श्रीहयग्रीवाभिगमनम्
अनिरुद्धतनोर्जातमात्मभूक्लेशनाशनम् ।
अभिगच्छामि लक्ष्मीशं हयग्रीववपुर्धरम् ॥ १॥
सूर्योऽधुना सरसिजानि विकास्य सर्वान्
उत्थापयन् निजकरैस्तिमिरं निरस्य ।
प्रत्युद्गतो धृतनवासनपुण्डरीकः
श्रीवाजिवक्त्र भगवंस्तव सुप्रभातम् ॥ २॥
वेधाः पुरस्तदनु तन्महिषी गिरीशो
वाचस्पतिः कविबुधौ च कलानिधिश्च ।
देवर्षयश्च मिलिता गुरवः परे च
श्रीवाजिवक्त्र भगवंस्तव सुप्रभातम् ॥ ३॥
अन्वेषणाय मधुकैटभयोः समुद्रे
वेदाहृतेश्च कृत आदृतसम्प्रचारौ ।
ब्रह्मादिभक्तजनशीर्षपरिष्क्रियार्हौ
श्रीवाजिवक्त्रचरणौ शरणं प्रपद्ये ॥ ४॥
श्रीमन् लक्ष्मीहयमुख विभो स्वीकुरुष्वार्चनं मे
श्रीमत्तेऽहं चरणकमलं संश्रयन् साधु याचे ।
इन्दुस्यन्दाधिकशुभसुधासाररूपं त्वदीयं
रूपं चित्ते लसतु महितं सुन्दरं सेन्दिरं मे ॥ ५॥
दत्त्वा वेदं द्रुतमथ मधुं कैटभञ्चास्य चोरौ
हत्वा यस्त्वं निखिलभुवनस्रष्टृरक्षामतानीः ।
श्रीमन् लक्ष्मीहयमुख विधेह्यद्भुतं तत्त्वबोधं
क्षोभे प्राप्तेऽपि च बहुविधे प्रच्युतिर्यस्य न स्यात् ॥ ६॥
यं त्वं लक्ष्मीहयमुख पुरा स्वर्गिणां कामकामैः
आराध्यत्वं फलमपि दिशन् वेदतत्त्वार्थमन्यम् ।
तेभ्योऽवोचः सकलवचसामुत्तमेऽर्थे पुमर्थे
सर्वान्तस्स्थे त्वयि भवतु मे पारमैकान्त्यनिष्ठा ॥ ७॥
नानाबाह्येन्द्रियपरवशं वानरप्रायमेतत्
चित्तं ध्यानं कथमिह ततो वाजिवक्त्र प्रसन्नः ।
स्वच्छ-स्वादु-प्रगुण-सुभग-व्योमगङ्गाप्रवाह-
स्फीतोत्कर्षं हयमुख वचः सन्तनु श्रेष्ठतीर्थम् ॥ ८॥
वैराग्यर्द्धौ विहितमनसां नैव देवान्तरार्चा
मा भूदेषा क्वचिदनुमते सत्समृद्ध्यादिकेऽपि ।
त्वय्यभ्यर्थ्यं भवति यदिदं श्रीहयग्रीव तस्मिन्
निष्ठाभङ्गक्षपणनिपुणस्त्वं हिते चोदयेर्माम् ॥ ९॥
सत्यं सत्यप्रभृति सुहितं पुष्पमाध्यात्मिकं यत्
तेनैवार्चा तव हयमुख श्रीपते पूर्णतृप्त्यै ।
यावद्रक्ष्यं भवति गृहिणो देहवद्दारपुत्रा-
द्येतत्त्यागे त्वघमिति धिया तत्र युक्ते नियुङ्क्ष्व ॥ १०॥
कैङ्कर्यं यत्तुरगवदन त्वत्त्वदीयप्रसत्त्यै
भक्तेर्ज्ञानस्य च दृढभुवस्तत्परीवाहभूतम् ।
ज्ञानं तन्मे वितनु कृपया दुष्कृतान्ताः कृतान्त-
प्रीत्यै जाता भुवि बहुतताः येन निर्मूलिताः स्युः ॥ ११॥
त्वत्सारूप्यं सितहयमुख त्वत्स्नुषा प्राप्य पत्यु-
र्जिह्वावासा जयति चतुरास्यश्च स त्वत्कृपातः ।
पौत्रः शम्भुर्गिरिवरपतिर्दक्षिणामूर्तिरेवं
सर्वज्ञोऽभून्मयि च निखिलो बन्धुरेवं प्रसीद ॥ १२॥
मधुसूदनवीक्षणावदाता इति तस्मिन् महिते निवेदयन्तः ।
शुभधीगुणशील वाग्विलासाः सुखिनः स्युः स्वकरस्थपूरुषार्थाः ॥ १३॥
इति श्रीहयग्रीवाभिगमनं सम्पूर्णम् ।
Proofread by PSA Easwaran