श्रीहयग्रीवपञ्जरम् २
दुग्धाब्धीन्दुहराद्रिकुन्दवपुषं रक्ताम्बुजाक्षं हरिं
राकापूर्णशशाङ्कबिम्बविलसच्छुभ्राब्जपीठस्थितम् ।
हेषावेदघनध्वनद्ध्वनिरवं बालार्करक्ताम्बरं
मुद्रापुस्तकशङ्खचक्रविलसद्बाहुं भजेऽश्वाननम् ॥ १॥
प्रणम्य शिरसा देवं नारायणमशेषगम् ।
रमावक्षोजकस्तूरीपङ्कमुद्रितवक्षसम् ॥ २॥
सर्वशास्त्रार्थतत्त्वज्ञः पाराशर्यस्तपोधनः ।
हिताय सर्वजगतां नारदं मुनिमब्रवीत् ॥ ३॥
नादविद्याविशेषज्ञं कर्पूरधवलाकृतिम् ।
महतीनादसन्तुष्टमानसं महितं परम् ॥ ४॥
हिरण्यगर्भसम्भूतं हिरण्याक्षारिसेविनम् ।
पुण्यराशिं पुराणज्ञं पावनीकृतदिक्तटम् ॥ ५॥
व्यास उवाच-
देवर्षे नारद श्रीमन् साक्षाद्ब्रह्माङ्गसम्भव ।
भवानशेषविज्ञानपारगस्तपसां निधिः ॥ ६॥
वेदान्तपारगस्सर्वशास्रार्थप्रतिभोज्ज्वलः ।
परब्रह्मणि निष्णातस्सच्चिदानन्दविग्रहः ॥ ७॥
जगद्धिताय जनितस्साक्षादिव चतुर्मुखः ।
हन्यन्ते भवता दैत्याः दैत्यारिभुजविक्रमैः ॥ ८॥
लोकानुग्रहकर्ता त्वं त्रैलोक्यं तद्वदानघ ।
मनुष्या ऋषयो देवाः त्वय्येव परिसत्तम ॥ ९॥
कर्ता त्वं लोककार्याणां परत्र परिनिष्ठितः ।
पृच्छामि त्वामशेषज्ञ निदानं सर्वसम्पदाम् ॥ १०॥
सर्वसंसारनिर्मुक्तं आपद्घ्नं शान्तमानसम् ।
यत्सर्वलोकहितकृत् यत्प्रशंसन्ति योगिनः ॥ ११॥
यतश्चराचरं विश्वं धृतं येन महामुने ।
स्पृहयन्त्युन्नतप्राप्तिं यस्मिन्ब्रह्मादिदेवताः ॥ १२॥
निर्माणावनसंहारा यतो विश्वस्य सत्तम ।
यस्य प्रभावाद्ब्रह्माद्याः लभन्ते वाञ्छितं फलम् ॥ १३॥
दारिद्र्यनाशो जायेत यस्मिन्श्रुतिपथं गते ।
विवक्षितार्थनिर्वाहो मुरवान्निस्सरते च गीः ॥ १४॥
नृपाणां राज्यहीनानां येन राज्यं भविष्यति ।
अपुत्रः पुत्रवान् येन वन्ध्या पुत्रवती भवेत् ॥ १५॥
शत्रूणामचिरान्नाशो ज्ञानं ज्ञानेप्सुनामपि ।
चतुर्वर्गफलं यस्य जपाद्भवति सुव्रत ॥ १६॥
भूतप्रेतपिशाचाद्याः यक्षराक्षसपन्नगाः ।
ज्वरादिवातरोगाश्च यस्य स्मरणमात्रतः ॥ १७॥
मुच्यन्तेऽरिवलशार्दूल यद्वाखिलजगद्धितम् ।
तदेतदिति निश्चित्य ब्रूहि मे सकलं गुरो ॥ १८॥
इत्युक्तस्तेन मुनिना व्यासेनामिततेजसा ।
बद्धाञ्जलिपुटो भूत्वा सादरं वैणिको मुनिः ॥ १९॥
नमस्कृत्य जगन्मूलं लक्ष्मीकान्तं परात्परम् ।
नमोवाक्यैः पुरश्चक्रे मन्त्रेणानेन विष्णवे ॥ २०
ओङ्कारोद्गीथरूपाय ऋग्यजुस्साममूर्तये ।
नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २१॥
अज्ञानतिमिरं छिन्धि ज्ञानमाशु प्रयच्छ मे ।
देहि मे सम्पदं देव हयशीर्ष नमोऽस्तु ते ॥ २२॥
भूतप्रेतपिशाचादीन् छिन्धि देव जनार्दन ।
ज्वरादीन्सकलान् रोगान् नाशयाशु रमापते ॥ २३॥
