श्रीहयग्रीवमङ्गलश्लोकाः
ओङ्कारपञ्जरस्थाय ओजस्तेजोधराय च ।
ओषधीशालयान्तस्थवागधीशाय मङ्गलम् ॥ १॥
हरिणाङ्कान्तरस्थाय हरिणाङ्कासनाय च ।
हरिण्यधिष्ठिताङ्काय हयग्रीवाय मङ्गलम् ॥ २॥
यमिनामतिमोदाय यमबाधानिवारिणे ।
यज्वने यज्ञपतये यज्ञाङ्गायास्तु मङ्गलम् ॥ ३॥
ग्रीवाभरणयुक्ताय गीताशास्त्रप्रदायिने ।
गीर्वाणानन्ददायाऽस्तु हयग्रीवाय मङ्गलम् ॥ ४॥
वाजिवक्त्राय हरये वागीशत्वप्रदायिने ।
वामाङ्कस्थाङ्गनापाङ्गसङ्गतायास्तु मङ्गलम् ॥ ५॥
यशस्विने च चक्राब्जज्ञानपुस्तकधारिणे ।
सर्वाभरणयुक्ताय सैन्धवास्याय मङ्गलम् ॥ ६॥
नतदेवेशमौलिस्थनवरत्नाङ्किताङ्घ्रये ।
हेमाम्बराञ्चिताङ्गाय हेषारावाय मङ्गलम् ॥ ७॥
मत्स्यावतारकृत्याय मङ्गलौघप्रदायिने ।
महाश्वशिरसे सर्वमङ्गलायास्तु मङ्गलम् ॥ ८॥
मुक्तिविद्याप्रदात्रे च अनन्तफलदायिने ।
पद्मपीठान्तरस्थाय पद्माश्लिष्टाय मङ्गलम् ॥ ९॥
इति श्रीहयग्रीवमङ्गलश्लोकाः समाप्ताः ।
Proofread by Chandrasekhar Karumuri