श्रीहरिसहस्रनामस्तोत्रम्
(सर्वमङ्गलस्तोत्रम्)
ॐ श्रीगणेशाय नमः ।
स्वामिनारायणं कृष्णं भक्तिधर्मात्मजं भुवि ।
प्रादुर्भूतमहं वन्दे पातुं सद्धर्ममासुरात् ॥ १॥
कलौ घोरेऽपि यद्भक्तोऽष्टाङ्गयोगश्रमं विना ।
सद्याः समाधौ तद्धाम गोलोकादि समीक्षते ॥ २॥
यन्नामोच्चारणादेव मलौघाः कलिसम्भवाः ।
सद्यः एव विनश्यन्ति तमीडे धर्मनन्दनम् ॥ ३॥
नाम्नां सहस्रं तस्याहं ब्रुवे सत्सङ्गिजीवनात् ।
उद्धृतं यस्य पाठेन सर्वं तत्पठितं भवेत् ॥ ४॥
ॐ अस्य श्रीसर्वमङ्गलाख्यस्य श्रीहरिनामसहस्रस्तोत्रस्य
शतानद ऋषिः । अनुष्टुप्छन्दः । धर्मनन्दनः श्रीहरिर्देवता ।
धर्मप्रिय इति बीजम् । नैष्ठिकेन्द्र इति शक्तिः । भक्तिपोषक
इति कीलकम् । मम सकलमनोरथसिद्ध्यर्थे जपे विनियोगः ।
अथ करन्यासः
ॐ श्रीहरये नमोऽङ्गुष्ठाभ्यां नमः ।
ॐ कृष्णाय नमस्तर्जनीभ्यां नमः ।
ॐ हरिकृष्णाय नमो मध्यमाभ्यां नमः ।
ॐ नीलकण्ठाय नमो अनामिकाभ्यां नमः ।
ॐ नारायणाय नमः कनिष्ठिकाभ्यां नमः ।
ॐ स्वामिनारायणाय नमः करतलकरपृष्ठाभ्यां नमः ।
अथ षडङ्गन्यासः ।
ॐ श्रीहरये नमो हृदयाय नमः ।
ॐ कृष्णाय नमः शिरसे स्वाहा ।
ॐ हरिकृष्णाय नमः शिखायै वषट् ।
ॐ नीलकण्ठाय नमः कवचाय हुम् ।
ॐ नारायणाय नमो नैत्राभ्यां वौषट् ।
ॐ स्वामिनारायणाय नमोऽस्त्राय फट् ।
अथ ध्यानम् ।
श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं
तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा ।
ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै-
र्हारैः शेखरपङ्क्तिभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ ५॥
अथ सहस्रनामस्तोत्रम् ।
ॐ स्वामि ब्रह्म परब्रह्म श्रीकृष्णाः पुरुषोत्तमः ।
ब्रह्मधामा वासुदेव ईशेशो दिव्यविग्रहः ॥ ६॥
सुव्रतात्मा गजन्नाथ इष्टदः करुणानिधिः ।
प्रतापसिंहशरणं शतानन्दवरप्रदः ॥ ७॥
नारायणो नरसखो बदरीशस्तपः प्रियः ।
स्वधर्मस्थो मुनिध्येयो महर्षिगणपूजितः ॥ ८॥
अधर्मवैरी दुर्वासः सप्तधर्माद्यनुग्रहः ।
धर्मावतारो धर्मात्मा भक्तिधर्मानुशासनः ॥ ९॥
रामानन्दो जनानन्द औद्धवाध्वप्रवर्तकः ।
विष्णुयागप्रियो भक्तिधर्माराधित ईश्वरः ॥ १०॥
वृन्दावनेन्दुर्वरदोमुनिसङ्घहितावहः ।
द्रोण्यर्तिहर्ता विघ्नेशो धर्मसङ्कष्टनाशनः ॥ ११॥
भक्तिधर्मात्मजो भूमा भक्तिधर्मतपःफलम् ।
सावर्णिगोत्रतिलकोमध्वाद्यनवमीजनुः ॥ १२॥
जनमङ्गलदिव्याङ्गो नराकृतिरलौकिकः ।
भूतलानन्दजनको द्विजेन्द्रकुलभूषणम् ॥ १३॥
रामप्रतापावरजो हनूमदभिरक्षितः ।
हरिकृष्णो हरिः कृष्णो नीलकण्ठो वृषात्मजः ॥ १४॥
स्त्रीवृन्दलालितो भक्तिनन्दनः प्रियदर्शनः ।
हरिप्रसादहर्षाब्धिधर्मप्रत्नीस्तनन्धयः ॥ १५॥
क्रीडद्बालव्रजानन्दः कालीदत्तमदापनुत् ।
इच्छारामाग्रजोऽयोद्यावासो बाल्यमनोहरः ॥ १६॥
सरयूनियतस्नानः सीतारामेक्षणोत्सुकः ।
प्रदक्षिणीकृतायोध्यः करात्तजपमालिकः ॥ १७॥
वर्णिव्रतधरो दान्तो गुरुभक्तः उदारधीः ।
