाथ तेजस्विनीं
कंसे विष्णुभयार्दिते सुरगणैर्भक्त्या स्तुतोऽभूत् हरिः ॥ २॥
काले मङ्गलशोभिते निशि हरिः पित्रोः पुरस्ताद्गृहे
दृष्टः शङ्खगदारिपङ्कजधरस्तुष्टः पितृभ्यां नुतः ।
बालाऽशेत पिता सुतं करगतं तीर्त्वा नदीं च व्रजं
गत्वा तत्र निधाय नन्दतनयां धृत्वाऽऽर कारागृहम् ॥ ३॥
कंसः पोथयति स्म तामधिशिलं बालां दिवं प्राप्य सा
सद्यः प्राह रिपुस्तवाजनि भुवीत्युक्त्वाऽम्बिकान्तर्दधे ।
शौरिं भोजपतिर्मुमोच भगिनीं कारागृहाद्बालकान्
हन्तुं दैत्यगणं न्ययुङ्क्त च पुनदुर्मन्त्रिभिः प्रेरितः ॥ ४॥
नन्दस्त्वात्मजलाभतुष्टह्मदयः कर्माणि चक्रे शुभान्
यायाताः शिशुदर्शनैकमनसः पुत्रोत्सवाघोषिणः ।
गोपीगोपजना उपायनकराः सम्मानिता वार्षिकं
कंसायैष करं ददौ व्रजपतिः शौरिं ददर्श प्रियम् ॥ ५॥
मन्दस्मेराद्र्रवक्त्रा शिशुमधिकविषं पाययन्ती स्तनं स्वं
पीतं प्राणाट्टहासैर्गलदसुरभवद्भीतिदा पूतना सा ।
देहे दग्धे तु धूमेऽप्यगरुसुरभिले विस्मिता गोपसङ्घाः
गोप्यः कर्माणि चक्रुर्हरिभजनरता बालरक्षार्थकानि ॥ ६॥
बालस्त्रैमासिकोऽनो मृदुपदतलतः पाटयन् हा तृणाव-
र्ताख्यं कण्ठे गृहीत्वा नभसि सुररिपुं वातरूपं निगृह्य ।
मुक्तं चक्रे जनन्यै निजवदनतले दर्शयन् विश्वमेतत्
सर्वै लीलाभिरेवं व्रजजनमखिलं मोदयन् लालितोऽभूत् ॥ ७॥
रामं कृष्णं च नाम्नाऽकुरुत मुनिरुभौ तत्र कृष्णस्तु धावन्
वत्सैः क्रीडंश्च शृङ्गिद्विजसलिलशितास्यादिभिर्मङ्क्षु गच्छन् ।
भोक्ता क्षीरादि दत्तं प्रतिभवनमदत्तं च मोष्टा जनन्यै
मृद्भक्षोत्कण्ठितायै विवृतनिजमुखे दर्शयामास विश्वम् ॥ ८॥
मथ्नन्ती जननी दधि स्वशिशवे स्तन्यं ददाना जवा-
दुत्सृज्यैनमगादयं तु कुपितः पात्रं बभञ्जाश्मना ।
साऽऽयाता तु विलोक्य तत्स्मितमुखी यष्टिं गृहीत्वा पुन-
स्त्यक्त्वा बालमुलूखले सकरुणं दाम्ना च बद्ध्वा गता ॥ ९॥
पुत्रौ वैश्रवणस्य नारदमुनेर्वाचा द्रुमत्वं गतौ
नाम्ना यौ नलकूबरोऽपि च मणिग्रीवः पुरा तस्थतुः ।
कृष्णोलूखलमर्दधूतचरणौ वृक्षौ पतित्वा भुवि
स्तुत्वा त्वत्पदभक्तिमेव सततं देहीत्यमू जग्मतुः ॥ १०॥
श्रुत्वाऽऽयाता द्रुपातारवमखिलजना विस्मितास्ते फलानि
क्रीत्वा कृष्णो दरिद्रामकृत धनवतीं दत्तरत्नः सरामः ।
गत्वा वृन्दावनान्तं सह सुहृदजितो वत्सपालो वनान्ते
हत्वा दैत्यौ च वत्सं बकमपि विबुधैर्नन्दजो नन्दितोऽभूत् ॥ ११॥
कृष्णो गोपकुमारकाश्च विपिने क्रीडैकलोला गुहा-
बुध्या ते शयुरूपिणोऽघदनुजस्यास्यं प्रविष्टा जवात् ।
देवानां मिषतां गतासुरसुरः सायुज्यमुक्तिं गतो
बालाश्चापि मृताः पुनर्भगवतो दृष्ट्या त उत्थापिताः ॥ १२॥
कृष्णे गोपैः समेतेऽदति कबलमजो माययाऽऽच्छाद्य वत्सान्
गोपांश्च व्योम्नि तस्थावथ हरिरदधाद्गोपवत्सादिरूपम् ।
द्वेधा वत्सांश्च गोपान् शतधृतिरितरत्रापि पश्यन् विमोहाद्-
भूयो दृष्ट्वा च सर्वं हरिमयमुदितोत्कण्ठमस्तौद्विनम्रः ॥ १३॥
नौमीड्याभ्राभकृष्णं करधृतमुरलीवेत्रशृङ्गं ममाघः
सर्वं भूमन् क्षमस्व प्रभुरसि जगतां देव भूयो नमस्ते ।
एवं स्तुत्वा गतेऽस्मिन् सरसमुपविशन् गोपसङ्घैः समेतो
भुक्त्वा क्रीडन् हरिः स्वैः कथितनिजयशा वन्यभूषो निवृत्तः ॥ १४॥
गोवत्सैः सहितस्तु धेनुकवनं प्राप्तो बलो लीलया
तालान् कम्पयति स्म धेनुकमहादैत्यं खरं सानुगम् ।
हत्वा तालफलानि वै निजसुहृद्भ्योऽदात् स्तुतः स्वानुगैः
कृष्णेन त्रिदशैश्च सायमटवीतोऽयं निवृत्तोऽभवत् ॥ १५॥
कालिन्दीविषतोयपानमृतगोगोपान् कटाक्षैर्निजै-
रुत्थाप्यात्र जले निपत्य विहरन् सङ्क्षोभयन् कालियम् ।
कृष्णः कङ्कणकिङ्किणीकलरवैर्नृत्यन् फणेषूद्धतं
चक्रे वान्तविषं नतं च भगवान् नागीभिरुच्चैः स्तुतः ॥ १६॥
पत्नीभिः सह कालियो रमणकद्वीपं गतः श्रीहरेः
पादस्पर्शविधूतगारूडभयो सा निर्विषाऽभून्नदी ।
पित्रोरन्तिकमागतश्च भगवानूषुश्च रात्रौ वने
गोपास्तं भयदं वनाग्निमपिबत्कृष्णो जगत्पालकः ॥ १७॥
द्वन्दीभूय यथायथं च सुहृदो लीलारणं चक्रिरे
जेतॄनूहुरयं जिता इह मिथः कृष्णः सखायं जितः ।
श्रीदामानमधत्त तत्र विजितो दैत्यः प्रलम्बो वहन्
रामं तूर्णमधावदेनमवधीद्रामः सुरैः पूजितः ॥ १८॥
गावः क्रीडनलोलुपेषु निखिलेष्वाप्ताश्च मुञ्जाटवीं
सद्यः काननवह्निमेव परितो दृष्ट्वा भयाकम्पिताः ।
कृष्णो मीलितलोचनेषु सकलेष्वापीय दावानलं
भाण्डीरं च निनाय ता उरुकृपो गोपा भृशं विस्मिताः ॥ १९॥
वर्षर्तौ गगनं घनावृतमपो भूमाववर्षद्यथा
कृष्णो भक्तजने कटाक्षमचला वर्षेण नो बाधिताः ।
