हयग्रीवदण्डकम्
जय जय तुरङ्गास्य नस्तो मुखान्निःसृतानन्तवेदादिविद्याप्रबोधीकृताम्भोजसम्भूत हेषारवोन्निर्जिताशेषदैतेय लक्ष्म्यामृतेनानिशं सिच्यमानाङ्ग राकेन्दुकोटिप्रतीकाश देहप्रभाभासिताब्जात गर्भाण्डवाह्यान्तरानम्रधात्रीररुद्रेन्द्र मुख्या मरव्रातको-
टीरमाणिक्यकान्तिच्छटारञ्जिताङ्घ्रे शरच्चन्द्रहृन्मन्दिरध्वान्तराशे प्रपन्नामरानोकहस्त्वं पुरा देव नारायणाख्येन रूपेण लोकं स्वगर्भे निधाय श्रियो बाहुयुग्मान्तरे संस्थितः सन् सिसृक्षुस्त्वमादौ विधातारमासृज्य तत्सत्रयागे हयग्रीवरूपं
समास्थाय दैत्याधमौ लोकशत्रू मधूकैटभाख्यौ च चक्रेण हत्वा पुनर्लोकःसंरक्षणार्थं झषाद्यावतारैर्महादैत्यसङ्घान् विनिर्मथ्य लोकान् सदा पासि भो देव यस्त्वां मनुष्योत्तमो दुग्धपाथोधिमध्यस्थसुश्चेतनामोल्लसद्वीपमध्ये सुसन्तानवृक्षावली वेष्टिते सन्मणिस्तम्भयुक्ते महामण्डपे तत्र परहे कर्णिकायां सुवासूतिबिम्बे महायोगपीठे निषण्णं नमद्देवतामौलिमन्दारमालास्रवन्माकरन्दद्रवक्षालितेनाङ्कुशच्छ-त्रपाठीनवज्राम्बुजातोर्ध्वरेखाङ्कितेनाङ्घ्रियुग्मेन संराजितं श्वेतकर्मा- भगुल्फं लसज्जानुयुग्मं दिशादन्तिशुण्डोपमोरुद्वयं दुग्धसिन्ध्वन्तरीयोपमेनाच्छकौशेयवस्त्राभिरामेण भास्व-
नितम्बेन युक्तं वियद्वाहिनी वर्तुलावृत्तगम्भीरनाभीसरस्तीरसञ्जातरोमावलीमण्डिते-
नोदरेणाञ्चितं श्रीनिवासायितोरस्तलं शेषभोगाभहस्तैश्चतुर्भिः सदा शङ्खमुक्ताक्षमालालसत्पुस्तकोद्बोधयुक्तारविन्दानि सम्यग्दधानं रणद्भृङ्गसंसक्तसम्फुल्लमन्दारमालावलीलग्नसत्कण्ठशोभाभिरामं शशाङ्कांशुसङ्काशसत्केशरव्रातकेशावलीमण्डितं
दन्तकान्तिच्छटाभासिताशावकाशं दलत्पद्मपत्रायताक्षं स्फुरद्दक्षिणावर्तशङ्खप्रतीकाशकर्णं लसन्मस्तकं दिव्यमुक्तामयोदारकोटीरकेयूरहारावलीमेखलाद्याखिलैर्भूषणै-
र्भूषितं चन्द्रनाचर्चिताशेषगात्रं सदा मूर्तिमद्वेदशास्त्रेतिहासादिविद्यावलीसेवितं
श्रीसतीचञ्चलापाङ्गनीराजित ब्रह्मरुद्रादिवन्द्यं सन्मनः पङ्कजे चिन्तयन् देव बाह्ये हरिद्गोमयालिप्तके रङ्गवल्लीसुशोभाञ्चिते स्थण्डिले श्वेतकौशेयवस्त्रावृते मालतीमल्लि-
कादिप्रसूनावलीमण्डिते चक्रपद्मादिसन्मण्डलोपेतपीठे यथा याज्ञिका बाह्यवह्नौ निजान्तःस्थमग्निं समाकृष्य मन्त्राक्षतैः स्थापयित्वार्चयन्ति स्म तद्वद्बहिर्योगमार्गेण
हृत्पद्ममध्यस्थमीशं स्वबिम्बे प्रतिष्ठाप्य नित्यं त्वदंष्टाक्षरेणोक्तमार्गेण सम्पूजयन् वर्तते देव यद्वा सुवर्णादिसाण्लोहपत्रेषु वा भूर्जपत्रेषु वा पट्टवस्त्रेऽथवा वह्निपूर्वाणदिग्राजदन्तारकेषु क्रमादेकवर्णं त्वदीयं लिखित्वाथ पञ्चाक्षरं गारुडं चाष्टवर्णं स्वरानुष्टुमं
इमं सम्यगालिख्य तद्वद्बहिर्बीजमार्गेष्वनङ्गाक्षैरैः कादिसान्तैः क्रमाद्वेष्टयित्वा ततो व्योमयुग्मं घरामण्डले दिक्पतीनां च बीजानि संलिख्य त्वद्बिम्बवद्गन्धपुष्पोपहारादिभिर्भक्तिभावेन सम्पूज्य सन्मन्त्रसिद्धो भवेत् तस्य वक्त्रे स्थिरा शारदा तस्य गेहे ध्रुवा श्रीः स्वयं तस्य दासा नृपालादयस्तस्य भक्तिर्भवेच्छाश्वती तस्य विद्या स्फुरत्यश्रुतप्रज्ञया तस्य पुत्राभिवृद्धिर्भवेत् तस्य वाञ्छा
