हरिस्तवम्
अरुणायुतदीप्रकिरीटमहः प्रकराञ्चितनीरदनीलकचम् ।
कुटिलालकसञ्जितभृङ्गचयं कलये हरिमम्बुजनेत्रमहम् ॥ १॥
अमृतांशुकिशोरललाटतटस्फुरदूर्ध्वगचन्दनपुण्ड्रधरम् ।
कुसुमेषुधनुभ्रुवमभ्रतनुं कलये हरिमम्बुजनेत्रमहम् ॥ २॥
नतरक्षणदीक्षितपूर्णकृपामृतविक्षणपक्ष्मलनेत्रयुगम् ।
मृदुलोन्नतनासममेयगुणं कलये हरिमम्बुजनेत्रमहम् ॥ ३॥
मकराकृतिकुण्डलमण्डितसन्मणिदर्पणनिर्मलगण्डतलम् ।
कमलास्वदिताधरबिम्बसुधं कलये हरिमम्बुजनेत्रमहम् ॥ ४॥
मृदुलस्मितचारुमुखच्छविनिर्जितपार्विकशीतकरम् ।
नवभास्करकौस्तुभशोभिगलं कलये हरिमम्बुजनेत्रमहम् ॥ ५॥
अरिकबुगदाम्बुरुहात्तरिपुक्षतिकण्ठतुलार्तिशमात्मतुलैः ।
परमाद्भुतपाणिभिरुज्ज्वलितं कलये हरिमम्बुजनेत्रमहम् ॥ ६॥
सदुपायचतुष्टयसङ्कथनैरिव सुन्दरकङ्कणसङ्क्वणनैः ।
स्फुरितैरपि तैस्सुभुजैर्लसितं कलये हरिमम्बुजनेत्रमहम् ॥ ७॥
भृगुपादसमर्पणसम्भणितश्रितमन्तु सहिष्णु सुबन्धुगुणे ।
उरसि श्रियमात्तरसा दधतं कलये हरिमम्बुजनेत्रमहम् ॥ ८॥
रसमज्जनसूनसुगन्धसुखप्रदकेलिकृते जलधेर्दुहितुः ।
धृतहारसरिद्वनमालमजं कलये हरिमम्बुजनेत्रमहम् ॥ ९॥
उदरान्तरुदूढजगद्गणनानिपुणाननुमेयसुरोमलतम् ।
त्रिवलिस्फुरितं जठरं दधतं कलये हरिमम्बुजनेत्रमहम् ॥ १०॥
असमास्त्ररथाङ्गजयात्तकनत्कनकाम्बराशोभिनितम्बतलं
मणिमेखलया दृढबद्धकटीं कलये हरिमम्बुजनेत्रमहम् ॥ ११॥
कदलीतरुकाण्डकरीन्द्रकरप्रतिमानमनोज्ञतरोरुयुगम् ।
विधिभूषितनाभिशुभाम्बुरुहं कलये हरिमम्बुजनेत्रमहम् ॥ १२॥
शरणागतलोकहितार्थलसन्निधिमुग्धसमुद्गकजानुयुगं
शिखिवर्यगलस्तुतजङ्घमजं कलये हरिमम्बुजनेत्रमहम् ॥ १३॥
प्रपदद्युतिनिन्दितकूर्मवरं मणिनूपुरशिञ्जितमञ्जुपदम् ।
शशिशुभ्रनखं दुरितौघहरं कलये हारिमम्बुजनेत्रमहम् ॥ १४॥
विधिमाधवशम्भुविभेदकृतत्रिजगद्भवपालनसंहरणम् ।
सकलागमसारागतं सततं कलये हरिमम्बुजनेत्रमहम् ॥ १५॥
मुनिमानससारसहंसवरं भुजगाधिपत्ल्पगतं सुखदम् ।
भवसागरपातुकपोतपदं कलये हरिमम्बुजनेत्रमहम् ॥ १६॥
श्रितलोकहितार्थदकल्पतरुं दितिजक्षयतत्परचक्रधरम् ।
विहगाधिपवाहनमाधिहरं कलये हरिमम्बुजनेत्रमहम् ॥ १७॥
जगदार्तिहरस्य हरेरिति यः स्तवमेतमहर्मुखमेव पठेत् ।
स लभेदखिलेप्सितमत्रपरं चरमे समुपेति हि मुक्तिपदम् ॥ १८॥
इति श्रीमति कुञ्ञिलक्ष्मियम्म कृतं हरिस्तवं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran