हयग्रीवपटलम्
श्रीगणेशाय नमः ।
हयशिरः पदं ङेन्तंहृदयं च समुद्धरेत् ।
स्वबीजादिमहामन्त्रश्चतुर्वर्गफलप्रदः ॥
अस्य हयग्रीवाष्टाक्षरमन्त्रस्य ब्रह्मा ऋषिरनुष्टुप्छन्दः
श्रीहयग्रीवरूपी विष्णुर्देवता ममाभीष्टकामनासिद्धयर्थे जपे विनियोगः ॥
ब्रह्मणे ऋषये नमः शिरसि ।
अनुष्टुप्छन्दसेनमो मुखे ।
श्रीहयग्रीवरूपिण्यै विष्णुदेवतायै नमो हृदि ।
अथ कराङ्गन्यासौ ।
ह्रां अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
ह्रूं मध्यमाभ्यां नमः ।
ह्रैं अनामिकाभ्यां नमः ।
ह्रौं कनिष्ठिकाभ्यां नमः ।
ह्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि ।
ततो ध्यानम् ।
शरच्छशाङ्कप्रभमश्ववक्त्रम्मुक्तामयैराभरणैःप्रदीप्तम् ।
रथाङ्गशङ्खौ धृतवाहयुग्मं विद्याख्यमुद्रान्यकरं नमामि ॥
एवं ध्यात्वा मानसैः सम्पूज्य शङ्खस्थापनं
कृत्वा पीठपूजां विधाय तद्यथा
मूलाधारे ॐ मण्डूकाय नमः ।
स्वाधिष्ठाने ॐ कालाग्निरुद्राय नमः ।
नाभौ ॐ प्रकृत्यै नमः ।
हृदि ॐ ह्रीं आधारशक्त्यै नमः ।
कूर्माया नमः । अनन्ताय नमः । वाराहाय नमः ।
पृथिव्यै नमः । सुधासिन्धवे नमः ।
नवरत्नद्वीपाय नमः । जातवनाय तन्मध्ये मणिमण्डपाय
तन्मध्ये कल्पवृक्षाय नमः । तदधो रत्नवेदिकायै नमः ।
तदुपरि स्वसिंहासनाय नमः । तदुपरिश्वेतातपत्राय नमः ।
सितचामराभ्यां नमः । तालवृन्ताभ्यां नमः । विमलादर्शाय नमः ।
ततो मुखपार्श्वनाभिवामपार्श्वेषु धर्मज्ञानवैराग्यैष्वर्यान्
दक्षिणांशतदूर्वामोरुतदंशेषु अधर्माज्ञानावैराग्यानैश्वर्यान्
अनन्ताय नमः । सर्वतत्त्वाय नमः । पद्माय नमः । आनन्दकन्दाय नमः ।
संविन्नालाय नमः । प्रकृतिमयपत्रेभ्यो नमः ।
विकारमयकेसरेभ्यो नमः ।
पञ्चाशद्वर्णबीजाढ्यकर्णिकायै
अं अर्कमण्डलाय द्वादशकलात्मने नमः ।
ओं सोममण्डलाय षोडशकलात्मने नमः ।
वं वह्निमण्डलाय मण्डलात्मने नमः ।
सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे नमः ।
ओं आत्मने अं अन्तरात्मने नमः । पं परमात्मने नमः ।
ह्रीं ज्ञानात्मने पीठशक्तिं न्यसेत् ।
केसरेषु मध्ये च पूर्वादिक्रमेण ओं विमलायै नमः ।
एवं उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै नमः ।
योगायै णमः । प्रभ्वै नमः । सत्यायै नमः । ईशानायै नमः ।
अनुग्रहायै नमः । तदुपरि ॐ नमो भगवते विष्णवे सर्वभूतात्मने
वासुदेवाय सर्वात्मसंयोगयोगपीठात्मने नमः ।
इति पीठपूजां कृत्वा पुनर्ध्यात्वाऽऽवाहनादिपञ्चपुष्पाञ्जलिदानपर्यन्तं
पूजां विधायावरणपूजामारभेत् ।
तत्राङ्गैः प्रथमावरणम् ॥
प्रज्ञाहयग्रीवाय नमः । मेधाहयग्रीवाय नमः । स्मृतिहयग्रीवाय नमः ।
विद्याहयग्रीवाय नमः । लक्ष्मीहयग्रीवाय नमः । वागीशहयग्रीवाय नमः ।
विद्याविशालहयग्रीवाय नमः । नादविमर्दहयग्रीवाय नमः ।
इत्यष्टभिर्द्वितीयम् ॥
लक्ष्मीसरस्वतीरति-प्रीति-कीर्ति-कान्ति-तुष्टि पुष्टिभिस्तृतीयम् ॥
कुमुदादिभिर्गजैश्चतुर्थम् ॥
इन्द्रान्दिभिः पञ्चमम् ॥
ततो धूपादिविसर्जनान्तं कर्म समापयेत् ।
अस्य पुरश्चरणं चतुर्लक्षं जपः ।
तथाच-वेदलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ॥
आज्येन तद्दशांशहोमः ॥
इति हयग्रीवपटलं समाप्तम्
Proofread by Nat Natarajan, NA