अधीताखिलसच्छास्त्रः सामगो निरहङ्कृतिः ॥ १८॥
प्रसूपदिष्टसाङ्गात्मभक्तिरज्ञानहारकः ।
पितृप्रत्तात्मविज्ञानः पितृदिव्यगतिप्रदः ॥ १९॥
निराशस्तीव्रवैराग्यः सन्त्यक्तगृहबान्धवः ।
वर्णीवेषो महासत्त्वः स्वजनाज्ञातनिर्गमः ॥ २०॥
असंलम्बितसच्छास्त्रसारोद्धाराल्पपुस्तकः ।
गणंशस्मरणस्तीर्णसरयूदैत्यमोहनः ॥ २१॥
वनवासरुचिः श्राद्धो विप्रेन्द्रो नैष्ठिकाग्रणीः ।
हिमाद्रिसानुचरणो निर्भयो भीतभैरवः ॥ २२॥
निःशङ्कस्थो हनुमद्दत्तस्वादुफलाशनः ।
पुलहाश्रमवासोऽर्कप्रीणनोऽर्कसमीक्षणः ॥ २३॥
ऊर्ध्वदोरेकपादस्थो विस्मापिततपोधनः ।
कृशो महातपाः शुद्धो भक्तिधर्मनिषेवितः ॥ २४॥
गोपालयोगिसम्प्राप्तसाङ्गयोगोऽतिधैर्यवान् ।
योगक्रियापटुः कर्ता कृतज्ञो भूरितीर्थकृत् ॥ २५॥
ब्रह्मात्मसंस्थितिः शान्तः सिद्धवल्लभपूजितः ।
गोपालरक्षकः सिद्धदर्पहा मान्त्रिकार्चितः ॥ २६॥
तैलङ्गविप्रदोषघ्नः कृत्याभीषणदर्शनः ।
पिवैकमानहाकालभैरवत्रासदेक्षणः ॥ २७॥
जगन्नाथपुरावास आसुरावेशहृद्विभुः ।
धार्मिकोऽसुरगुर्वोघोच्छेदहेतुरविक्रियः ॥ २८॥
सत्रधर्मार्चितः कान्तः स्वप्रतापाक्षितासुरः ।
नानातीर्थकृतावासः प्रावृडभ्रावकाशकृत् ॥ २९॥
ग्रीष्मसाधितपञ्चाग्निः शिशिराम्बुस्थितिः शुचिः ।
निर्मानो निर्ममोऽस्नेहो निष्कामो निर्जितेन्दिर्यः ॥ ३०॥
जितनिद्रो जितक्रोधो निर्मदो निःस्पृहोऽचलः ।
कृच्छ्रव्रती सत्यवादी क्षमी धर्मनिसन्ततः ॥ ३१॥
जितत्र्यवस्यो मेधावी दम्भहीनस्तपोधनः ।
उपवीतीवल्कवासास्तरुमूलनिकेतनः ॥ ३२॥
अहिंसवृत्तिस्तेजस्वी निर्निमेषविलोचनः ।
धनुर्मुक्तेषुगमनो ब्रह्मदर्शी महामतिः ॥ ३३॥
अयाचिताहृतारो निर्द्वन्द्वो निष्परिग्रहः ।
वाय्वाहारो जलाहारो मिताहारोऽक्षताङ्गः ॥ ३४॥
ज्ञानी ध्यानी जितस्वादः प्रत्याहारहठोऽस्मयः ।
पावनस्तैर्थिकगुरुवर्णिराजो दयाकरः ॥ ३५॥
जटी कौपीनवासनः शालग्रामतृषाहरः ।
शिवाप्तसक्तुरक्षोभ्यो निःसङ्गोऽध्यावित्तमः ॥ ३६॥
सदासमाधिरानन्दी निर्दोषो दोषनाशनः ।
कान्तारगतिरेकाकीसर्वसाधुगुणालयः ॥ ३७॥
तैर्थिकस्तीर्थ धर्मज्ञसतीर्थस्थाधर्मनाशनः ।
अनादृतवपुः सौख्यः प्राणायामपरो व्रती ॥ ३८॥
ऋषिवृत्तिर्मुनिर्मौनीनिर्विकल्पोऽल्पभाषणः ।
वस्त्रपूतोदकपिबो यावदर्थागचेष्टितः ॥ ३९॥
ब्रह्मज्ञस्वैरवर्तित्वबोधिग्रन्थविवर्जनः ।
निरूपानदपृष्टाध्वाघोरारण्यचरोऽभ्रमः ॥ ४०॥
स्त्र्यङ्गगन्धासहोऽसक्तो जडाङ्गिरसवर्तनः ।
ऊर्ध्वरेता ब्रह्मचारी योगी योगज्ञसन्नतः ॥ ४१॥
योगीन्द्र दुश्चराचारः सौराष्ट्रजनपावनः ।
लोजलोकमहानन्दः साधुः साधुप्रपूजितः ॥ ४२॥
अनुच्चारितदुर्वाक्यो मधुराक्षरभाषणः ।
त्यागिमान्यो महायोगी सदाश्चर्यक्रियः स्थिरः ॥ ४३॥
ध्याता ध्यातृमनोदर्शीमनस्वी मानदो मृदुः ।
प्रश्नोत्तरपटुर्वेदतत्त्वज्ञो बुद्धिमान्बुधः ॥ ४४॥
उद्धवेक्षोत्सुकोऽनन्तःपत्रीलेखपटुः प्रभुः ।
पत्र्युत्तरज्ञातनिजैश्वर्य साध्वतिमानितः ॥ ४५॥
रामानन्दस्वामिवीक्षानन्दः साधुप्रियः प्रयः ।