भक्ताश्च व्यसनै यथा शरदृतौ निर्मेघमभ्रं मनो
भक्तानामिव राजते स्म हरिणा चानन्दितं गोकुलम् ॥ २०॥
कृष्णो रामेण सार्धं शरदृतुकुसुमालङ्कृतो वेणुगीतै-
र्गोवत्सान् गोपबालान् हरिणखगनगान् किञ्च गोवर्धनार्द्रिम् ।
सर्वांश्चानन्दयामास च कलनिनदैर्गोपनार्यस्तु कृष्णं
स्मारं स्मारं सकामाः प्रतिदिनममला वर्णयन्त्यो बभूवुः ॥ २१॥
हेमन्ते किल गोपिका भगवतीं सम्पूज्य सम्प्रार्थयन्
कृष्णो मे पतिरस्तु सुन्दर इति श्रद्धाविशुद्धान्तराः ।
ता ज्ञात्वा च शरीरमानरहिता वस्त्रापहारेण स
प्रोचे रात्रिषु वः स्पृहाः शरदृतौ साध्या इतो गच्छत ॥ २२॥
क्षुत्पीडाहतगोपबालकगणैरन्नं द्विजा याचिता
न प्रत्यूचुरतः स्त्रियः ससुहृदे कृष्णाय गत्वा वनम् ।
बह्वन्नं प्रददुस्तदा पतिनिरुद्धैका शरीरं विहा-
याप्ता तत्पदमृत्विजः सुमनसः प्रत्युद्ययुस्ताः स्त्रियः ॥ २३॥
कृष्णो दृष्ट्वेन्द्रयागोत्सुकमखिलजनं नन्दमूचे पितः किं
कर्तासीन्द्रेण नः किं भवतु गिरिमखः पूज्यतां विप्रसङ्घः ।
गोपाश्चक्रुर्यथोक्तं सकलमचलरूपोऽघसत् स्थूलकायः
कृष्णो दत्तं बलिं तैर्गिरिवरमनमन् सादरं ते सकृष्णाः ॥ २४॥
ज्ञात्वेदं कुपितो वृषा स्ववचसा गोपांश्च निन्दन् हरिं
मेघान् प्रेरयति स्म वर्षजलतो गोगोपकाः पीडिताः ।
कृष्णश्छत्रमिवोद्वहन् गिरिवरं सप्ताहमासारतः
सर्वान् पालयति स्म वृत्ररिपुणा मेघास्ततो वारिताः ॥ २५॥
पृष्टो नन्द उवाच विस्मयवतो गोपान् कुमारं प्रति
श्रीगर्गो मुनिराह विष्णुसदृशो बालोऽयमस्याऽश्रिताः ।
शत्रोर्बिभ्यति नो पुरा च वसुदेवस्यात्मजोऽयं सतो
रक्षन् कर्म सदा करोति विविधं ज्ञेयश्च न स्यादिति ॥ २६॥
लज्जानम्रमुखो वृषा हृतमदः प्राप्तो व्रजं नन्दजं
स्तुत्वा प्राणमदच्युतस्य मधुरालापेन चाऽश्वासितः ।
गोविन्दं पयसाऽभ्यषिञ्चदधुना श्रीकामधेनुस्तदा
सर्वे तुष्टुवुरच्युतं समभवत्सर्वत्र सन्मङ्गलम् ॥ २७॥
एकादश्युपवासिनं व्रजपतिं स्नातं जले चासुरो
लोकं वारुणमानयद्धरिरपि प्रत्यानयत्तं व्रजम् ।
गोपानां च सनातनं निजपदं सत्यं परं दर्शितं
कृष्णेन व्रजवासिनः पररसे मग्नास्ततश्चोद्घृताः ॥ २८॥
वृन्दारण्ये दिनान्ते शशिकरधवले वेणुगीतैः स्मरार्ता
गोपीराहूय कृष्णः पतिगृहसुतदेहादिकं विस्मरन्तीः ।
निस्सङ्गो योगमायी स्मरविजयमहानाटके मारलीलाः
कुर्वन्नानन्दयामास स सुभगतया चोन्मदास्ता बभूवुः ॥ २९॥
कृष्णश्चान्तर्दधे तत्क्षणमतिविवशा वृक्षवल्लीमृगादीन्
पप्रच्छुः किं सुहृद्वो नयनसुमधुरो गोपिकाचित्तचोरः ।
यत्र क्वापीह दृष्टः स इति यदुवरान्वेषणव्यग्रचित्ताः
श्रीकृष्णाराधिकां ता ददृशुरपि जगुः कृष्णमुच्चै रुदन्त्यः ॥ ३०॥
दयित तव कथाम्भस्नानशुद्धा वयं त्वं
व्रजजनभयहन्ता दृश्यसे न क्व गन्ता ।
अधरमधुरसो नो दीयतां ते करौ नः
शिरसि किमु निधेहि त्वत्सुखान्नः सुखं स्यात् ॥ ३१॥
तासामाविरभून्मृदुस्मितमुखः पीताम्बरो माधव-
स्ताभिस्तत्र निषण्ण आह दयिताः श्रान्ता भवत्यो वृथा ।
युष्माभिःसममासमत्र न मया त्यक्ता भवत्यो ध्रुवं
न त्यक्ताः स्युरिदं कृतं तु मयि वः सत्प्रेमपुष्ट्यै भृशम् ॥ ३२॥
एवं ताः स तु सान्त्वयन् मधुरवाग्लीलाविलोलः स्वयं
प्रत्येकं किल गोपिकासु मिलितः सम्बद्धबाहुर्मिथः ।
गाढालिङ्गनचुम्बनादिभिरयं सम्पूजितो नर्तकः
कूजन्नूपुरकङ्कणाः स्वरतिरेवाऽनन्दयद्गोपिकाः ॥ ३३॥
गोपाः सादरमम्बिकावनमुपेत्यानर्चुरम्बां शिवं
नन्दं मोचयति स्म सर्पमुखतः कृष्णः स विद्याधरः ।
हित्वा सर्पवपुः स्तुवन् हरिमगात्स्वर्गं व्रजस्त्रीमुषं
हत्वा गुह्यकमाहृतं हरिरदाद्रामाय चूडामणिम् ॥ ३४॥
कृष्णे याते वनं ता विरहतरलिताः सञ्जगुर्गोपनार्यो-
लीलागोपालवेषं खगमृगसरितो बालवल्यश्च दिव्याः ।
नेत्रश्रोत्राभिरामं सुमधुरमुरलीलोलमालोकयन्ति
स्फीतानन्दं दिवा स व्रजशुभकृदयं दर्शनीयः सुपुण्यैः ॥ ३५॥
दैत्येऽरिष्टे ककुद्मत्यजितकरहते सादरं कंसमेत्य
प्रोक्तं श्रीनारदेन व्रजभुवि वसतो रामकृष्णौ रिपू ते ।
विध्येतौ शौरिपुत्रौ कलय हितमिति प्रोच्य याते मुनौ स
प्राहाक्रूरं रिपू मे पुरमिह वसुदेवात्मजावानयेति ॥ ३६॥
दैत्यं केशिनमश्वरूपमवधीत् कृष्णोऽथ देवर्षिणा
प्रोक्तस्त्वं जगतां पतिः कुरु विभो भूमिं समाश्वासिताम् ।
द्रक्ष्याम्यर्जुनसारथिं यदुपते तुभ्यं नमोऽस्त्वित्ययं
यातः कश्चिदथासुरो मयसुतो व्योमो हतः शौरिणा ॥ ३७॥
अक्रूरः कंसवाक्यादुषसि रथवरेणैव गच्छन् स्वकीयं
भाग्यं सञ्चिन्त्य कृष्णस्मृतितरलहृदा नन्दगेहे प्रदोषे ।