लभन्तेऽखिला देव यद्वा मनोर्जञ्जपूको भ्रुवोरन्तरे त्वां समस्तागमानुद्गिरन्तं समाचिन्त्य तत्रैव दीर्घान्वितं बिन्दुयुक्तं चतुर्थोष्मरूपं मनुं स्वान्वितं सम्यगुच्चार्य सायम्मुखे मुक्तनामासने सन्निवेश्यानिलं चेडया पूरयन् केवले कुम्भके संस्थितः
सन् ततोर्ध्वीकृतेन स्वजिह्वाग्रभागेन रन्धं निरुध्योद्गतं सोमनीरं पिबेत् प्रत्यहं तस्य गीर्वाणवाणी वशा तस्य पातञ्जलं स्याज्जलं तस्य भाट्टं घरट्टोत्थपिष्टोपमं तस्य तर्कस्तु पाणिस्थकर्कन्धुका तस्य वैयासिकी गीर्मरुन्मेचिका सैष वादेषु पञ्चाननो देव यो वा घृतं ब्राह्मिकापाचितं वाथ वा कङ्गुलीबीजजालानि वाचाभिमन्व्य
त्वदीयेन मन्त्रेण नित्यं पिबेत् खातयेत् तस्य वक्त्रे कवित्वं सुधासम्मितं सम्भवेत् तस्य बुद्धिर्बहुग्रन्थसन्धारिणी स्यात् प्रभो देव यत्ते पदाम्भोजशौचोदकं शूलपाणेः शिरोभूषणं यस्य नाभ्युद्भवो लोकनिर्माणकृत् पद्मभूर्यस्य पौत्रो हरः सर्वसंहारकृद्
यस्य निःश्वासरूपाः समस्तागमा यस्य पत्नीकटाक्षस्य लेशो विधीशेन्द्रमुख्यामरस्थानदो यस्य तल्पं सशैलाटवीसिन्धुविश्वम्भराधारकः शेषभोगीश्वरो यस्य
वाहोत्तमः सर्ववेदाभिमानी खगाधीश्वरो यस्य वक्त्राग्निमध्ये सुरारातिसङ्घाः पतङ्गा बभूवुः स्वयं यस्य दिव्यो हयो भक्तिभाजां नृणां तीर्थकोट्युत्थपुण्याधिको यस्य
विज्ञानभक्त्याख्यसद्द्रव्यसम्पादकानां भवेदक्षयानन्दभोगः प्रभो देव तं त्वामहं सच्चिदानन्दमूर्ति जगज्जन्मसंरक्षणज्ञानसंहारबन्धादिहेतुं निरस्ताधिकं निःसमं
सद्गुणाम्भोनिधिं नित्यमुक्तं निजानन्दतृप्तं विभुं निर्गताशेषदोषं निरीशं स्वरोमावलीकूपसंस्थाब्जगर्भाण्डकोटिव्रजं मुक्तवागीशभोगीशपक्षीश देवेशकः दर्पसूर्यादि-
मुख्यामरैः सेवितं श्रीकराम्भोजरत्नोर्मिकादीघितिस्तोमशोणीकृताङ्घ्रिद्वयं भक्त-
लोकार्जितानेकजन्माघशुष्काटवीपावकं सर्ववेदैकवेद्यं सर्वदेवैकवन्धं महायोगिहृन्मन्दिरं सन्ततानन्तभोगासनं देवदेवं प्रणम्य प्रभो याचये साधुनिन्दात्मशंसाश्रुत-
ग्रन्थवेत्तृत्वदुःशास्त्रवेत्तृत्वदुष्टान्नभोक्तृत्वदुष्टात्मसेवाद्यनन्तापराधालयं नित्यकर्माधनुष्ठानदूरं दुराचारिणं ज्ञानहीनं सदा क्रोधलोभाद्यमित्रान्वितं स्वोत्तमाचार्यसेवानभिज्ञं कृतघ्नं नृशंसं महाघौघसिन्धौ निमग्नं कृपाम्भोनिधे पाहि निश्चञ्चलां
ते पदाम्भोजयुग्मे च भक्तिं प्रभो देहि सुज्ञानवन्तं कुरुष्वाशु यत्ते मनोज्ञं लसत्पुण्डरीकायताक्षं प्रसन्नाननं चारुमन्दस्मितं शोभनाङ्गं शशाङ्कप्रभं दिव्यसद्गन्धभूषाम्बरालङ्कृतं श्रीसखं सच्चिदानन्दरूपं सदा मन्मनःपङ्कजे ते स्थिरं स्थापयानन्तशक्ते ।
जय वाजिवक्त्र प्रभो जय सिन्धुकन्यापते जय देवचूडामणे जयानन्तमूर्ते जयानन्द सिन्धो जयागाधबोध प्रभो श्रीरमानाथ लोकैकनाथाप्रमेयाच्युतानन्त गोविन्द तुभ्यं नमस्ते नमस्ते नमः पाहि मां पाहि ।
इति श्रीहयग्रीवदण्डकं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (७७)
Proofread by Rajesh Thyagarajan