बोधन्याप्तमहादीक्षो गुरुसेवापरो यमी ॥ ४६॥
भक्तो नारायणमुनिः सहजानन्द आत्मदृक् ।
गुरुमान्यो गुरुप्रेष्ठो गुर्वन्तिककृताञ्जलिः ॥ ४७॥
गुर्वाज्ञाकृततत्पार्श्वोपवेशगमनक्रियः ।
नारायणानन्यमतिरेकान्तिकमुनिप्रियः ॥ ४८॥
वर्णीन्द्रो नैष्ठिकप्रेष्ठ एकान्तिकसदर्चकः ।
यशस्वी भूरितेजस्वी वैदिको ब्रह्मवर्चसी ॥ ४९॥
सन्न्यायवर्ती निर्द्वेषो भक्तिहर्षविवर्धनः ।
गृहीतहितवाक् सर्वभूततत्त्वविदूहवान् ॥ ५०॥
सत्यप्रियः सत्यपरो निष्कामनरवल्लभः ।
अद्रोहकः सदोद्योगी षडूर्मिविजयक्षमः ॥ ५१॥
धर्मकार्यक्षिप्रकारी दीर्धदर्शी विचारवान् ।
देशकालाद्यविहतस्वस्वरूपाचलस्थितिः ॥ ५२॥
सत्तमो दमधृद्दक्षो विनीतः स्मृतिमान् ऋजुः ।
सच्छास्त्रव्यसनोऽव्यग्रीऽभिमानिपुरुषारुचिः ॥ ५३॥
अतिसर्वमतिर्वाग्मी सत्सङ्गिजनवल्लभः ।
अप्रमत्तोऽतिप्रगल्भोऽनलसोऽन्यगुणग्रहः ॥ ५४॥
सदाचारप्रियः शुष्कज्ञानिवादतमोरविः ।
कृष्णार्पितान्नगन्धादिदेवतापितृयाजकः ॥ ५५॥
सद्यः प्रश्नसमाधानविस्मापितसभाजनः ।
अजातशत्रुः समद्दक् धर्मनिष्ठमहादरः ॥ ५६॥
अनसूयोऽचमप्रज्ञः कामशास्त्रविवर्जनः ।
दीनाल्पविक्ल्वत्वेक्षाजाततीप्रव्यथाकुलः ॥ ५७॥
स्वधर्मादिगुणोपेतहर्य भक्तजनारुचिः ।
सन्मण्डलावासरुचि सन्मण्डलपरायणम् ॥ ५८॥
सच्छास्त्रनिन्दितत्यागी प्रशास्तार्थनिषेवकः ।
सम्पदापत्समो मोक्षधिषणः प्रतिभानवान् ॥ ५९॥
सुचिरश्रुतसच्छास्त्रो नापमानितसज्जनः ।
वाक्यार्थक्षिप्रविच्छत्रुमित्रदत्तसमोत्तरः ॥ ६०॥
अग्राह्यवस्त्वनाकाङ्क्षी नष्टवस्तुसुचोज्झितः ।
ययोचितसमाराम्भः सफलारब्धसत्क्रियः ॥ ६१॥
सच्छास्त्रानुगतप्रज्ञो दैवपित्र्यस्वकर्मकृत् ।
अपैशुन्यकृदद्यूतः पापिसंसर्ग्यनादरः ॥ ६२॥
ब्रह्मनिन्दाश्रवःखेदः स्त्रीप्रसङ्गभृशारुचिः ।
अकार्याचरणहीतः समयोचितभाषणः ॥ ६३॥
निर्लज्जानतसद्विप्रगुरुदेवपदाम्बुजः ।
मुक्तानन्दानुगस्तुष्टो गुणाब्दि सन्मनोहरः ॥ ६४॥
गुरुदत्तजनस्वाम्यः सुरम्यविषयारुचिः ।
गुरुयाचितभक्तान्तदुःखस्वप्राप्तिसद्वरः ॥ ६५॥
अतिमानुषसत्कर्मा सुखसेव्योऽखिलेष्टदः ।
प्रपन्नाभयदः श्रीमानुत्तमोत्तम आत्मवान् ॥ ६६॥
तापत्रितयहृद्वार्तः सदसद्व्यक्तिवित्तमः ।
सत्पतिः सर्वहितकृज्ज्ञानदो भवमोचकः ॥ ६७॥
भूरिप्रतापो निर्मोहो महाराजो नृपार्चितः ।
अधृष्योऽविकृतोऽजयः शरण्यो भक्तवत्सलः ॥ ६८॥
अतर्क्योऽनुपमोऽपारोऽप्रमादोऽव्यय उज्ज्वलः ।
धर्मशंसी धर्महेतुर्वेदगूढार्थबोधकः ॥ ६९॥
कालमायाभयत्राता भक्तवर्म सुमङ्गलः ।
उपासनारीतिवक्ता ब्रह्मधामव्रदर्शकः ॥ ७०॥
ब्रह्मभूतपरब्रह्मोपासनास्थापकोऽक्षरः ।
कन्दर्पदर्पदलनो नैष्ठिकप्रतपोषकः ॥ ७१॥
अदीनदिव्यचरितो मनोनिग्रह्युक्तिदः ।
वरणीयोऽन्यदुःखज्ञः संसारार्णवनाविकः ॥ ७२॥
स्वामिनारायणो वाक्यसुधातर्पितसत्सभः ।
विधवास्पर्शदोषातिप्रख्यातोपशमस्थितिः ॥ ७३॥
प्रतिबिम्बांशवादादिमततूलदवानलः ।
सभक्तिधर्मधर्माढ्यभक्तियोगप्रवर्तकः ॥ ७४॥
प्रोक्तासद्देशकालादिदोषो निष्कपटप्रियः ।