दारिद्र्यं सकलं छिन्धि कुरु सौभाग्यभाजनम् ।
शत्रून्नाशय देवेश हयशीर्ष नमोऽस्तु ते ॥ २४॥
मेधां विद्यां बलं प्रज्ञां सम्पदं पुत्रपौत्रकान् ।
देहि मे सकलं देव हयशीर्ष नमोऽस्तु ते ॥ २५॥
कर्कोटकमुखान् सर्पान् सविषान्विलयं नय ।
अमृतं कुरु मां देव हयशीर्ष नमोऽस्तु ते ॥ २६॥
स्त्रीवश्यं जनवश्यं च राजवश्यं परात्परम् ।
कुरु देवाङ्गनावृन्दसेव्यमानपदाम्बुज ॥ २७॥
हंसाय परमेशाय चन्द्रमण्डलवासिने ।
नमो हयोत्तमाङ्गाय वाञ्छितार्थं प्रयच्छ मे ॥ २८॥
ऋयजुस्सामरूपाय ऋताय महसे नमः ।
ऋक्षेश बिम्बमध्यस्थराजीवासनभाजिने ॥ २९॥
वेदवेदान्तवेद्याय वेदाहरणकर्मणे ।
वादाहव महाबाहो भ्रंशिने ब्रह्मणे नमः ॥ ३०॥
प्रज्ञाप्रदायिने नित्यं भजतां भावितात्मनाम् ।
प्रणवोद्गीथवपुषे प्रणतिं प्रतिपादये ॥ ३१॥
मन्दारकुन्दस्फटिकमहनीयोरुवक्षसे ।
मनीषाप्रददेवाय महाश्वशिरसे नमः ॥ ३२॥
इति द्वादशमन्त्रेण नमस्कृत्य जनार्दनम् ।
प्राह प्रसन्नवदनः पाराशर्यमनिन्दितम् ॥ ३३॥
नारद उवाच ।
साधु साधु त्वया पृष्टः मुने सत्यवतीसुत ।
कृत्स्नाध्वरात्समुद्धत्य विलोक्य निखिलागमान् ॥ ३४॥
संशोध्य सर्वशास्त्राणि समालोक्येतिहासकान् ।
पुराणमन्त्रशास्त्राणि मथित्वा दर्शनान्यपि ॥ ३५॥
सर्वतस्सारमुद्धृत्य तव वक्ष्ये यथार्थतः ।
अवधाने मनः कृत्वा शृणु सत्यवतीसुत ॥ ३६॥
अशेषलोकहितकृदज्ञानतिमिरापहम् ।
अणिमादिगुणोपेतं हयग्रीवस्य पञ्जरम् ॥ ३७॥
अर्च्यं ब्रह्मादिभिर्देवैरनन्ताद्वैतकारणम् ।
उपास्यमानं सततं उमाजानिमुखैस्सुरैः ॥ ३८॥
ब्रह्महत्यादिपापघ्नमपूर्वफलदायकम् ।
सारस्वतादिसंसृष्टकारणं कवितावहम् ॥ ३९॥
सङ्गीतविद्यानिलयं श्रुतिदं पुत्रदायकम् ।
किमुच्यते महाभाग प्रभावस्तस्य शाश्वतः ॥ ४०॥
यस्य प्रभावाद्ब्रह्मापि ब्रह्मत्वमगमत्पुरा ।
शम्भुश्शम्भुत्वमापन्नः शक्रश्शक्रत्वमागतः ॥ ४१॥
जप्त्वा यक्षेशतां प्राप्तः कुबेरः पञ्जरोत्तमम् ।
जप्त्वा बृहस्पतिस्सम्यग्धयग्रीवस्य पञ्जरम् ॥ ४२॥
हयग्रीवप्रसादेन वाचस्पत्यमवाप्तवान् ।
प्राचीदिक्पालतां यातः श्रुत्वेदं पञ्जरं पुरा ॥ ४३॥
अस्मादन्येऽ पि दिक्पाला तत्तत्स्थानं गता ध्रुवम् ।
लब्ध्वोपदेशं गिरिराट्᳐सैनापत्यं गतो गुहः ॥ ४४॥
सर्वक्षत्रवधं चक्रे रामश्चास्य जपान्मुने ।
राजा बभूव सर्वेषां शशाङ्कोऽस्य प्रभावतः ॥ ४५॥
सूर्यस्तेजस्वितां प्राप्तो लब्ध्वेदं ब्रह्मणोऽन्तिकात् ।
शुक्रस्य कवितासिद्धिं प्रायच्छच्चन्द्रशेरवरः ॥ ४६॥
प्रह्लादोऽस्य जपादेव तीर्त्वा बाधामहाम्बुधिम् ।
भक्त्या परमया युक्तः कैवल्यं परमं ययौ ॥ ४७॥
धर्मराज इति ख्यातिं यमोऽपि गतवान् ध्रुवम् ।
