हयशिरोपाख्यानम्
(महाभारतं-शान्तिपर्वं-मोक्षधर्मं-नारायणीयं ३५७ अध्यायं)
शासन उवाच ।
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मवः ।
जन्म धर्मगृहे चैव नरनारायणात्मकम् ॥ १॥
महावराहसृष्टा च पिण्डोत्पत्तिस्सनातनी ।
प्रवृत्ता च निवृत्ता च यो यथा परिकल्पितः ॥ २॥
तथा स न श्श्रुतो ब्रह्मन्! वध्यमानस्त्वयाऽनघ ।
हव्यकव्यभुजो विष्णुरुदक् पूर्वे महोदधौ ॥ ३॥
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ ४॥
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा ।
रूपं प्रभावं महतामपूर्वं धीमतं वर ॥ ५॥
दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम् ।
तदश्वशिरसं पुण्यं ब्रह्म किमकरोन्मुने! ॥ ६॥
एतन्नः संशयं ब्रह्मन्! पुराणं ब्रह्मसम्भवम् ।
कथयस्वोत्तममते! महापुरुषसंश्रितम् ॥ ७॥
पाविताः स्म त्वया ब्रह्मन्! पुण्याः कथयतः कथाः ।
सौतिरुवाच ।
कथयिष्यामि ते सर्वं पुराणं वेदसम्मितम् ॥ ८॥
उत्पन्नसंशयो राजा एवमेतदचोदयत् ।
जनमेजय उवाच ।
यत्तद्दर्शितवान् ब्रह्मा देवं हयशिरोधरम् ॥ ९॥
(here 10 ShlokaH is not available. may be not there)
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ।
वैशम्पायन उवाच ।
यत्किञ्चिदिह लोके वै देहबद्धं विशम्पते! ॥ ११॥
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ।
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ॥ १२॥
भूतान्तरात्मा वरदः सुगुणो निर्गुणोऽपि च ।
भूतप्रलयमत्यन्तं (व्यक्तं) श्रुणुष्व नृपसत्तम ॥ १३॥
धरण्या मथ लीनायामप्सु चैकार्णवे धरा ।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ १४॥
वायौ चाकाशसंलीने आकाशे च मनोऽनुगे ।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ १५॥
अव्यक्ते पुरुषे याते पुंसि सर्वगतेऽपि च ।
तम एवाभवत्सर्वं न प्राज्ञायत किञ्चन ॥ १६॥
तमसो ब्रह्मसम्भूतं तमोमूलामृतात्मकम् ।
तद्विश्वभावसञ्जातं पौरीषं तनुमाश्रितम् ॥ १७॥
सोऽनिरुद्ध इति प्रोक्तः तत्प्रधानं प्रचक्षते ।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम! ॥ १८॥
विद्यासहायवान् देवः विष्वक्सेनो हरिः प्रभुः ।
आदिकर्ता स देवानामप्रमेयो जनार्दनः ॥ १९॥
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।
जगतश्चिन्तयन् सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ २०॥
तस्य चिन्तयतः सृष्टिं महानात्मगुणं स्मृतः ।
अहङ्कारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ॥ २१॥
हिरण्यगर्भो भगवान् सर्वलोकपितामहः ।
पद्मेऽनिरुद्धात्सम्भूतः तदा पद्मनिभेक्षणः ॥ २२॥
सहस्रपत्रे द्युतिमानुपनिष्टस्सनातनः ।
ददृशेऽद्भुतसङ्काशो लोकानापोमयान् प्रभुः ॥ २३॥
सत्त्वस्थं परमेष्ठी स ततो भूतगणान् सृजन् ।
पूर्वमेव च पद्मस्य पद्मे सूर्यांशु(ग्नि) सप्रभे ॥ २४॥
नारायण(णा) कृतौ बिन्दू अपामासां गुणोत्तरौ ।
तावपश्यत्स भगवाननादिनिधनोऽच्युतः ॥ २५॥
एकस्तत्रा भवद्बिन्दुर्मध्वाभो रुचि(धि)रप्रभः ।
स तामसो (मामतो) मधुर्जातस्तदा नारायणाज्ञया ॥ २६॥
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः ।
तावभ्यधावतां शेष्ठौ तमोरजगुणान्वितौ ॥ २७॥
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ।
ददृशातेऽरविन्दस्थं ब्रह्मणममितप्रभवम् ॥ २८॥
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ।
ततो विग्रहवन्तस्तान् वेदान् दृष्ट्वाऽसुरोत्तमौ ॥ २९॥
सहसा जगृहतुर्वेदान् ब्रह्मणः पश्यत्त स्तदा ।
अथातौ दानवश्रेष्ठौ वेदान् गृह्य सनातनान् ॥ ३०॥
रसां विविशतु स्तूर्णमुदक् पूर्वे महादधौ ।
ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् ॥ ३१॥
ततो वचनमीशानं प्राह वेदैर्विनाकृतः ।
वेदा मे परमं चक्षुः वेदा मे परमं धनम् ॥ ३२॥
वेदा मे परमं धाम वेदा मे ब्रह्मचोत्तर(म)म् ।
मम वेदा हृतास्सर्वे दानवाभ्यां बलादितः ॥ ३३॥
अन्धकारा हि मे लोका जाता वेदैर्विनाकृतः ।