दृष्ट्वा रामं च कृष्णं प्रमुदितहृदयस्तत्पदान्ते प्रणम्य
द्वाभ्यामालिङ्गितः सन् व्रजविभवरसैः सादरं मानितोऽभूत् ॥ ३८॥
त्यक्त्वा नो याति कृष्णः प्रति मधुपुरमित्याकुला गोपनार्यो
गायन्त्यः कृष्णनाम प्रियविरहशुचा सास्रमुच्चैर्विलेपुः ।
अक्रूरो बालकाध्यासितरथमनयत्सूरजायां स भक्तो
मज्जन् पश्यन्ननन्तं तदुपरि कमलानाथमप्येवमस्तौत् ॥ ३९॥
भूमन् नौमि भवन्तमादिपुरुषं त्वन्नाभिपद्मोत्थितो
ब्रह्मा लोकपितामहोऽपि भवतो रूपं न जानात्यहो ।
नानारूपधरोऽर्पितं सकलमप्यादाय कारुण्यतो
भक्तानां च हितं ददासि खलु मां पाहि प्रपन्नं प्रभो ॥ ४०॥
कृष्णोऽक्रूरेण नीतो मधुपुरमखिलैः पूजितः संस्तुतः सन्
पृष्टं चादत्तवस्त्रं रजकमुरुमदं रूक्षवाचं निहत्य ।
वस्त्राण्यादाय भक्ते प्रकटितकरुणो वायके वासगेहं
गत्वा तुष्टः सुदाम्नो बलधनसुखकीर्त्यादि सर्वं ददौ च ॥ ४१॥
गच्छन्नङ्गविलेपदानमुदितः कुब्जां जगन्मोहिनीं
कृत्वा काममवाप्स्यसीति विसृजन्नेतां वणिग्भिः पथि ।
नानोपायनतोऽर्चितः स धनुषः स्थानं समेत्याच्युत-
स्तत्सज्यं प्रबभञ्ज कंसहृदये भीतिं च संवर्द्धयन् ॥ ४२॥
मञ्चारूढेषु नन्दादिषु च समुपकर्ण्यारवं मल्लरङ्गाद्-
रङ्गद्वारं गतः सन् निहतकुवलयापीडनागो नृसिंहः ।
कृष्णस्तद्दन्तपाणिः सदसि बहुजनैर्भिन्नभावेन दृष्ट-
श्चाणूरोक्तः सरामः समरभुवि विभुर्मल्लवेद्यां व्यलासीत् ॥ ४३॥
चाणूरे निहते रणेऽत्र हरिणा रामोऽप्यहन् मुष्टिकं
कूटाद्येषु हतेषु कंसनृपतिं जल्पन्तमुच्चै रुषा ।
मञ्चादाशु निपात्य तं भुवि हरिः संहृत्य संसारत-
श्चक्रे मुक्तमसान्त्वयच्च विधवाः पित्रोरगाच्चान्तिकम् ॥ ४४॥
बद्धांस्तत्र निरागसोऽपि स जनान् कारागृहान्मोचयन्
कृत्वा भूपतिमुग्रसेनमजितो नन्दं निवर्त्य व्रजम् ।
विद्यां ज्ञाननिधिस्त्ववाप्य च गुरोः सान्दीपने दक्षिणां
दत्वाऽस्मै सुतमाहृतं यमपुरात्प्राप्तः स्वकीयं गृहम् ॥ ४५॥
धीमान् भक्तवरो हरेर्वचनतो गत्वा व्रजं चोद्धवो
नन्दं सादरमर्चितः सुतवियोगार्तौ यशोदामपि ।
प्राहास्ते नगरे हरिः सुखमिहाप्यस्माकमन्तर्बहि-
र्नायं वां सुत ईश्वरो न च वियोगोऽनेन वां स्यादिति ॥ ४६॥
गोपीः कृष्णैकचित्ता विरहतरलिताः कृष्णसन्देशवाक्यं
संश्राव्याश्वास्य चायं हरिमहिमकथा वर्णयन् मोदयित्वा ।
तृप्तः प्रस्थापितश्च व्रजजननिवहैरुद्धवः स्नेहपूर्वं
गोपीपादाब्जरेणुं सविनयमभिवन्द्यागतो वृष्णिदेशम् ॥ ४७॥
सैरन्ध्रीं स्मरतापितां हरिरगात्कामोपभोगैरिमां
निस्सङ्गः समतर्पयच्च भगवानक्रूरगेहं गतः ।
सन्तुष्टं तमुवाच - हस्तिनपुरं गत्वा च पार्थान् पृथां
दृष्ट्वा नः कथयाशु तत्स्थितिममी रक्ष्या मया सर्वथा ॥ ४८॥
गत्वा हस्तिपुरं च भीष्मविदुरौ दृष्ट्वा पृथां दुखितां
पार्थान् कृष्णकटाक्षशीर्णकदनानन्धं च भूपालकम् ।
ज्ञात्वा तद्गरदानकर्म विमना राज्ञे हितं प्रोच्य स
प्रत्यागत्य सुधीर्न्यवेदयदरं कृष्णाय सर्वाण्यपि ॥ ४९॥
अथ दशम स्कन्धः १० (उत्तरार्धः)
कृष्णद्वेषी चिकीर्षुर्भुवमयदुकुलां मागधो भीमसैन्यै-
रायातः पिष्टसैन्यो रणभुवि हरिणा चाग्रजेनापि मुक्तः ।
एवं युद्धेषु भूयो बहुषु सहबलो भग्नदर्पोऽभवत्सः
द्वीपेऽथ द्वारकाख्ये यदुजनमनयत् सत्पुरं वासुदेवः ॥ ५०॥
शक्राल्लब्धवरं चिराय मुचुकुन्दाख्यं प्रसुप्तं पदा
युद्धार्थी यवनस्तताड हरिबुध्यैष क्षणादुत्थितः ।
दग्ध्वा तं नयनाग्निनाऽथ करुणासिन्धुं स दृष्ट्वा हरिं
स्तुत्वा चानुगृहीत एव बदरीं गत्वा च चक्रे तपः ॥ ५१॥
आप्तो विप्रः कदाजिद्धरिमवददहं कुण्डिनादागतस्त्वं
सन्देशं राजपुत्र्याः शृणु महितगुणैस्तेऽनुरक्तां त्वदीयाम् ।
अत्रागत्य प्रभो मां स्वबलिमिव हरेः केसरी भूपवर्यान्
निर्मथ्येमां त्यजश्चेद्व्रतकृशमचिराद्देहमेतं विजह्याम् ॥ ५२॥
रुक्मिण्या वाक्यामेतद्यदुपतिरुपकर्ण्याशु वैदर्भराज्यं
सम्प्राप्तो मानितोऽभूद्विजवरवचनै रुक्मिणी तोषिता च ।
क्षेत्रस्यान्तः प्रविष्टां द्रुतमयि कुरु मां देवि कृष्णस्य पत्नी-
मित्थं सम्प्रार्थ्य यान्तीं बहिरहरदिमां कन्यकां वासुदेवः ॥ ५३॥
रुद्धः कृष्णः सकन्यः समरभुवि जरासन्धमुख्यैर्जितास्ते
भीताश्चाश्वास्य चैद्यं प्रतिययुरबलाः स्वस्वगेहानि भूपाः ।
रुक्मी युद्धे विरूपोऽक्रियत हरिरथो भीष्मकस्यात्मजां ता-
मानीय द्वारकायां विधिवदुदवहन्मोदमापुश्च सर्वे ॥ ५४॥
वैदर्भीतनयो हृतो जलनिधौ क्षिप्तोऽरिणा शम्बरे-
णायं सूदवरैस्तु मीनजठरे दृष्टः शिशुश्चाक्षतः ।