सद्देशकालादिगुणज्ञापकः सत्प्रशंसकः ॥ ७५॥
स्वधर्मशिथिलाप्रीतिर्भक्तकल्पमहीरुहः ।
धर्महीनज्ञानभक्तिदोषभूयस्त्वबोधकः ॥ ७६॥
स्वधर्महीनपुरुषत्यागी सत्यप्रतिश्रुतः ।
बह्वन्नसत्रो विष्ण्वादिपञ्चायतनमाननः ॥ ७७॥
विप्रापराधसहनः सत्यसङ्कल्प आशुदः ।
सान्वयाधर्ममूलघ्नो यज्ञकृद्ब्राह्मणप्रियः ॥ ७८॥
विष्णुस्वरूपाविष्कारो निर्मायः सर्वदर्शनः ।
जनसाहस्रयुगपत्समाधिस्थितिकारकः ॥ ७९॥
स्वेक्षायातनरस्त्र्योघान्योऽन्यसम्मर्दसद्यशाः ।
विप्रभोजनसंहृष्टो विप्रात्मा विप्रपूजितः ॥ ८०॥
वेदैकवेद्यो दिव्याङ्गो मेघजिद्दर्पभञ्जनः ।
सर्वयोगकलोद्भासी स्वतन्त्रः सर्वविद्वशी ॥ ८१॥
कृष्णात्माऽऽकृष्टहृदयो देशिको दिव्यदर्शनः ।
गोलोकरमणो ब्रह्मक्रीडो वैकुण्ठनायकः ॥ ८२॥
अनेकमूर्तिरण्डस्थो बहिःस्थो योगशिक्षकः ।
पुरःसरो मनोवेगः स्वनेता दर्शितामरः ॥ ८३॥
विष्णुयागसमारम्भः षण्मासाशितवाडवः ।
नानदेशगतिर्नानायज्ञकृद्भूरिदक्षिणः ॥ ८४॥
सद्यःसमाधिः सर्वात्मा निरीशमतखण्डनः ।
मकारपञ्चकोच्छेता धर्मसर्गप्रपोषकः ॥ ८५॥
पापिकृतान्तः परमः पुण्यकीर्तिः पृथुश्रुवाः ।
कृशोध्धवाध्वसम्पोष्टा साध्वीधर्मप्रवर्तकः ॥ ८६॥
दैत्यांशगुरुखद्योतभास्करो धर्मधारकः ।
लोभादिदोषगदिता तामसव्रतवर्जनः ॥ ८७॥
सुव्रतः सिद्धिदः सिद्धः सिद्धेशः सिद्धिपोऽच्युतः ।
कौलाध्वशापदः प्रोक्तासुरलक्ष्माऽसुरातिगः ॥ ८८॥
भुजङ्गनगरानन्दो निजभक्तस्तुतो महान् ।
अहिंसास्थापको भूरिनिजैश्वर्यप्रदर्शकः ॥ ८९॥
दूरदेशस्थात्मभक्त दत्त साक्षात्स्वदर्शनः ।
सच्छास्त्रोदितसत्कीर्तिरात्यन्तिकगतिप्रदः ॥ ९०॥
परापकारसाहस्रविस्मृतिः कोमलान्तरः ।
पाषण्डरक्षितात्मीयो दैत्यमोहनचेष्टितः ॥ ९१॥
अखण्डितार्षमर्यादः परगुह्याप्रकाशकः ।
पात्रार्पितबहुद्रव्यो यथायुक्तोपदेशकः ॥ ९२॥
अविग्रहप्रियो वाणीदण्डपारुष्यवर्जितः ।
ब्रह्मण्यदेवो देवेज्यो दशरूपप्रदर्शकः ॥ ९३॥
अकुण्ठितवचा देशाचारज्ञोऽनादृतोद्धतः ।
शिक्षार्थक्षणरुङ् नित्यमैत्रः सच्छास्त्रसङ्ग्रही ॥ ९४॥
धर्मिपक्षः साधुसेवी पुण्यश्रवणकीर्तनः ।
प्रणतार्तिहरः पूज्यो विषयासक्तनिन्दकः ॥ ९५॥
भक्तदेहान्तसमयदत्तदिव्यस्वदर्शनः ।
यमदूतावितस्वीयो नरकार्तिनिवारकः ॥ ९६॥
सन्मार्गवर्तिताशेषस्वाश्रितः शीघ्रसिद्धिदः ।
अनायरोगिवृद्धार्भभिक्षुपोषणकारकः ॥ ९७॥
गूढाशयो गूढमन्त्रः सर्वजीवप्रतारकः ।
भक्तासद्वासनोच्छेत्ताऽसदाग्रहविवर्जनः ॥ ९८॥
पोष्यवर्गानुविहिततत्समानमिताशनः ।
आपत्कालात्यक्तनिजः पञ्चकालर्चिताच्युतः ॥ ९९॥
योगेश्वरो मुनिपतिर्नित्यमुक्तो महामुनिः ।
बौद्धादिनास्तिकमतखण्डनः पण्डितार्चितः ॥ १००॥
अहिंसयज्ञप्रस्तोता वैष्णवक्रतुकारकः ।
मद्यमांससुरागन्धाघ्राणशुद्धिविधापकः ॥ १०१॥
मत्तोन्मत्तखलावादी पुरस्कृतगुणाधिकः ।
नानाभक्तजनानन्दः सदसद्व्यक्तिदर्शकः ॥ १०२॥
भृगुनान्दीशशापार्तजनरक्षक उत्तमः ।
वेदविच्छास्त्रविद्वादिदुर्जेयो हृतसंशयः ॥ १०३॥