वेदानृते किं कुर्यां लोकानां(वै) सृष्टि(सुष्ठु) मुत्तमाम्(मुद्यतः)॥ ३४॥
अहो! बत! महद्दुःखं वेदनाशनजं मम ।
प्राप्तं दुनोति हृदयं तीव्रशोकपरायणम् ॥ ३५॥
को हि शोकार्णवेमग्नं मामितोऽद्य समुद्धरेत् ।
वेदां स्तांश्चानयेन्नष्टान् कस्य चाहं प्रियो भवे ॥ ३६॥
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ।
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्भुद्धिमतां वर ॥ ३७॥
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ।
ब्रह्मोवाच ।
नमस्ते ब्रह्महृदय! नमस्ते मम पूर्वज! ॥ ३८॥
लोकाद्य भुवनश्रेष्ठ! साङ्ख्ययोगनिधे! प्रभो! ।
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित! ॥
विश्वभुक् सर्वभूतानामन्तरात्मन्नयोनिज ॥ ३९॥
अहं प्रसादजस्तुभ्यं लोकधाम स्वयम्भुवः ।
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ४०॥
चाक्षुषं वै द्वितीयं मे जन्म चासीत् पुरातनम् ।
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ॥ ४१॥
त्वत्तः श्रवणं चापि चतुर्थं जन्म मे विभो ।
नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ४२॥
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ।
नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ॥ ४२॥
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम् ।
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ॥ ४३॥
सर्गे सर्गेऽप्यहं पुत्रस्तव त्रिगुणवर्जित ।
प्रथमः पुण्डरीकाक्ष! प्रधानगुणकल्पितः ॥ ४४॥
त्वमीश्वरस्वभावश्च भूतानां त्वं प्रभावना ।
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोऽतिग ॥ ४५॥
ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि ।
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोऽसि मे ॥ ४६॥
एवं स्तुतस्स भगवान् पुरुषस्सर्वतोमुखः ।
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः ॥
ऐश्वर्ये(रे)ण प्र(सु)योगेन द्वितीयं तनुमास्थितः ॥ ४७॥
सुनासिकेन (समानकेन) कायेन भूत्वा चन्द्रप्रभस्तदा ।
कृत्वा हयशिरश्श्रुभ्रं वेदानामालयं प्रभुः ॥ ४८॥
तस्य मूर्धा समभवत् द्यौस्सनक्षत्रतारका ।
केशाश्चास्याभन् दीर्घारवेरंशु समप्रभाः ॥ ४९॥
कर्णा वाकाशपातले ललाटं भूतधारिणौ ।
गङ्गासरस्वती पुण्ये भ्रुवा वास्तां महाद्युती ॥ ५०॥
चक्षुषी चन्द्रसूर्यौ ते(तु) नासा सन्ध्या पुनः स्मृता ।
ओङ्कारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ ५१॥
दन्ताश्च पितरो राजन्! सोमपा इति विश्रुताः ।
गोलोको ब्रह्मलोकश्च ओष्ठा वास्तां महात्मनः ॥ ५२॥
ग्रीवा चास्या भवद्राजन् कालरात्रिर्गुणोत्तरा ।
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ॥ ५३॥
अन्तर्धधौ स विश्वेशो विवेश च रसां प्रभुः ।
रसां पुनः प्रविष्टश्च योगं परममास्थितः ॥ ५४॥
शैक्षं(क्ष्यं) स्वरं समास्थाय उद्गीथं प्रासृजत् स्वरम् ।
सस्वरस्स्वानुनादी च सर्वशः स्निग्ध एव च ॥ ५५॥
बभूवान्तर्जलगतः सर्वभूतगणोदितः ।
ततस्ता वसुरौ कृत्वा वेदान् समयबन्धनान् ॥ ५६॥
रसातले विनिक्षिप्य यतश्शब्दस्ततो द्रुतौ ।
एतस्मिन्नन्तरे राजन्! देवो हयशिरोधरः ॥ ५७॥
जग्राह वेदानखिलान् रसातलगतान् हरिः ।
प्रादाच्च ब्रह्मणो भूयः ततः स्वा प्रकृतिं गतः ॥ ५८॥
स्थापयित्वा हयशिर(रा) उदक् पूर्वे महोदधौ ।
वेदाना मालयश्चापि बभूवाश्वशिरास्ततः ॥ ५९॥
अथ किञ्चिदपश्यन्ता दानवौ मधुकैटभौ ।
पुनराजग्मतुस्तत्र वेगितौ पश्यतां तु तौ ॥ ६०॥
यत्र वेदा विनिक्षिप्तास्तत् स्थानं शून्यमेव च ।
तत्र उत्तममास्थाय वेगं बलवतां वरौ ॥ ६१॥
पुनरुत्तस्थतुश्शीघ्रं रसाना मालयात्तदा ॥
ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ॥ ६२॥
श्वेतं चन्द्रविद्धाभमनिरुद्धतनौ स्थितम् ।
भूयोऽप्यमितविक्रान्तं निद्रयोगमुपागतम् ॥ ६३॥
(64 Shloka not there in the list may be typographical error)
आत्मप्रमाणरचिते अपामुपरि कल्पिते ।
शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ ६५॥
