श्रीहयग्रीवमङ्गलम्
मङ्गलं श्रीहयास्याय वेदाहरणकर्मणे ।
प्रणवोद्गीतवपुषे हयग्रीवाय मङ्गलम् ॥ १॥
चतुःषष्टिकलाधीश! विश्वग्रूप! हयानन!।
महार्णवाम्बुपर्यङ्क! विष्णवे तेऽस्तु मङ्गलम् ॥ २॥
अनिरुद्धाय सौम्याय वेदभर्त्रे सनातन! ।
श्रीदाय श्रीमयायास्तु मङ्गलं स्वामिने तव ॥ ३॥
भद्रश्रीवत्सहाराढ्य! पञ्चरात्रप्रवर्तक!।
भक्तात्मभावभवन! मङ्गलं तेऽस्तु मुक्तिद ॥ ४॥
सर्वकर्मसमाराध्य! पूर्णषाड्गुण्यविग्रह!।
श्रिया गाढोपगूढात्मन्! मङ्गलं ते हयानन!॥ ५॥
अङ्केनोदूह्य वाग्देवीमाचार्यकमुपाश्रित!।
मङ्गलं तेऽस्तु वागीश! श्रीनिधे! श्रीनिकेतन ॥ ६॥
स्वराजे च विराजे च संराजे ते हयानन!।
वेदकर्त्रे वेदभर्त्रे वेदहर्त्रेऽस्तु मङ्गलम् ॥ ७॥
क्षमासाराय हरये दयाघन! हयानन!।
वेदवेदान्तवेद्याय सर्वदा तव मङ्गलम् ॥ ८॥
श्रीरङ्गनाथेन भक्तेन हयग्रीवस्य मङ्गलम् ।
रचितं प्रीतये तस्य भूयात् सर्वत्र मङ्गलम् ॥ ९॥
इति श्रीहयग्रीवमङ्गलं सम्पूर्णम् ।
Proofread by Chandrasekhar Karumuri