रत्या पोषित एव नारदगिरा प्रद्युम्ननामा युवा
हत्वा तं दितिजं तया सह निजं गेहं पुनश्चागतः ॥ ५५॥
मार्ष्टुं स्वीयमृषापवादमजितो गच्छन् प्रसेनं वने
सिंहं चापि मृतं निरीक्ष्य समरे सन्तोषितर्क्षाधिपः ।
गृह्णन् जाम्बवतीं स्यमन्तकमपि प्रीतोऽथ सत्राजिते
तद्रत्नं प्रददौ तदर्पितवधूं भामां स जग्राह च ॥ ५६॥
सत्राजिच्छतधन्वनोश्च मरणं पार्थानुभूता विपत्
श्वाफल्केर्वहतो मणिं च सभयं कुत्राप्यहो जीवनम् ।
रामस्यानुजविप्रयोगमिथिलावासौ च दुःसङ्गता
सर्वा एव परम्परा हि विपदामर्थैकमूला नृप ॥ ५७॥
कालिन्दीं सूर्यकन्यां चिरकृततपसं मित्रविन्दामवन्तीं
वीराग्र्यः सप्तमूर्तिर्युगपदतिबलान् गोवृषान् सप्त बद्ध्वा ।
सत्यां भद्रां च दत्तामथ निजसहजैः सायकैर्विद्धलक्ष्यो
धन्वी तां मद्रकन्यामुदवहदजितो लक्ष्मणां चापि मुग्धाम् ॥ ५८॥
भित्वा दुर्गाणि शस्त्रैर्मुरमपि नरकं सत्यभामाद्वितीयो
हत्वा स्वर्गं गतः सन्नसुरहृतमदात्कुण्डलं देवमात्रे ।
हृत्वा तत्पारिजातं नरकभवनतो मोचिताश्चानुरक्ता-
स्तावद्रूपी त्वसक्तोऽप्युदवहदयुतं षट्सहस्रं स कन्याः ॥ ५९॥
पत्नीं प्राह हरिः कदाचिदनघे वैदर्भि मे पौरुषा
वित्ताद्याश्च गुणा न सन्ति गुणवान् भूपस्त्वया गम्यताम् ।
पत्न्या नाशितगर्वया तु कथितं वित्तं भवान् सर्वदा
सर्वेषामभयं शरण्य इति च प्रेम्णाथ साऽऽलिङ्गिता ॥ ६०॥
पत्नीनां भावहावादिभिरमथितहृन्निःस्पृहोऽभूदसङ्गः
कृष्णो जाताश्च तासां दश दश तनयाः पुत्रिणस्तेऽप्यभूवन् ।
प्राद्युम्ने रोचनाया उपयमसदसि द्यूतवैराद्धतोऽभूद्-
रुक्मी क्रुद्धेन रामेण तु परिहसितेनारिवर्गा अधावन् ॥ ६१॥
बाणाख्यस्तु सहस्रबाहुरसुरश्चक्रे प्रसन्नं शिवं
स्वप्ने तत्तनयाऽनिरुद्धमनुभूयोषा प्रबुद्धा पुनः ।
आक्रन्दद्विरहेण चित्ररचने दक्षा सखी चित्रले-
खाऽऽज्ञायैनमथानिनाय पुरुषं कामिन्युषा तोषिता ॥ ६२॥
बद्धो वीरोऽनिरुद्धो युधि बलितनयेनाच्युतो वृष्णिवीरै-
र्युद्धे जित्वा शिवं च ज्वरमसुरकरच्छेदनोत्कण्ठितेन ।
रुद्रेण प्रार्थितः सन् करयुगमुभयत्रापि शिष्टं तु कृत्वा
भक्तं तं चानुगृह्य स्वसुतसुतमुषां चापि लब्ध्वा निवृत्तः ॥ ६३॥
इक्ष्वाकोस्तनयो नृगः सुचरितः कर्मैकदोषात्पतन्
प्राप्तः सन् कृकलासजन्म हरिणा स्पृष्टोऽथ दिव्याकृतिः ।
उक्त्वा स्वीयकथां हरिं कृतनुतिर्नत्वा परिक्रम्य तं
प्राप्तो नाकमुपादिशद्विजजने भक्तिं यदूनां हरिः ॥ ६४॥
रामो गोकुलमाप गोपसुहृदः प्रीत्या परिष्वज्य तं
पप्रच्छुः कुशलं नमन् स पितरौ नन्दं यशोदामपि ।
गोपीः कृष्णवियोगतापतरला आनन्दयन् रात्रिषु
प्रीतः सूर्यसुतां चकर्ष हलतः कान्त्या च सम्मानितः ॥ ६५॥
कृष्णोऽस्मीति सदा विचिन्त्य मनसा दुस्सङ्गतः पौण्ड्रको
मूढः कृत्रिमकृष्णवेषमदधाद्युद्धाय तं चाह्वयत् ।
कृष्णेनैष हतो रणेऽथ सुकृती सारूप्यमुक्तिं गतो
मर्त्यः कृष्णनिरन्तरस्मृतिबलात्सायुज्यमाप्नोति हि ॥ ६६॥
कश्चित्कपिर्द्विविदनामक आर्त्तिकारी
सत्कर्मिणां नरकमित्रमरिर्मुरारेः ।
वृक्षच्छिदुत्पथग उद्धत एव रामं
निन्दन्ननेन दृढमुष्टिहतो मृतोऽभूत् ॥ ६७॥
साम्बः कृष्णसुतः सुयोधनसुतां हर्तुं प्रवृत्तो रणे
बद्धः कौरवपुङ्गवैरथ बलो यातः कुरूणां पुरम् ।
क्रुद्धः कौरवनिन्दितः करिपुरं चोद्धर्तुकामः स्तुतः
साम्बं मोचयिता वधूं च बलवान् नीत्वाऽऽगतो द्वारकाम् ॥ ६८॥
साश्चर्यं द्वारकायामजसुतमुनिना त्वेकतो धर्ममार्गं
वक्ता यात्रोत्सुकोऽन्यत्र च निजसचिवैर्मन्त्रयन् राज्यकार्यम् ।
ध्यायन् ब्रह्मैव जुह्वन् हुतभुजि स पुराणेतिहासादि शृण्वन्
सन्ध्योपास्त्यादि कुर्वन् प्रतिगृहमजितस्तत्र तत्रापि दृष्टः ॥ ६९॥
बद्धानष्टशताधिकायुतयुगं कारागृहे पीडितान्
राज्ञो मागधभूमिपेन भगवान् विज्ञाय दूतोक्तितः ।
पार्थानां च मखोद्यमं सुरमुनेः कार्यद्वयव्याकुलः
पप्रच्छोद्धवमत्र कार्यमिह किं ब्रूहीत्ययं चाब्रावीत् ॥ ७०॥
यष्टव्यो मख एष दिग्जयकृता भूपेन तं मागधं
हन्ता वायुसुतो रणे करुणया ते रक्षितव्या नृपाः ।
गन्तव्यं तु गजाह्वयं पुरमिदं शृण्वन् निजैः प्रस्थितः
प्राप्तो हस्तिपुरं युधिष्ठिरमुखैः प्रत्युद्गतो माधवः ॥ ७१॥
यज्ञोत्साहिनमच्युतो कृतनृपं कृष्णः सभीमार्जुनः
प्राप्तो विप्रमिषेण मागधनृपं युद्धं ययाचे च तम् ।
भीमो भीमरणाङ्गणे तु जरसः पुत्रं हरेः सूचनात्
शत्रुं पाटयति स्म वृक्षविटपं दन्तीव वीर्योद्धतः ॥ ७२॥
मुक्ता बन्धनतो नृपास्तु विवशा दृष्ट्वा हरिं तुष्टुवुः
देहि त्वत्पदभक्तिमेव न धने राज्येऽपि वा नः स्पृहा ।