खट्वाङ्गात्मा हृदम्भोजध्येयो ध्यातृमनोहरः ।
ज्योतिः संस्थोऽतिरम्याङ्गः सुरेखारुणपत्तलः ॥ १०४॥
चार्वाङ्गुलिर्नखेन्द्वालिर्प्रभापहृतहृत्तमाः ।
पद्मकोशातिमृदुलचरणस्तुङ्गगुल्फकः ॥ १०५॥
ह्रस्वजङ्घो वृत्तजानुः समोरुः सत्सितांशुकः ।
गम्भीरनाभिराजानुभुजस्ततभुजान्तरः ॥ १०६॥
कण्ठलम्बितहारालिः कम्बुकण्ठोऽरुणाधरः ।
प्रफुल्लपद्मवदनः कुन्ददन्तो मितस्मितः ॥ १०७॥
तिलपुष्पाभनासान्तश्यामबिन्दुः समश्रवाः ।
वामश्रवोऽन्तरश्यामबिन्दुः पद्मदलेक्षणः ॥ १०८॥
विशालभालतिलकः सूक्ष्मवक्रशिरोरुहः ।
शिरः पटलसत्पुष्पापीडराजिः स्वभक्तदृक् ॥ १०९॥
अवतारी भयत्राताऽभयराजवरप्रदः ।
कृतदुर्गपुरावासः क्रोधयन्ताऽद्भुतक्रियः ॥ ११०॥
नानादेशप्रेषितस्वभक्तनाशितदुष्क्रियः ।
असुरक्लिष्टसत्सङ्घसान्त्वनः साधुवल्लभः ॥ १११॥
सद्रोहिगुरुभूपालशिक्षकक्ष्मेशराज्यदः ।
गवेन्द्रार्चितपादाब्जो गवेन्द्रवरदोऽनधः ॥ ११२॥
भक्तत्रातोद्धवस्वामिसम्प्रदायप्रकाशकः ।
विप्रप्रशंसनस्तीर्थविधिबोधक आर्तिहृत् ॥ ११३॥
विप्रसन्तर्पणो नानाप्रतवक्ता महायशा ।
कौलोच्छिद्विजयो वर्ण्यविष्णुयागमहोत्सवः ॥ ११४॥
भक्तिगम्यो भक्तवशः कृतदिग्विजयोऽक्षयः ।
भक्तिधर्मकृतानन्दः सर्वमङ्गलदर्शनः ॥ ११५॥
उत्तमात्मा जयोप्रेष्ठो ललितेष्टवरप्रदः ।
मुकुन्दसेवासन्तुष्टो जयानीतपयःपिबः ॥ ११६॥
नारायणधृतामन्त्रो वासुदेवादत्तचन्दनः ।
गोपलमञ्जितामन्त्रोऽखण्डाप्तार्चनसाधनः ॥ ११७॥
उमानाथाप्तपुष्पादिर्जयप्रक्षालिताम्बरः ।
ललितासंस्कृतान्नादिः पञ्चाल्यालिप्तपाकभूः ॥ ११८॥
अवरामार्जितवासः शिवोपानितपादुकः ।
दयगोविन्दाप्तवन्यो मयरामाविताम्बरः ॥ ११९॥
प्रयागोक्तपुराणाधिर्निशानित्यकथादरः ।
मुक्तब्रह्मस्तुतयशाः प्रेमगीतगुणश्रुतिः ॥ १२०॥
महानुभावमुदितः शुकरक्षितपुस्तकः ।
आनन्दकल्पितावासः विजयोत्सवतोषितः ॥ १२१॥
यथार्हकारितात्मीयसेवनो भक्तकामधुक् ।
निबद्धोत्सवपर्यायो विजयोत्सवतोषितः ॥ १२२॥
अन्नकूटकृतानुज्ञो महासम्भारहारकः ।
पत्रदूताहूतभक्तः पाकशालावलोकनः ॥ १२३॥
प्रत्युद्गतमुनिव्रातो मानिताखिलवैष्णवः ।
सत्प्रीणनः क्षणस्वापो दीपालीमङ्गलाप्लवः ॥ १२४॥
ब्रह्मक्षणाशुविहितनैत्यकोऽखिलधर्मवित् ।
चारुचक्रकपीठस्थ उत्तमक्ष्मेशपूजितः ॥ १२५॥
भक्तस्वेक्षाप्रदानोत्को मयरामेक्षणस्मितः ।
भक्तसम्प्रीणनधृतनूतनांशुकभूषणः ॥ १२६॥
अनर्घ्यपीतकौशेयपरिधानविचक्षणः ।
मुकुटाकृतिसम्बद्धशोणशीर्षपटद्युतिः ॥ १२७॥
सस्वर्णबिन्दुकौसुम्भसत्कञ्चुकधृतिप्रभः ।
स्कन्धोल्लसद्धैमपटः कटिबद्धारुणांशुकः ॥ १२८॥
हैमाङ्गदलसद्बाहुः कर्णशोभितकुण्डलः ।
कण्ठलम्बितसस्वर्णमुक्ताहारालिशोभनः ॥ १२९॥
चञ्चत्सुवर्णकटकशृङ्खलाभकरद्वयः ।
सद्रत्नखचितस्वर्णमुद्रिकाशोभिताङ्गुलिः ॥ १३०॥
सत्केसरोर्ध्वतिलकः सरक्ताक्षतचन्द्रकः ।
अवतंसोल्लसत्कर्णश्चलत्कौसुमशेखरः ॥ १३१॥
सुगन्धिपुष्पहारालिदर्शनीयो मनोहरः ।
गजेन्द्रगमनोऽर्काशुचञ्चद्वासाः स्मिताननः ॥ १३२॥
