श्रीहयवदनप्रपत्तिः
स्फटिकाचलसन्निभदिव्यतनुं कटकध्वनिभाषितसामगिरम् ।
इह घोटकवक्त्रमहं कलये घटयेति शुभं घटिताञ्जलिना ॥ १॥
तटिनीजनितारणदिव्यपदं हठयोगिभिरीक्षित सत्यमिदम् ।
इह घोटिकवक्त्रतयाऽभ्युदितं प्रतिभातुमहः प्रविशत् हृदि नः ॥ २॥
हयशीर्षकनामकदिव्यतरुः भवसागरतारणभव्यतरिः ।
सुकृताद्धि सतामिह सञ्जनितं सकलं त्विह नः करसंस्थफलम् ॥ ३॥
इह मानुषजन्म सुदुर्लभतां अवबुद्ध्य जनेरपि सार्थकताम् ।
भवसागरतारण भव्यतरिं भजतादादरतो हयशीर्षविभुम् ॥ ४॥
भवदुद्धरणाय कृपाजलधिः हयशीर्ष एष मतिं हि दधौ ।
अत एव गुरोरिह सत्कृपया हयशीर्ष एव इहाविरभूत् ॥ ५॥
इति तिरुमल रङ्गनाथशर्मणा प्रणीता श्रीहयवदनप्रपत्तिः समाप्ता ।
Proofread by Chandrasekhar Karumuri