तुभ्यं देव नमोऽस्तु पाहि सततं संसारघोरार्णवा-
दित्थं संस्तुवतोऽनुगृह्य भगवान् प्राप्तो गजाख्यं पुरम् ॥ ७३॥
देवास्तद्राजसूयेऽप्यजगिरिशमुखा भागभाजः प्रहृष्टा
आसन् धर्मात्मजस्तु क्रतुसदसि हरिं पूजयामास भक्त्या ।
सञ्जाता पुष्पवृष्टिः हरिमहिमकथाकीर्तनैरिद्धकोपः
कृष्णद्वेषी तु चैद्यः सदसि हरिहतः प्राप्त सायुज्यमुक्तिम् ॥ ७४॥
भीमाद्यैरनुजैः सुहृद्भिरपि च प्रेम्णा नृपस्याध्वरे
कर्तव्यं कृतमन्ततस्त्ववभृथस्नानं द्युनद्यां कृतम् ।
दृष्ट्वा धर्मजभूतिमत्र कुरुराट् सेर्ष्यश्च मानी गतः
शक्रप्रस्थसभां पतन् स्थलजलभ्रान्त्या गतो हास्यताम् ॥ ७५॥
इच्छन् कर्तुमयादवीं वसुमतीं साल्वो विमानं हरा-
ल्लब्ध्वा सौभमरिन्दमो यदुपुरं मायी बभञ्जोद्धतः ।
कृष्णे हस्तिपुरे स्थिते रिपुगणं वीरो निरुन्धन् बलात्
प्रद्युम्नो द्युमता तु साल्वसचिवेनोग्रं चकाराहवम् ॥ ७६॥
प्रद्युम्नेन हतो द्युमान् कुरुपुरात्प्रत्यागतः श्रीहरिः
मायाशौरिशिरः पुरोभुवि हरेः साल्वेन कृत्तं त्वभूत् ।
आक्रन्दत्सु जनेषु सर्वविदयं नैवाकुलो नाशयन्
सौभं साल्वशिरो जहार च रुषा तं दन्तवक्त्रोऽभ्यगात् ॥ ७७॥
सोऽयं कृष्णगदाऽऽहतो निपतितः सायुज्यमुक्तिं गतः
संरम्भात्कुरुपाण्डवोत्कटरणोद्योगं समाकर्ण्य सः ।
तीर्थं तीर्थमभिव्रजन् हलधरः स्नात्वा गतो नैमिषं
चाप्रत्युत्थितमात्तकोपमवधीत्सूतं सतां पश्यताम् ॥ ७८॥
तत्स्थाने कल्पयंस्तत्सुतमृषिवचसा बल्वलं तत्र हत्वा
रक्षन् सत्रं मुनीनां श्रुतनुतिवचनः पुण्यतीर्थाप्लुतश्च ।
अन्ते तं भीमदुर्योधनरणमशमं वीक्ष्य खिन्नो निवृत्तः
सम्प्राप्तो नैमिषं तन्मुनिजनपरमज्ञानदोऽत्रास्त रामः ॥ ७९॥
आसीत् कृष्णस्य विप्रः सुहृदधिकदरिद्रोऽपि वित्ताद्यसक्तः
पत्न्या सम्प्रेषितो यः करधृतपृथुको द्वारकामाप भक्तः ।
सम्पूज्यैनं सतीर्थ्यं निजमणिभवने पूर्ववृत्तं समस्तं
वक्ता प्रेम्णा गृहीत्वा करमकृत हरिर्विस्मितं चातिहृष्टम् ॥ ८०॥
आदायादत्तमिष्टं पृथुकमुरुकृपो भक्षयन्नेकमुष्टिं
कृष्णश्चाभूत्सुतृप्तः प्रियसुहृदपरेद्युश्च तुष्टो निवृत्तः ।
प्राप्तः स्वं भूतिपूर्णं गृहमथ दयितां तोषितां भूषिताङ्गीं
दृष्ट्वा कृष्णस्य लीलाः सकलमिति विदन्निद्धभक्तिर्बभूव ॥ ८१॥
सुस्नातास्तपनोपरागसमये भीष्मादयो वृष्णयो
नन्दाद्याश्च समन्तपञ्चकमहातीर्थेषु ते सङ्गताः ।
गोप्यः कृष्णमभिप्रणेमुरजितः सास्रं समालिङ्गितो
नन्देनापि यशोदया यदुजनस्त्रीभिश्च तौ नन्दितौ ॥ ८२॥
पार्थास्तुष्टिमुपागता द्रुपदपुत्र्यैकत्र पृष्टा हरेः
पत्न्यः स्वस्वविवाहमङ्गलकथा लज्जां विहायोचिरे ।
साम्राज्यादिषु नः स्पृहा न भगवद्दास्यो वयं कुर्महे
प्रेम्णा तद्गृहमार्जनादि सततं तद्ध्येव नो वाञ्छितम् ॥ ८३॥
सम्प्राप्ता मुनयः सबन्धुसहजो नत्वा मुनीन् श्रीहरिः
सत्सङ्गस्य महत्वमाकथितवान् भक्तास्तु ते योगिनः ।
लीलामानुषमच्युतं च नुनुवुः श्रीनारदोक्त्या यजन्
शौरिः साश्रु समालिलिङ्ग सुहृदं नन्दं च पत्न्या समम् ॥ ८४॥
पौत्राः कस्य विकोपतो दितिकुले जाताः षडेते पुन-
र्जाताः शौरिसुता हताश्च सुतले जाताः पुनस्ते बलेः ।
कृष्णस्तांस्तु सुतानदीदृशदहो मात्रे स्नुतं तत्स्तनं
पीत्वा ते हरिपीतशेषमखिलान्नत्वा प्रयाता दिवम् ॥ ८५॥
पार्थो व्याजयतिः स्वसारमहरद्गूढं सुभद्रां हरेः
श्रीकृष्णो युगपद्विमूर्तिऋषिभिः साकं गृहं मैथिलम् ।
सम्प्राप्तः श्रुतदेवगेहमपि च स्वीकृत्य पूजां तयोः
सन्मार्गं प्रतिबोधयन् करुणया द्वाभ्यां च मुक्तिं ददौ ॥ ८६॥
पृष्टः श्रीशुक आह नारदमुनेर्नारायणोक्तं जगत्-
सृष्ट्यादौ नृपतिस्तु वन्दिभिरिव प्रातर्नुतः श्रीहरिः ।
आद्याभिः श्रुतिभिस्तमेव सततं ध्यायेन्मुमुक्षुः सृजन्
रक्षन्नेतदु संहरन् जगदहो लीलायते यः प्रभुः ॥ ८७॥
सत्त्वं वा निर्गुणं वा भजति यदि पुमान् निर्गुणः स्यान्मुरारिं
भक्त्या ध्यायन् विमुक्तो भवति निजतपस्तोषिताच्छूलपाणेः ।
शीर्षस्पर्शेन मृत्युं वरमभिलषितं लब्धवान् शाकुनेयो
विष्णोर्मायाविमुग्धो निजशिरसि करं साधु कृत्वा हतोऽभूत् ॥ ८८॥
ब्रह्मा रुद्रो गुणाभ्यामपि परिकलितौ शुद्धसत्त्वस्तु विष्णुः
सत्यं त्वेतत्परीक्ष्य स्फुटमवददृषीन् पूज्यपादान् भृगुस्तत् ।
पार्थो वीर्याभिमानी द्विजशिशुपरिरक्षार्थमोघप्रयत्नः
कारुण्येनैव विष्णोर्धुतसकलमदः सत्यवाग्रक्षितोऽभूत् ॥ ८९॥
पूर्णं ब्रह्मैव विष्णुः कमलभवमृडाद्यर्थितो वासुदेवः
संहर्ता भूमिभारं जगदभिरमयन् द्वारवत्यां विरेजे ।