रामो ददाति सर्वेभ्यो जपात्सकलसम्पदः ॥ ४८॥
एतत्पञ्जरमाहात्म्यं अनुभूयोर्वशी चिरम् ।
ख्यातिं जगाम वेदेषु बुधपुत्रः पुरूरवाः ॥ ४९॥
लब्ध्वेदं पञ्जरप्राप्तिं मुक्तिं सम्मानतो जपात् ।
धर्मार्थकाममोक्षाणामिदमेव परायणम् ॥ ५०॥
पुरा सर्वासु विद्यासु नष्टासु प्रलये मुने ।
नारायणो जगत्कर्ता रमाश्रितभुजान्तरः ॥ ५१॥
निःस्वाध्यायवषट्कारं स्वधास्वाहाविवर्जितम् ।
विलोक्य भुवनं कृत्स्नं किमिति व्याकुलोऽभवत् ॥ ५२॥
अन्वीक्ष्य वेदशास्त्राणि नापश्यत्किमपि प्रभुः ।
हयग्रीवतनुं प्राप्य सच्चित्सुखमयीं ततः ॥ ५३॥
निष्कलङ्कशशिच्छायां निर्निद्रकमलेक्षणाम् ।
नित्यामचिन्त्यविभवां नीराजितपदां सुरैः ॥ ५४॥
चन्द्रमपडलमध्यस्थपुण्डरीकनिषेदुषीम् ।
शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ५५॥
पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया ।
ऋषिभिः प्राक्तनैर्ध्येयां ज्ञानविज्ञानपूरिताम् ॥ ५६॥
मनोवाग्विषयातीतामागमान्तनिवासिनीम् ।
शोकात्तीर्त्वा गुणोन्मुक्तामवस्थात्रयवर्जिताम् ॥ ५७॥
सम्यग्वीरासनासीनस्साक्षाच्चिन्मात्रविग्रहः ।
अध्यासीत्पञ्जरं स्वीयं वेदसारमचिन्तयन् ॥ ५८॥
अष्टवारमिदं ब्रह्मन्नष्टाविंशतिसङ्ख्यया ।
आवर्तयन् ददर्शाग्रे प्रणवं पञ्जरोद्भवम् ॥ ५९॥
गायत्री प्रणवाज्जज्ञे ततस्साङ्गादयो मुखाः ।
स्मृतयश्च पुराणानि सेतिहासानि सत्तम ॥ ६०॥
तस्मादशेषविद्यानां निदानमिदमिष्यते ।
उपादिशद्गिरीशाय हयग्रीवस्य पञ्जरम् ॥ ६१॥
अस्मादवाप्तवानेतद्ब्रह्मा लोकपितामहः ।
ब्रह्मा मुनीनां सर्वेषां गुह्यं चोपादिशत्स्वयम् ॥ ६२॥
अहमिन्द्रादिदेवानां तत्तत्स्थानप्रसिद्धये ।
उपदेशं तवाप्यद्य दास्यामि नियतव्रत ॥ ६३॥
त्वया सर्वेषु लोकेषु ख्यातिमेतद्गमिष्यति ।
शठायागुरुभक्ताय चलायानात्मवेदिने ॥ ६४॥
कृतघ्नायाभिशप्ताय कुलघ्नायाकृतात्मने
कथञ्चिदपि नो दद्याद्धयग्रीवस्य पञ्जरम् ॥ ६५॥
अस्य स्मरणमात्रेण सर्वं सिद्ध्यति भूतले ।
श्रीवाक्कामी विशेषेण धारयेत्पञ्जरोत्तमम् ॥ ६६॥
एकैकमन्त्रं प्रत्येकं पठ्यं मन्त्रोऽपि इष्यते ।
तस्मात्सर्वप्रयत्नेन धार्यमेतच्छुभेप्सुभिः ॥ ६७॥
ऋषिरस्य हयग्रीवो देवता तु स एव हि ।
प्रोक्तमानुष्टुभं छन्दं सर्वदेवैर्नियुज्यते ॥ ६८॥
क्षीराम्भोनिधिसङ्काशं कमलायतलोचनम् ।
कलानिधिकृतावासं कर्णिकापीठवासिनम् ॥ ६९॥
ज्ञानमुद्राक्षवलयशङ्खचक्रलसत्करम् ।
भूषाकिरणसदोहनीराजितदिगन्तरम् ॥ ७०॥
वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितम् ।
देवतासार्वभौमं तं ध्यायेदिष्टार्थसिद्धये ॥ ७१॥
हयग्रीवः शिरः पातु ललाटं चन्द्रमध्यगः ।
