हरिहरस्तुतिः
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ ।
कामारिं कामतातं वा कञ्चिद्देवं भजामहे ॥ १॥
गाङ्गयामुनयोगेन तुल्यं हारिहरं वपुः ।
पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा ॥ २॥
अबलाढ्यविग्रहश्रीरमर्त्यनतिरक्षमालयोपेतः ।
पञ्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरनादिः ॥ ३॥
पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः ।
शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ ४॥
गवीशपत्रो नगजार्तिहारी कुमारतातः शशिखण्डमौलिः ।
लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो वः ॥ ५॥
स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्
तदवतु वपुरेकं कामकंसद्विषोर्वः ।
भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या
सदृशमहसि कण्ठे यत्र सीमाविवादः ॥ ६॥
सम्प्राप्तं मकरध्वजेन मथनं त्वत्तो मदर्थे पुरा
तद्युक्तं बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव ।
तामेवानुनयस्व-भावकुटिलां हे कृष्ण कण्ठग्रहं
मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः ॥ ७॥
यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ
देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।
द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ ८॥
लोले ब्रूहि कपालिकामिनि पिता कस्ते पतिः पाथसां
कः प्रत्येति जलादपत्यजननं प्रत्येति यः प्रस्तरात् ।
इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरीं
संस्मेरस्य हरेर्हरस्य च मुदो निघ्नन्तु विघ्नं तु वः ॥ ९॥
यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां
वामा यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि ।
लङ्केशाद्येकनाथो हिमकररुचिभृद्भूविशेषाश्रयोऽसौ
वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः स्मरारिः ॥ १०॥
इति हरिहरस्तुतिः समाप्ता ।
Proofread by PSA Easwaran