गायन् यन्नाम यत्पावनचरितमहातीर्थमग्नो यदर्थं
सर्वं कर्मार्पयन् वा परमपदमवाप्नोति मर्त्योऽमृतत्वम् ॥ ९०॥
अथ एकादश स्कन्धः ११
भूम्नः सङ्कल्पमात्रात्परिहसितमुनीन्द्राभिशापोरुभीता
अब्धौ साम्बस्य गर्भोद्भवमुसलमरं चिक्षिपुश्चूर्णयन्तः ।
वृष्णिश्रेष्ठा न चोचुर्हरिमिदमथ तच्चूर्णजालं तरङ्गै-
र्नीतम् तीरे प्ररूढं यदुकुलजमहानाशमूलं बभूव ॥ १॥
शौरिर्नारदमाह मे वद परान् धर्मान् यतः सद्गतिः
स प्रत्याह पुराऽऽर्षभाः कविमुखाः प्राप्ताश्च सत्रं निमेः ।
पृष्टाः प्राहुरिमे हरेः पदयुगं ध्यायन् निरुन्धन् मनः
शृण्वन् भागवतीः कथाश्च कथयन् प्रोच्चैरभीतो भवेत् ॥ २॥
भक्ताः प्राकृतमध्यमोत्तमतया त्रेधा तितीर्षुहरेः
मायां सद्गुरूमाश्रितो हरिपदं चाध्यात्मशास्त्रं पठन् ।
नो कुर्वन् परनिन्दनं च सुमना ध्यायन् परं ब्रह्म तत्-
प्रीत्यर्थं विहितं करोतु सकलं कर्म स्वयं निःस्पृहः ॥ ३॥
बिभ्रद्रूपाण्यरूपो नट इव विविधान्यच्युतो धर्मपुत्रौ
भूत्वा नारायणाख्यो नर इति च बदर्याश्रमे तापसेन्द्रः ।
कामक्रोधादि जित्वा निजयुवतिगणैर्मोहयन् दिव्ययोषित्-
कामादीनन्वगृह्णाद्भजतु हरिमिमं स्वीयरीत्या मनुष्यः ॥ ४॥
कुर्वन् काम्यानि कर्माण्यपि हरिविमुखो भक्तनिन्दाघभारात्
क्लिश्यत्येवैति तुष्टिं खलु कलिसमये रामकृष्णेति गायन् ।
जायेरन् भक्तवर्या द्रविडभुवि कलावार्षभैरेवमुक्तं
कृष्णं सर्वेशमाराधय नियतमनाः सर्वमुक्तो भवेति ॥ ५॥
ब्रह्माद्यैर्दिविषद्भिरीडितयशाः कृष्णो यदून् प्राह भो
मोक्षार्थं मुनिशापतो वयमितो यामः प्रभासं जवात् ।
श्रुत्वैतत्तु जगत्प्रभुं यदुजना हित्वा च तीर्थं गता
धीमन्तं शरणागतं सविनयं प्रोचे हरिस्तूद्धवम् ॥ ६॥
नश्येद्वारवती जवाद्यदुकुलं चापि व्रजाम्येष मां
स्मृत्वा गां विचरस्व दृश्यमखिलं चावेहि मायामयम् ।
धीमन् विप्रमुखात्पुरा यदुरिव श्रेयः पथं मच्छृणु
क्षित्यम्ब्वादिगुरूपशिक्षिततितिक्षाद्यैर्भवेस्तापसः ॥ ७॥
गम्भीरापारपूर्णो जलाधिरिव भवेस्तुष्टचित्तो यदृच्छा-
लाभेन स्या महासर्पवदमितरसावेशतो मत्स्यवच्च ।
मृत्युं मा गच्छ बद्धो भव न च करिणीस्पर्शलुब्धेभवत् स्या
निस्सङ्गः पिङ्गलावत्सकलविषयतो निःस्पृहत्वात्सुखी च ॥ ८॥
निश्चिन्तो बालवत् स्या वलय इव कुमार्याश्च निश्शब्दयोगी
वर्तस्वैकाग्रबुद्धिः परमिषुकृदिव ब्रह्मणीदं यतोऽभूत् ।
ऊर्णावाप्यूर्णनाभेर्भवति परपदप्राप्तये मर्त्यजन्म
स्रष्टा वृक्षाद्यतुष्टः किल विधिरभवन्मर्त्यसृष्ट्या च तुष्टः ॥ ९॥
हित्वा कर्म प्रवृत्तं मयि निहितमनाः कर्म कुर्वन् यमादी-
नभ्यस्वैको गुरूपासननिरतमतिर्निर्ममोऽमत्सरश्च ।
लोकः पुण्यार्जितो नश्वर इति च विदन् दारूणोऽग्निर्यथाऽन्यो
देहादेर्भिन्न आत्मा स्वदृगिति च सखे सर्वमुक्तो भव त्वम् ॥ १०॥
बन्धो मोक्षोऽपि जीवस्य न यदि स करोमीति भोक्ताहमित्थं
मन्वानो बद्ध एव प्रकृतिरिह करोतीति जानन् स मुक्तः ।
कर्ता भोक्ता न चाहं प्रकृतिरनुभवत्येव दुःखं सुखं चे-
त्येतज्ज्ञानाप्तये मां स्मर भज सततं साधुसङ्गं च कुर्याः ॥ ११॥
यज्ञाद्यैरपि दुर्गमोऽहमजितः प्राप्यश्च सत्सङ्गतो
मर्त्या येन रजस्तमःप्रकृतयो दैत्याश्च रक्षांसि च ।
नाधीतश्रुतयश्च गोपवनिताः प्राप्ता हि मां तत्सखे
सत्सङ्गेन निकृत्तसंसृतिभयो भूयाश्च विद्यामयः ॥ १२॥
बुद्धेः सत्त्वरजस्तमांसि च गुणा नैवात्मनो नाशयेः
सत्त्वोद्वृद्धतयेतरेऽथ तदप्यन्ते भवेर्निर्गुणः ।
चित्तं च ग्रथितं गुणा अपि मिथः प्रगेव तद्रोधने
तुर्ये मय्यतिभक्तिमेव शरणं हंसस्त्वभाषे मुनीन् ॥ १३॥
श्रेयोमार्गेषु भक्तिर्बहुषु निरूपमा जन्मकर्माणि शृण्वन्
गायन् नामानि भद्राणि च मम सुमना लोकमेतं पुनाति ।
भक्तो नो मोक्षसिद्धिं त्वभिलषति स मां मेघवर्णं शुभाङ्गं
ध्यायन् देशे विविक्त्ते वसति सुखमहं विद्धि भक्तैकगम्यः ॥ १४॥
चित्तं धारयतो मुनेर्मयि जितश्वासस्य चाष्टादशा-
निष्टाः सिद्धय आपतन्ति विदिता या मत्प्रधानाश्च ताः ।
अष्टैवाप्यणिमादयोऽथ च दश स्वच्छन्दमृत्यादयो
गौणा आभिरहो न वञ्चितमतिर्वर्तस्व भक्तो मयि ॥ १५॥
रुआष्टा पालयिताऽहमेव जगतां हर्ता मदन्यज्जगद्-
दृश्यं नैव विभूतियोगमिह मे धीमन् शृणु श्रद्धया ।
भक्तेषु त्वमहं युगेषु च कृतं द्वैपायनः कीर्तितो
व्यासेषु त्वमुपासनं कुरु मनो वाचोऽपि यच्छन् यतिः ॥ १६॥
भेदो वर्णाश्रमाणामपि न कृतयुगे तत्र हंसा मनुष्याः
कुर्वन्ति स्वस्वकर्माण्यनिशमुरुतरश्रद्धया भक्तिभाजः ।