उच्चरम्यासनासिनो मुनिमण्डलमध्यगः ।
सोमवर्मोद्धृतच्छत्रो मुकुन्दधृतनक्तकः ॥ १३३॥
अलयभृगुजिद्रत्नदण्डचामरवीजितः ।
सूरनाञ्जात्तव्यजनो जपमाललसत्करः ॥ १३४॥
स्वेक्षणानन्दितस्वीयः श्रुतकीर्तिर्निजार्चितः ।
विप्रसात्कृतवित्तौघो दानशूरो निरेषणः ॥ १३५॥
उत्मत्तगङ्गाप्लवनो दीपावलिमहोत्सवः ।
नित्यकर्मादरो नूत्नवसनो दीनवत्सलः ॥ १३६।
सदर्चितोऽन्नकूटेक्षो रमारञ्जनभोजनः ।
सदाशनो बद्धकटिः स्वभक्तपरिवेषणः ॥ १३७॥
भक्तभुक्तीक्षणानन्दः सदानन्दो महाशयः ।
सत्सङ्गदीपको भक्तशिक्षादक्ष उरुक्रमः ॥ १३८॥
धर्मरक्षाकरः स्पर्शाविवेको धर्मसिद्धिदः ।
निष्कामसिद्धिदस्त्यागिसेव्योऽद्वैतो जपप्रियः ॥ १३९॥
एकादशीव्रतविधिप्रवक्तैकादशीश्वरः ।
प्रबोधनीव्रताचारो महादानप्रतोषितः ॥ १४०॥
मुनिप्रतोषो विदुरनीतिशास्त्रप्रशंसनः ।
अक्षरस्थो मुनिव्रातस्तुतो योषिद्गणेडितः ॥ १४१॥
भक्त्येकतोष्यो भक्त्यात्मा भक्तग्राममहोत्सवः ।
वृत्तालयपुरावासो भक्तसङ्घसुखप्रदः ॥ १४२॥
प्राप्तस्वबन्धुसन्मानो भूरितर्पितपार्षदः ।
गङ्गार्पितफलाहारो भक्तसङ्घसमर्चितः ॥ १४३॥
नानादेशीयभक्तौघार्पितवित्तौघदानकृत् ।
भक्तभ्रातृद्वयावासपर्यायकृतभोजनः ॥ १४४॥
दोलोत्सवविधानज्ञो नरनारायणार्चकः ।
रङ्गक्रीडनकृन्मुक्तकामचारनिषेधकः ॥ १४५॥
स्त्रीपुंप्रसङ्गभूर्यापद्दर्शको धर्मदेशिकः ।
साष्टाङ्गब्रह्मचर्यैकस्थापको धर्मवित्तमः ॥ १४६॥
गृहीतरनरस्त्र्यङ्गस्पर्शदोषप्रकाशकः ।
स्त्रीपुंसान्योन्यसंस्पर्शव्यवस्थाकृद्विदां वरः ॥ १४७॥
आहारशुद्धिकृत् सद्यःपापनिष्कृतिकारकः ।
वेदान्ततत्त्वप्रथनः साङ्ख्ययोगार्थदर्शकः ॥ १४८॥
अदाम्भिकप्रियोऽतृष्णो गुणग्राहीगुणप्रियः ।
पुराणश्रवणौत्सुक्यः पुराणविधिबोधकः ॥ १४९॥
श्रीमद्भागवतश्रोता श्रीमद्भागवतार्चकः ।
श्रीमद्भागवताभिज्ञः श्रीमद्भागवतार्पकः ॥ १५०॥
श्रीमद्भागवतोत्कृष्टपुरश्चरणकारकः ।
जन्माष्टम्युत्सवापूर्णजीववर्ममनोरथः ॥ १५१॥
कार्यायननरानन्दो वास्तुवेश्मनिकेतनः ।
सूरसम्भावनः शाकसंस्कारानन्दितस्वकः ॥ १५२॥
नागटङ्कजनप्रीतः शुकप्रश्नकृतोत्तरः ।
चान्द्रायणव्रताराध्यः पञ्चालजनपावनः ॥ १५३॥
शिवरात्रिव्रताचारः कृतदोलामहोत्सवः ।
द्वैताद्वैतार्थनिगमहार्दबोधी महोदयः ॥ १५४॥
दिव्याङ्गभक्तिधर्मादिरूपप्रेक्षयिताऽमृतः ।
हेमन्तार्चास्तुतिप्रीतो जीर्णदुर्गजनार्चितः ॥ १५५॥
कृततीर्थविधिर्विप्रभोजनो भूरिदोऽभव ।
दुर्गभक्तातिसुखदः कृतकृत्यो जगत्पतिः ॥ १५६॥
रहःस्थो गूढसङ्कल्पो हरिमन्दिरकारकः ।
महारम्भः सदास्वस्थ: कलिदोषहरोद्यमः ॥ १५७॥
कृतश्रीनगरवासो महासम्भारसाधकः ।
श्रीपुरेशार्हितः सभ्यः पूर्तकर्मप्रशंसकः ॥ १५८॥
नरनारायणाद्यर्चा स्थापकः पौरमानितः ।
क्षेत्रमाहात्म्यगदिता महोत्सवविधापकः ॥ १५९॥
एकाहभोजिताशेषपौरविप्रो बहुप्रदः ।
पूजोत्सवव्यवस्थाकृद्गाङ्गेयप्रार्थितो मनुः ॥ १६०॥
मूलीपुःस्थापितश्रीमद्राधाकृष्णोऽक्षरप्रदः ।
निबद्धोत्सवमर्यादो भक्ताभीष्टफलप्रदः ॥ १६१॥
