श्रीहयाननविंशतिः
ध्यानम् (स्तुति प्रशंसः -
वन्देऽहं वागधीशानं वेदान्तस्तुतवैभवम् ।
विद्यासम्पत्प्रदं लक्ष्मीहयग्रीवं दयानिधिम् ॥
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तग्ं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
अथ श्रीहयाननविंशतिः ।
स्वस्ति वस्तु दिशताद्धयवक्त्रं किञ्चिदब्जसदृशाक्ष मनन्तम् ।
यत्कटाक्षपरिपातवशेन ज्ञानवान् भुवि भवेत् खलु जन्तुः ॥ १॥
रक्षोहृतवेदतया स्रष्टारं कलुषितान्तरं देवः ।
रक्षोहननेन च यो निगमेनातूतुषत् स पात्वस्मान् ॥ २॥
मधुकैटभहन्तृ रमाधरं विलसदब्जसुदर्शनदोर्युगम् ।
रमतां हृदये तुरगाननं किमपि सुन्दरमव्ययवस्तु मे ॥ ३॥
काचिन्मूर्तिर्वासुदेवस्य शुभ्रा लक्ष्मीविद्युच्छारदाम्भोरुहाभा ।
वागीशाना वाजिवक्त्राऽतिलोका चित्तेऽस्माकं नृत्यताद्वर्तमाना ॥ ४॥
सितस्फटिकभासुरे सरसिजे निषण्णं विभुं
कराग्रधृतपुस्तकं कमलया समालिङ्गितम् ।
हिमांशुसदनं प्रतिस्वनितरोदसीहेषकं
हयाननमनुत्तमं सततमन्तरीडीमहि ॥ ५॥
अस्तु मेऽद्य हृदये कमलाधृत् वस्तु किञ्चिदरविन्दनिभाक्षम् ।
प्रस्तुतार्थदमनुत्तममेवं कस्तु चेन्मम पुरो विजयी स्यात् ॥ ६॥
हृद्या लक्ष्मीर्वाजिवक्त्रस्य रक्षेत् हृद्या भक्तिर्वाजिवक्त्रस्य मेऽस्तु ।
हृद्या प्रीतिर्वाजिवक्त्रस्य भूयात् हृद्यास्तां मे वाजिवक्त्रस्सपद्मः ॥ ७॥
तुरङ्गवदनाय ते निखलवाक्प्रपञ्चेशिने
नमोवचनमहिमप्रबलविघ्ननिर्वापिणे ।
तनोतु शुभमीयिवांसमतिशीतनेत्राब्रुहो
भवा निममकिञ्चनं दृढतरं निरीक्ष्य स्वयम् ॥ ८॥
लक्ष्मीनट्या मे हृदब्जाख्यरङ्गे विद्याख्याया नाटिकायाः पुरस्तात् ।
सर्वालङ्कारैश्चमत्कारितायाः सूच्यात् स्थित्वा सूत्रधारो हयास्यः ॥ ९॥
प्रकटितनिजहेषारूपभक्ताभिकाङ्क्षं
करधृतदरचक्रं दुष्टसंहारदक्षम् ।
उरसि निवसदब्जाऽश्लिष्टमम्भोरुहाक्षं
भजत तुरगवक्त्रं स्वाश्रितारक्षदीक्षम् ॥ १०॥
प्रीतिं दधातु मयि वागधिपः प्रकामं
पद्मासखः परमकारुणिकोऽब्जनाभः ।
वेदाकृतिर्विमलचन्द्रनिभो हयास्यः
पाण्डुप्रफुल्लजलजासनसंस्थ ईड्यः ॥ ११॥
अन्तर्ध्वान्तं मे नाशयेद्वाजिवक्त्रः
प्रोद्यत्कान्त्याऽसौ दीयतामप्यमोघा ।
शक्तिर्विघ्नानां ध्वंसिनी वाक्प्रपञ्चे
सर्वं भूयात्तत्प्रेमलिप्ताक्षिपातात् ॥ १२॥
शरदभ्रसमान शरीररुचिः शितिमेघसमानशिरोजततिः ।
चपलासदृशेन्दिरया सहितो रमतां हृदये मम वाजिशिराः ॥ १३॥
य उद्गीथरूपस्सिताभ्राभवर्ष्मा
य ओङ्काररूपो रमासङ्गताङ्कः ।
स मे ज्ञानरूपं तमः प्रोच्छिनत्तु
स मे सर्व सम्पद्विवृद्धिं तनोतु ॥ १४॥
प्रभुहयाननमीडिमहे सदा विभुरसौ मम बोधयताद्गिरम् ।
न भुविमादृगनाथजनावनात् स्वभुव आत्मसमादितरद्भवेत् ॥ १५॥
त्रय्यात्मकं प्रणवरूपमुदारभावं
उद्गीथ वेदततिमूल विगीयमानम् ।
विश्वोत्तराकृति हयाननमिन्दिराभृत्
शुभ्रं किमप्यतिजगत् परधाम नौमि ॥ १६॥
हयास्य मीडीमहि धाम हृद्यं आज्ञान तामिस्र सहस्ररश्मि ।
क्रीडा विभक्तीकृत कैटभासु लक्ष्मीधरं शाश्वतमद्य किञ्चित् ॥ १७॥
दलन्नलिनपेशलं सनलिनाक्षमालं करं
दधच्छतमखारिभेदन जयश्रियं दक्षिणम् ।
भजज्जगदपारनिर्भयद मीड्यसव्याख्यकं
भजन्ति मुनयस्सदा य मितरानपेक्षं स्तुमः ॥ १८॥
सव्यं करं दक्षिण माश्रितानां सपुस्तकं वार्धिसुतावलम्बि ।
ज्ञानप्रदं रम्यमिभेन्द्रतुण्डद्युतिं भजामोऽश्वमुखस्य नित्यम् ॥ १९॥
मथितदितिजसैन्यं पाञ्चजन्यं दधानं
पवनसखशिखाभृच्चक्रमत्युग्रवक्रम् ।
भुजयुगमवतान्न स्सव्यसव्येतराख्यं
भजति यदमराणां बृन्दमश्वाननस्य ॥ २०॥
एवं हयाननस्तोत्रं भक्ता कृत्वाऽर्पय द्विभोः ।
पादयोस्तत्सतां प्रीत्यै भवेदेतत्पदे रताः ॥ २१॥
श्रीमते हयवक्त्राय श्रितरक्षणदीक्षिणे ।
श्रियाऽऽलिङ्गितपार्श्वाय मङ्गलं नित्यमङ्गळम् ॥ २२॥
इति श्रीहयाननविंशतिस्सम्पूर्णा ।
Proofread by Chandrasekhar Karumuri