निष्कल्मषेण सत्त्वेन सम्पन्नं रुचिरप्रभम् ।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ ६६॥
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ ६७॥
अने न नूनं वेदानां कृतमाहरणं रसात् ।
कस्यैष! को नु खल्वेष! किञ्चस्वपिति भोगवान् ॥ ६८॥
इत्युच्चारितवाक्यौ तु बोधयामासतुर्हरिम् ।
युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः ॥ ६९॥
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे ।
अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ ७०॥
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।
ब्रह्मणोऽपचितिं कुर्वन् जघान मधुसूदनः ॥ ७१॥
ततस्तयोर्वधेनाशु वेदापहरणेन च ।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ ७२॥
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः ।
निर्ममे स तदा लोकान् कृत्स्नान् स्थावरजङ्गमान् ॥ ७३॥
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् ।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ ७४॥
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ ७५॥
एव मेष महाभागो बभूवाश्वशिरा हरिः ।
पौराणमेतत् प्रख्यातं रूपं वरदमैश्वरम् ॥ ७६॥
यो ह्येतद्ब्र(द्ब्रा)ह्मणो नित्यं श्रुणुयाद्धारयीत वा ।
न तस्याध्ययनं नाशमपगच्छेत् कदाचन ॥ ७७॥
आराध्य तपसोग्रेण देवं हयशिरोधरम् ।
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ ७८॥
एतद्धयशिरो राजन्! आख्यानं तव कीर्तितम् ।
पुराणं वेदसहितं यन्मात्वं परिपृच्छसि ॥ ७९॥
यायामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।
तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ८०॥
एष वेदनिधिः श्रीमान् एष वैत पसान्निधिः ।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्य्रं हरि (हवि) र्विभुः ॥ ८१॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः ।
तपो नारायणपरं नारायणपरा गतिः ॥ ८२॥
नारायणपरो धर्मः पुनरावृत्ति दुर्लभः ।
प्रवृत्ति लक्षणश्चैव धर्मो नारायणात्मकः ॥ ८३॥
नरायणात्मको गन्धः भूमेश्चेष्टकमः स्मृतः ।
अपां चापि गुणा राजन्! रसा नारायणात्मकाः ॥ ८४॥
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ।
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ॥ ८५॥
नारायणात्मकश्चैव शब्द आकाश सम्भवः ।
मनश्चापि ततो भूतमव्यक्त गुणलक्षणम् ॥ ८६॥
नारायणपरः कालो ज्योतिषामयनं च यत् ।
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ॥ ८७॥
नारायणपरं साङ्ख्यं योगो नारायणात्मकः ।
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ॥ ८८॥
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ।
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ॥ ८९॥
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ।
पञ्चकारणसङ्ख्यातो (ता) निष्ठा सर्वत्र वै हरिः(रे)॥ ९०॥
तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोमुखैः ।
तत्त्वमेको महायोगी हरिः नारायणः प्रभुः ॥ ९१॥
ब्रह्मादीनां सलोकानां ऋषीणां च महात्मनाम् ।
साङ्ख्यानां योगिनां चापि यतीनां चात्मवेदिनाम् ॥ ९२॥
मनीषितं वि(तानि) जानाति केशवो न तु तस्य वै ।
ये केचित् सर्वलोकेषु दैवं पित्य्रं च कुर्वते ॥ ९३॥
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ।
सर्वेषामाश्रयो विष्णुरैश्वरं विधि(सर्ग) मास्थितः ॥
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ९४॥
अयं हि (एषो हि) नित्यः परमो महर्षिः महाविभूतिर्गुणवान् गुणाख्यः (निर्गुणाख्यः)।
गुणैश्च संयोगमुपैति शीघ्रं कालो यथार्तावृतुसम्प्रयुक्तः ॥ ९५॥ (यथार्थं व्रतसम्प्रयुक्ते)
नैवास्य विन्दन्ति(बुद्ध्यन्ति) गतं महात्मनो न चा (नैवा) गतं कश्चिदिहानुपश्यति
ज्ञानात्मिकास्संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ९६॥
इति हयशिरोपाख्यानं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri