श्रीहयग्रीवप्रार्थनाद्वादशकम्
नमोवेदान्तनिधये शास्त्राणां पतये नमः ।
यज्ञानां निधये तुभ्यं कर्मणां फलदायिने ॥ १॥
विद्याधराय योगाय वागीशाय नमो नमः ।
अचिन्त्याय नमो नित्यं सर्वज्ञानात्मने नमः ॥ २॥
ऋक्मूर्तिस्त्वं महाबाहो! यजुर्मूर्तिरधोक्षजः ।
साममूर्तिस्त्वमेवाद्यः सर्वदाऽथर्वमूर्तिमान् ॥ ३॥
सर्वज्ञानमयोऽसि त्वं हतज्ञानोऽहमच्युत !।
देहि मे सर्वविज्ञानं हयग्रीव! नमोऽस्तु ते ॥ ४॥
प्रपन्नोऽहं हयग्रीवं प्रपन्नार्तिहरं हरिम् ।
यस्य प्रसादलेशेन वागीशत्वमुपाविशत् ॥ ५॥
धन्योऽहं कृतकृत्योऽहं मुक्तोऽहं कर्मबन्धनैः ।
हयग्रीवपदाम्भोजस्मरणेनैव चेतसा ॥ ६॥
श्रीभूनीळादिसहितं सर्वाभरणभूषितम् ।
हयग्रीवमहं वन्दे चक्रपद्मधरं हरिम् ॥ ७॥
शङ्खचक्रमहापद्मज्ञानपुस्तकधारिणम् ।
हयग्रीवमहं वन्दे विद्यैश्वर्यप्रदायकम् ॥ ८॥
शुद्धस्फटिकसङ्काशं पुण्डरीकायतेक्षणम् ।
सर्वशास्त्रप्रदातारं हयग्रीवमुपास्महे ॥ ९॥
ज्ञानानन्दमयन्देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १०॥
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् ।
सम्पूर्णचन्द्रसङ्काशं हयग्रीवमुपास्महे ॥ ११॥
विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ १२॥
इति श्रीहयग्रीवप्रार्थनाद्वादशकं सम्पूर्णम् ।
Encoded and proofread by Chandrasekhar Karumuri