भुजङ्गपुरभक्तातिप्रीतः पौरप्रपूजितः ।
नरनारायणप्रतिष्ठापको विप्रपूजकः ॥ १६२॥
वृत्तालयाक्षिपद्मार्कः शिल्पिसन्मानकारकः ।
लक्ष्मीनारायणाद्यर्चास्थापकोऽर्चितभूसुरः ॥ १६३॥
धवलमुरलीमनोहरसंस्थापकोऽर्थदः ।
संस्थापितजयतल्प रेवतीबलदेवकः ॥ १६४॥
मुक्तादिष्टोत्पथच्छेदश्चित्रार्चार्चापवर्तकः ।
द्वारिकाप्रेषितसुहृत्तीर्थवास्यघदर्शकः ॥ १६५॥
सत्त्राता द्वारिकेशात्मा भक्तापद्दर्शनाक्षमः ।
सच्चिदानन्दवरदो लक्ष्मीनारायणात्मकः ॥ १६६॥
वर्धितक्षेत्रमाहात्म्यस्तप्तमुद्राङ्कितस्वकः ।
मुक्तात्मा त्रियुगो वादिजेताऽनुयुगसम्भवः ॥ १६७॥
असुराविदितेशत्वः प्रकटेश्वरलक्षणः ।
अन्तः संशयहृद्वार्तो दुराचारविमोचनः ॥ १६८॥
अशस्त्रो धिषणाशस्त्रो आसुरावेशकर्षणः ।
लडुकादीष्टगणपः सिन्दूरादिष्टमारुतिः ॥ १६९॥
वृत्तालयप्रियो धर्मजन्माहार्चितसद्विजः ।
महासभासनो दत्तविध्युपात्तसुतद्वयः ॥ १७०॥
पुत्राविन्यस्तगुरुतः पुत्रसात्कृतसंश्रितः ।
सदोविभक्तदेशादिः सम आचार्यशिक्षकः ॥ १७१॥
भक्तिजन्माहभक्तौघरतर्पणश्चित्रिताधिप ।
नृपामात्यार्थितः पौरप्रीतो वटपुरागमः ॥ १७२॥
मन्त्रिप्रत्युद्गतो नानावाद्यवादकसंवृतः ।
सालङ्कारगजारुढश्चारुचामरवीजितः ॥ १७३॥
दृक्पावितजनव्रतः सिंहजिन्नृपपूजितः ।
स्वप्रतापपराभूत विद्वद्वैरिकृतानतिः ॥ १७४॥
सिंहजित्संशयच्छेत्ता भक्तिरीतिप्रदर्शकः ।
रघुवीरार्पितस्वीयभूषावित्तनवांशुकः ॥ १७५॥
सर्वजीवहितः सर्वसच्छास्त्ररसदोहनः ।
अनाकुलमनाः शिक्षापत्रीलेखनकृत्स्वभूः ॥ १७६॥
सामान्यधर्मवचनो विशेषवृषवर्णनः ।
निगमाद्यष्टसच्छास्त्रातिरुचिः शास्त्रसारवित् ॥ १७७॥
विशिष्टाद्वैतमतधृत् साकारब्रह्मवर्णनः ।
रामानुजकृताग्रन्थ श्रुतिपाठप्रवर्तकः ॥ १७८॥
गृहीतविठ्ठलेशोक्तव्रतोत्सविधिः सुधीः ।
यताधिकारसद्धर्मवक्ता वैदिकसम्मतः ॥ १७९॥
शिक्षापत्रीस्थापितस्वमाहात्म्यः पाठसिद्धिदः ।
सद्धर्मातिप्रवृत्तीच्छुः शिक्षापत्रीप्रवर्तकः ॥ १८०॥
प्रमोदिताश्रितजनो नरनारायणेक्षणः ।
महादोलोत्सवोऽयोध्याप्रसादर्पितसुद्वसुः ॥ १८१॥
धौरेयस्थापितश्रीमद्राधामदनमोहनः ।
पुत्रोपदिष्टश्रीकृष्णमन्त्रदीक्षाविधिक्रमः ॥ १८२॥
प्रोक्तदीक्षितसद्धर्मः कृष्णपूजाविधापकः ।
प्रोक्तापराधनिर्हारः क्षमासारः सदर्चनः ॥ १८३॥
स्त्र्याचार्यपत्नीशिष्यत्वस्थापकः शिष्यशासनः ।
पुत्रदत्तमहादीक्षः पुत्रदीक्षितपूरुषः ॥ १८४॥
स्नुषादीक्षितयोषः श्रीराधाकृष्णेष्टदेवतः ।
सत्सङ्गिध्येयसन्मूर्तिरेकान्तिकपरायणम् ॥ १८५॥
पुत्रप्रोक्ताब्दिकाशेषव्रतोत्सवविधिक्रमः ।
गोपालप्रश्नसंहृष्टस्त्यागिधर्मोपदेशकः ॥ १८६॥
लोभोन्मूलनधीदाता कामोत्खननयुक्तिदः ।
दुर्जेयरसजिद्बोधो निःस्नेहत्वविधापकः ॥ १८७॥
मानसर्पविषत्राता कृष्णैकान्तिकशंसनः ।
सधर्मज्ञानवैराग्यभक्तिबोधनपाटवः ॥ १८८॥
ज्ञानस्वरूपनिर्णेता नियन्ता पुरुषात्मकः ।
प्रकृतीशो महाकालो मायेशोऽव्याकृतात्मकः ॥ १८९॥
हिरण्यगर्भस्तत्त्वात्मातत्त्वलक्षणलक्षकः ।