त्रेतायां भेदबुद्धिर्भवति च गुणकर्मानुसारेण विप्र-
क्षत्रादि ब्रह्मचर्यादि च विदितमिदं निश्चिताचारवच्च ॥ १७॥
निस्सङ्गः समदर्शनः सुविमलो लब्धेन तुष्टो मुनिः
षड्वर्गं च विजित्य काननपुरग्रामाश्रमादीन् विशन् ।
दृश्यं सर्वमिदं जगन्मम विदन् मायेति तर्केण मां
सर्वव्यापिनमेव चिन्तय सखे भक्त्या विमुक्तो भवेः ॥ १८॥
धर्मानुष्ठानशुद्धीकृतहृदि विमलं ज्ञानमाभाति तत्स-
त्त्रैकाल्येष्वपि मृदिव घटे शास्त्रतो ज्ञेयमेतत् । ??
भक्तिर्वर्द्धेत नूनं दमशमनियमैस्त्यागशौचादिभिश्च
ज्ञात्वा बन्धुः सखाहं गुरुरिति गुणदोषैकदृष्टिं त्यजेश्च ॥ १९॥
दोषं माऽऽत्यन्तिकं पश्य च गुणमपि मत्प्राप्तये कर्म भक्ति-
र्ज्ञानं चैतन्मयोक्तं धनतनयकलत्रादिसक्तस्य कर्म ।
ज्ञानं वैराग्यभाजो निखिलविषयतः स्वल्परक्तस्य भक्ति-
र्योगा वेदप्रसिद्धा विविधमभिहिताश्चाधिकारिप्रभेदात् ॥ २०॥
मार्गेण स्वेन कार्यं मम भजनमिदं वेद काण्डत्रयोक्तं
विद्यन्ते ह्यर्थवादाः श्रुतिषु मुनिजना भाषमाणाः परोक्षम् ।
मत्स्मृत्या चित्तशुद्धिर्भवति विषयसङ्गेन कामः क्रमेण
क्रोधो बुद्धेर्विनाशोऽपि च विषयनिवृत्तिस्तु सत्क्षेमदात्री ॥ २१॥
तत्त्वान्युक्तानि सिद्धैर्विविधमृषिवरैस्तानि सर्वाणि साधू-
न्येषां भेदः प्रकृत्याश्रय उत विदुषां शोभनं सर्वमुक्तम् ।
जीवो ब्रह्मैव नान्यः पुरुषमिममवेह्यत्र देहादिभिन्नं
नित्यं शुद्धं च बुद्धं प्रकृतिविषयतो मा स्म भूर्वञ्चितस्त्वम् ॥ २२॥
नष्टे क्लेशार्जितार्थे सममतिरमलो द्रुह्यमाणो जनौघैः
कश्चित्प्रागाह दुखं सुखमपि मनसा कल्पितं तस्य हेतुः ।
कालः कर्म ग्रहा नो मनसि नियमिते नापि संसारचक्रं
प्राप्स्यामीशं नियन्ता मन इति दृढधीर्योगिवर्यो बभूव ॥ २३॥
आदौ ब्रह्मैव सत्यं प्रकृतिपुरुषभेदेन तच्च द्विधाऽभूद्-
धीमन् दृश्यं समस्तं प्रकृतिपरिणतिः पूरुषो निर्विकारः ।
जातं सर्वं विलीनं भवति सति लये ब्रह्मणीदं च नाना-
रूपेणाभासमानं जगदखिलमिदं त्वेकमेवाद्वितीयम् ॥ २४॥
सर्वं वै त्रिगुणात्मकं जगदिदं सत्त्वे प्रवृद्धे मृतः
स्वर्गं याति भुवं रजस्यपि तमस्युग्रं पदं नारकम् ।
धर्मिष्ठस्तु मदानृतादि च विहायैकं परं निर्गुणं
भक्त्या मां तपसा भजन् जनिमृतिक्लेशात्पुमान् मुच्यते ॥ २५॥
दुस्सङ्गाच्चित्तदोषो भवति बहुतरः सोऽपि भक्त्या विनाश्यो
भुक्त्वैलस्तूर्वशीं प्राक् चिरमथ सुकृती चायमुद्यद्विवेकः ।
त्यक्त्वा भोगाभिलाषं दृढमतिरभवत्सङ्गदोषाद्विमुक्तः
सत्सङ्गाच्छुद्धचित्तो मयि निहितमना योगिवर्यो भवेस्त्वम् ॥ २६॥
तन्त्रोक्तं कर्मयोगं शृणु दृषदि हृदि स्थण्डिले क्वापि वा मां
सश्रद्धं भावयित्वा स्थिरमति कुसुमैर्गन्धधूपादिभिश्च ।
उच्चैर्गायंश्च नृत्यन् श्रुतिसुखदकथाः स्तोत्रपाठांश्च शृण्वन्
सम्पूज्य प्रेमपूर्वं कृतनतिरमलो भक्तलोकोत्तमः स्याः ॥ २७॥
आत्मावास्यमिदं प्रभुः सृजति वा त्राताऽपि हर्ताऽपि वा
सृष्टं त्रातमिदं हृतं च स विभुर्नान्यत्ततो वस्तुतः ।
नानात्वेन विराजितं तु जलधौ कल्लोलवद्योगिनः
पश्यन्तीदृशमुद्धव स्थिरमतिर्योगीशचर्यां कुरु ॥ २८॥
चरेयं दुश्चरा चेन्मम चरितकथाः कीर्तयन् नाम गायन्
शृण्वन् भक्त्या स्मरन् मां मुहुरपि बदरीं याहि मुक्तिं लभस्व ।
एवं श्रुत्वोद्धवस्तु स्वगुरूमुपनमन् प्रार्थ्य भक्तेर्विवृध्यै
बिभ्रत्तत्पादुके द्वे शिरसि स बदरीं प्राप्य सिद्धिं प्रपेदे ॥ २९॥
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ (भाग ११-२९-४०)
तीर्थस्नानेन नष्टं त्वघमिति यदवो मद्यपानाभिमत्ताः
शस्त्रौघैरेरकाभिर्भुवि कलितरणा विप्रशापान्निपेतुः ।
रामे स्वं धाम याते हरिरुरुकरुणो येन विद्धं पदं स्वं
तस्यादाल्लुब्धकस्य त्रिदिवमथ निजं सारथिं चान्वगृह्णात् ॥ ३०॥
देवांस्तत्र समागतान् दिवि विरिञ्चादीन् कृपालुर्हरिः
पश्यन्नेष निमीलिताक्षियुगलस्त्यक्त्वा शरीरं निजम् ।
दिव्यं धाम ययौ सुराश्च ववृषुः पुष्पाणि यत्सेवको
नूनं पापविमुक्तिमेति पुरुषः सायुज्यमाप्नोति च ॥ ३१॥
न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते (श्वेताश्वतरोपनिषत् अध्यायं ६ मन्त्र ८)
स्वाभाविकी ज्ञानबलक्रिया च ॥ ३२॥
अथ द्वादश स्कन्धः १२
श्रीकृष्णे तु गते भवेत् कलियुगारम्भः कलौ दुर्बला
राजानो बहुवंशजाः स्युरवनौ नन्दस्तु शूद्रीसुतः ।
सर्वक्षत्रविनाशकृत्स च भवेच्छूद्रादयो भूभृतो
लुण्ठन्तश्च परस्त्रियः परधनं हन्युः स्त्रियश्चार्भकान् ॥ १॥ हतरीश्च?