शास्त्रदृष्टिर्दृशौ पातु मुखं ब्रह्मात्मकः श्रुतीः ॥ ७२॥
घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः ।
जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतिम् ॥ ७३॥
ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरम् ।
शिवात्मा चिबुकं पातु कपोलौ कमलाप्रभुः ॥ ७४॥
बिम्बात्मा पिठरं पातु कर्णौ नादात्मको मम ।
भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ ७५॥
ज्ञानात्मा हृदयं पातु विश्वात्मा कुचयुग्मकम् ।
मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ ७६॥
कुक्षिं रक्षतु विश्वात्मा बलिभङ्गो वलित्रयम् ।
नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकः ॥ ७७॥
ऊरू दामोदरः पातु जानुनी मधुसूदनः ।
पादौ त्रिविक्रमः पातु पातु पादाङ्गुलीर्हरिः ॥ ७८॥
सर्वाङ्गं सर्वगः पातु पातु रोमाणि केशवः ।
धातूनादिहितः पातु भार्यां लक्ष्मीपतिर्मम ॥ ७९॥
पुत्रान् विश्वकुटुम्बी मे पातु बन्धून् सुरेश्वरः ।
वित्तमिन्द्रात्मकः पातु वह्न्यात्मा शत्रुसंहतेः ॥ ८०॥
प्राणान् वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः ।
वरुणात्मा रसान् पातु व्योमात्मा हृद्गुहान्तरम् ॥ ८१॥
दिवारात्रौ हृषीकेशः पातु सर्वं जगद्गुरुः ।
विषमे सङ्कटे चैव पातु क्षेमङ्करो मम ॥ ८२॥
सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा ।
प्राच्यां रक्षतु विश्वात्मा आग्नेय्यां ज्ञानदीपकः ॥ ८३॥
याम्यां बोधप्रदः पातु नैरृत्यां चिद्घनप्रभुः ।
विद्येशः पातु वारुण्यां वायव्यां चिन्मयो मम ॥ ८४॥
कौबेर्यां वित्तदः पातु पात्त्वैशान्यां जगद्गुरुः ।
ऊर्ध्वं पातु जगत्स्वामी पात्वधस्तात् परात्परः ॥ ८५॥
रक्षाहीनं तु मे स्थानं रक्षत्वखिलनायकः ।
इतीदं कीर्तयेद्यस्तु कवचं देवपूजितम् ॥ ८६॥
भवेद्वादशमन्त्रेण पुरश्चर्या मुनीश्वर ।
लक्षसङ्ख्या भवेत्सोऽपि आद्यन्तं पञ्जरं न्यसेत् ॥ ८७॥
किं वा द्वादशमन्त्रेण सर्वस्य जनयिष्यति ।
ऊरूदघ्नजले स्थित्वा हयग्रीवस्य पञ्जरम् ॥ ८८॥
जपेद्वादशमन्त्रेण मण्डलान्तं दृढव्रतः ।
सहस्रं वा तदर्धं वा त्रिशतं वा शतं तथा ॥ ८९॥
सर्वज्ञत्वं लभेत्सद्यः हयग्रीव इवापरः ।
सत्यं सत्यमहं वक्ष्ये नासाध्यं तस्य विद्यते ॥ ९०॥
आनन्दसान्द्रमाखिलात्मकमद्वितीयं
विद्यानिधिं विविधशोभनहेतुभूम् ।
आराधयेद्धृदयपङ्कजमध्यसंस्थं
अश्वोत्तमाङ्गमखिलैरभिवन्द्यमानम् ॥ ९१॥
हेषा यस्य त्रयीघोषो मन्दुरा चन्द्रमण्डलम् ।
घासो महासुरप्राणाः हयराणामुपास्महे ॥ ९२॥
(श्रीनारदपुराणे)
इति हयग्रीवपञ्जरं २ सम्पूर्णम् ।
Proofread by PSA Easwaran