श्रीहर्यष्टकम्
प्रह्लादकृतम् ।
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४॥
गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६॥
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७॥
प्राणः प्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशो वृद्धिश्श्रियावहम् ॥ १०॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।
यः पठेत्स नरो याति तद्विष्णोः परमं पदम् ॥ ११॥
इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् ।
Proofread by PSA Easwaran