जन्माचारगुणोदयः कलियुगे वित्ताश्रयो भूमिपा
धर्मन्यायदयाक्षमादिरहिताश्चौर्यादिकं सर्वतः ।
एवं क्लिश्यति सर्वजीवनिवहे कल्किर्भवन् श्रीहरि-
र्हन्ता दोषकरांस्ततः कृतयुगे धर्मं पुनः स्थापयेत् ॥ २॥
पृथ्वीं जेतुमिमे नृपाः पितृसुहृद्भ्रातॄन् वृथा ध्नन्ति ते
सर्वे यान्ति च पञ्चतां परपदं प्राप्स्यन्नरो बुद्धिमान् ।
विष्णुं ध्यायति तं कृते च यजते त्रेतायुगे द्वापरे
भक्त्या पूजयते कलौ च भजते नामादि सङ्कीर्तनैः ॥ ३॥
चत्वार्येव युगानि विद्धि सुमते तेषां सहस्रं विदुः
कल्पं तद्दिनमेकमम्बुजभवस्यैतस्य चान्ते लयः ।
नित्यादिः स चतुर्विधो भगवतो लीला हि सृष्ट्यादिकं
तल्लीलारसमज्जनेन मनुजः संसारमुक्तो भवेत् ॥ ४॥
भीतः किं तक्षकात्त्वं जहि मरणभयं त्वं न जातः कथं ते
मृत्युर्जातस्तु देहः परिणमति विनश्येच्च न त्वं स देहः ।
आत्मा नित्योऽव्ययः सन् भवति सकलगश्चेतनो वासुदेवः
स त्वं ब्रह्मैव स त्वं जनिमृतिरहितं सर्वथा तेऽस्तु भद्रम् ॥ ५॥
इत्युक्त्वा भूपतिं तं शुकमुनिरनुगृह्यागमद्योगिवृन्दै-
र्ब्रह्म ध्यायन् नृपोऽगात्परपदमहिना तक्षकेणास्य देहः ।
दृष्टो भस्मीकृतोऽभूत्कुपितसुतकृते सर्पसत्रे त्वनन्ताः
सर्पा दग्धा विवेकी सुरगुरुवचनेनैष सत्राद्व्यरंसीत् ॥ ६॥
वेदो धातृमुखादभूदिममृषिर्व्यासो विभज्य स्वयं
शिष्येभ्यः प्रददौ पुराणनिवहान् वेदार्थसारानथ ।
चक्रे तान् लभते स्म मे गुरु रिमे ज्ञाता मयैषां द्विजाः
सर्गादीनि च लक्षणानि सकलं ब्रह्माश्रयं वर्तते ॥ ७॥
मार्कण्डेयो मुनीन्द्रो हरिभजनरतः पुष्पभद्रातटे षण्-
निन्ये मन्वन्तराणि त्रिदशयुवतिभिर्मोहिनीभिः स्मरास्त्रैः ।
नैव व्यामोहितोऽभूदथ नरसहितं तत्र नारायणं तं
दृष्ट्वा स्तुत्वा च मायामनुभवितुमनाः प्राप योगी वरं सः ॥ ८॥
ध्यायन् ब्रह्माश्रमस्थः प्रलयजलनिधौ सम्भ्रमन् वर्षकोटीः
पादाङ्गुष्ठं धयन्तं वटदलशयनं बालमेकं तु दृष्ट्वा ।
प्राप्तोऽन्तःश्वासवातैस्त्रिभुवनमाखिलं वीक्ष्य मुह्यन्लयाब्धौ
क्षिप्तो भूयोऽपि पश्यन् किमपि न स मुनिः स्वाश्रमे विस्मितोऽभूत् ॥ ९॥
ज्ञात्वा दृष्टं तु माया भगवत इति स श्रीपतिं सेवमानो
दृष्ट्वा शम्भुं च गौरीं निकटभुवि नमन् प्राह विष्णोः पदाब्जे ।
त्वत्पादे भक्तवर्येष्वपि मम रतिरस्त्वेवमाकर्ण्य पृष्टं
ज्ञानाद्यं चाप्यपृष्टं बहु सदयमदाद्योगिने ज्ञानमूर्तिः ॥ १०॥
विष्णुर्विप्र चतुर्दशात्मकजगद्रूपः समाराध्यतां
मार्गैर्वैदिकतान्त्रिकैः स हि जगत्सृष्ट्यादिलीलाकरः ।
सूर्यात्मा सगणो बिभर्ति विधिवद्धात्रादि नामानि यः
कुर्वन् कालविभागमेष मुनिभिः संस्तूयते सर्वदा ॥ ११॥
वर्ण्यन्ते जन्म कर्माण्यपि शृणुत हरेर्यत्र यन्मोक्षशास्त्रं
शृण्वन् गायन् पुमान् यद्भगवति रतिमाप्नोति निर्धूतपापः ।
यत्स्वादु स्वादु नूनं प्रतिपदमखिलैः सर्वतो यच्च गेयं
तस्याचार्यं पुराणस्य तु मुनितिलकं व्याससूनुं नतोऽस्मि ॥ १२॥
ज्ञानं योऽदाद्विधात्रे परममृषिगणः स्तौति यं वेदमन्त्रैः
द्रष्टारो योगिनो यं हृदि विविधपुराणेषु यस्य प्रभावः ।
व्यासेनोच्चैश्च गीतः परममरगणैः स्तूयते यः सदुक्तैः
सर्वेशोऽस्मान् स पातु स्वयमुरुकरुणः श्रीहरिं तं नमामः ॥ १३॥
इति पलेलि नम्बूदिरिविरचितं ह्रस्वभागवतं समाप्तम् ॥
Hrasva Bhagavatam is composed by Paleli Namboodiri, the author
of Devi Narayaneeyam. It contains 337 verses,
one verse each for every chapter of Bhagavatam.
Proofread by PSA Easwaran