वैराजोऽखिलविश्वात्मा बुद्धिप्रेरक ईशिता ॥ १९०॥
जीवेश्वरब्रह्ममायारूपयाथार्थ्यबोधकः ।
निर्गुणो गुणवृत्तिज्ञो बद्धजीवनिमोचनः ॥ १९१॥
भक्त्याराध्यो महादेवो ज्ञेयो ध्येयः प्रकाशकः ।
शेषीकृताक्षरपरश्रीकृष्णः कालकालनः ॥ १९२॥
कृष्णसेवाहीनमुक्तिचतुष्कोच्छापहापकः ।
आदिष्टसाङ्ख्यसिद्धान्तो निजज्ञानफलप्रदः ॥ १९३॥
ऋष्यात्मकश्चतुर्वर्णाश्रमधर्मनिरूपकः ।
षट्कर्मविधिनिर्णेता गायत्रीमन्त्रदैवतः ॥ १९४॥
स्मार्तवक्ता श्रौतवक्ता विप्रधर्मविशेषवित् ।
जीविकावृत्तिनिर्णेता हेयोपादेयबोधकः ॥ १९५॥
आशौचनिर्णयः श्राद्धविधिवक्ता विधिप्रियः ।
कलिहेयार्थनिर्णेता रजधर्मनिरूपकः ॥ १९६॥
पतिव्रताधर्मवक्ता विधवाधर्मरक्षकः ।
नानाव्रतसमाराध्यः पूजाविध्युपदेशकः ॥ १९७॥
स्पर्शनिर्णयकृद्वानप्रस्थधर्मप्रदर्शकः ।
सन्न्यासधर्मगदिता साङ्गनिष्कृतिबोधकः ॥ १९८॥
जीर्णदुर्गस्थापित श्रीद्वारिकेशादिरात्मदः ।
ब्रह्मचारिधर्मवक्ता बृहद्धर्ममहादरः ॥ १९९॥
दुर्गालयस्थापित श्रीगोपीनाथोऽखिलार्थदः ।
सहाङ्गयोगोपदेष्टा पिण्डब्रह्माण्डनिर्णयः ॥ २००॥
भूतस्वरूपनिर्णेता वायुभेदनिरूपकः ।
कालज्ञानवदो योगसिद्धिहेतुप्रदर्शकः ॥ २०१॥
शतानन्दस्तुतः स्तुत्यो भक्तवाञ्छितपूरकः ।
शिक्षापत्रीग्रन्थनकः शिक्षापत्रीविधिब्रुवः ॥ २०२॥
शिक्षापत्र्यर्थसन्तुष्टो लीलासन्दर्भकारकः ।
निर्वासनस्तिरोधानलीलासम्मोहितासुरः ॥ २०३॥
वैमानिकवृतो हृष्टदेववृन्दसमर्चितः ।
स्वार्चाप्रादुष्कृतैश्वर्यो दत्तप्रत्यक्षदर्शनः ॥ २०४॥
भक्तेक्षाहसितः पुष्पाद्युपाहर्ताऽन्नभोजनः ।
क्षीरपो नीरपः स्वोपयाचकेष्टाशुसिद्धिदः ॥ २०५॥
पुत्रदो वित्तदो विद्याप्रदो वैरभयापहः ।
अपमृत्युहरो भुक्तिप्रदो मुक्तिद आश्रयः ॥ २०६॥
ऐश्वर्यदो रोगहरो ज्ञानकृद्भक्तिदोऽधिपः ।
समाधिदस्तमोहर्ता सर्वमङ्गलमङ्गलम् ॥ २०७॥
(फलश्रुतिः)
इत्येतच्छ्रीहरेर्नाम्नां सहस्रं परिकीर्तितम् ।
स्वरूपगुणचारित्रानुबन्धीप्सितसिद्धिदम् ॥ २०८॥
एतद्धि परमं स्तोत्रं सर्वमङ्गलसंज्ञितम् ।
यःपठेच्छृणुयाद्वाऽसौ नित्यं मङ्गलमाप्नुयात् ॥ २०९॥
धर्मसर्गे मतिस्तस्य स्थिरा स्यान्मुक्तिदायिनी ।
जयेदधर्मसर्गं च बन्धहेतुं स सत्वरम् ॥ २१०॥
भुक्तिं मुक्तिं तथैकान्तभक्तिं चास्य प्रभावतः ।
देहान्ते च हरेर्धाम गोलोकं प्राप्नुयाद्धि सः ॥ २११॥
तस्मादेतत्सदा भक्त्या पठनीयमिहौद्धवैः ।
भक्तैः पुंभिर्द्विजैः स्रीभिः सच्छूद्रैरपि दीक्षितैः ॥ २१२॥
नैतत्खलाय दातव्यं न धर्मशिथिलाय च ।
नाभक्ताय क्वचिद्देयं देयं भक्ताय सर्वथा ॥ २१३॥
एतत्सदामङ्गलकारि पुंसां तथाऽखिलामङ्गलनाशकारि ।
स्तोत्रं भवत्युद्धववर्मभाजां यतोऽधिकङ्किञ्चननास्ति पाठ्यम् ॥ २१४॥
इति श्रीमदुद्धवसम्प्रदायाचार्यप्रवर श्रीसहजानन्दस्वामिशिष्य
शतानन्दमुनिविरचितं सर्वमङ्गलाख्यं
श्रीहरिसहस्रनामस्तोत्रं समाप्तम् ॥
Encoded by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, NA