हरिहरप्रार्थना
(* गीतिवृत्तम)
किमु (१)माधव! । भगवन् ! मामतिदीनमुपेक्षसे? न युक्तमिदं ।
भो (२)नाथ! भवव्यसने त्राता त्वं परमवत्सलो वरदः ॥ १॥
प्रभुता जगत्सु भवतो नतजनभवदुःखलय (३)महादेव! ।
कुरु हर! उचितं शुचि तं स्वयमेव स्वं विचिन्त्य महिमानम् ॥ २॥
(४)मामव शम्भो! । भगवन्नवनीरदनीलकण्ठ ! पतितं त्वम्;
किमशक्यं तव लोके करुणावरुणालय! प्रभोरेतत् ॥ ३॥
गौरीश(५)! । ननु त्राता भवता शरणागता निकामहित !
यशसाखिलसाधुप्तभा कामं (६)शोभनन्दशावतारमिता ॥ ४॥
न(७) हि केशव! । तुल्यास्ते भक्ता व्यक्तातिशयितवात्सल्य !
मन्तुं क्षमस्व नमतो भवतापं चास्य हर! दया कार्या ॥ ५॥
भो भव(८) हर! । शरणागतसङ्गोपनसहताच्युत! स्वामिन् !
का(९) मदनकाल! शक्तिः प्रभवति पुरतस्तव प्रभो स्थातुम् ॥ ६॥
जगतां गुरुं विना त्वां संसारे कोऽत्र (१०)वामदेव हितः ।
न (११) रमापतेऽद्य मातं त्राता भ्राता सखा पिता पुत्रः ॥ ७॥
पालयसि सर्वमपि जनमचिरात्कर्पूरगौर! । कीर्तिरतं ।
एतमपि तथा पालय (१२)भालयमेतु त्वमेव देव गतिः ॥ ८॥
प्रभुरसि यशः श्रुतं ते कृतवांस्त्वं पर्वतं(१३) पुरारेणुम् ।
धाव विनाशं कर्तुं मम पापस्याशु तोषकरकीर्ते ! ॥ ९॥
याचे स्वां निस्तारं भ्रान्तोऽत्र चिरं (१४)भवान्धकारेऽहम् ।
मा राधिकाप्रिय! त्यज मा करुणानीरदाश्रितमयूरम् ॥ १०॥
इति श्रीरामनन्दनमयूरेश्वरकृता श्रीहरिहरप्रार्थना समाप्ता तदपितास्तु ।
टिप्पणि
* अत्र कविः सभङ्गश्लेषभड्गीमनुसृत्य सम्बोधनैर्हरि हरं च स्वोद्धाराय विज्ञापयति ।
१। ``किं उमाधव'' इति ``किमु माधव'' इति च पदच्छेदः ।
२। नाथ भव इति हरपक्षे सम्बुद्धिदयम् । हरिपक्षे तु नाथ भवव्यसने संसारदुःखे त्वं त्राता इति योज्यम् ।
३। महान् देवो महादेव इति हर इति चोभयत्रापि योज्यम् ।
४। हरिपक्षे मां अवशं भोः भगवन् अब नीरदनील कण्ठपतितं इति पदच्छेदः। भो नीरदनील घनश्याम भगवन् कण्ठपतितं मामवेत्यन्वयः । हरपक्षे तु मां अव शम्भो भगवन् नवनीरदनीलकण्ठ पतितं इति पदच्छेदः । अन्वयस्तु सुलभः ।
५। हरिपक्षे गौः ईश इति पदच्छेदः । गौः पृथिवी ।
६। हरपक्षे शोभनदश अवता रमिता इति पदच्छेदः । शोभनदशेति सम्बुद्धिपदम् । हरिपक्षे शोभनदशावतारं इता इति पदच्छेदः ।
७। प्रथमार्धं, हरिपरम् । द्वितीयार्धे तु हरिपक्षे नमतो भक्तस्य मन्तुमपराधं क्षमस्व भवतापं चास्य हरेत्यन्वयः । हरपक्षे तु हे पञ्चास्य, भवता दया कार्या इत्यन्वयः ।
८। हरिपक्षे भवहरेत्येकं पदम् । हरपक्षे तु पदद्वयम् । तद्वदेव हरिपक्षे शरणागत सद्रत अच्युत इति पदच्छेदः । हरपक्षे तु शरणागतसद्रतादच्युत इति पञ्चमीसमासः ।
९। हरिपक्षे हे कामद कालशक्तिस्तवपुरतः स्थातुं न प्रभवतीत्यन्वयः । हरपक्षे
तु हे मदनकाल का शक्तिस्तव पुरतः स्थातुं प्रभवतीत्यन्वयः ।
१०। हरिपक्षे वा मदे अवहितः इति पदच्छेदः । हरपक्षे तु वामदेव हितः इति ।
११। हरिपक्षे न रमापते अद्य मा आर्तं इति पदच्छेदः । भ्रात्रादयस्त्रातारो न सन्तीत्यर्थः । हरपक्षे तु नरं आपतेत् यमार्तं इति पदच्छेदः । यमार्तं नरं भ्रात्रादयो न त्रातुमापतेयुर्गच्छेयुरित्यर्थः ।
१२। प्रथमार्धं हरपरम् । द्वितीयार्धे तु हरिपक्षे मालय मे तु इति पदच्छेदः । मालय लक्ष्मीनिवास । हरपक्षे मा लयं एतु इति पदच्छेदः ।
१३। हरिपक्षे पर्वतं पुरा रेणुं इति पदच्छेदः । रेणुवल्लघुमित्यर्थः । हरपक्षे त पुरारे अणुं इति पदच्छेदः । द्वितीयार्थे त हर पक्षे तु आशुतोष करकीर्ते इति सम्बुद्धौ पदद्वयम् । मम पापस्य विनाशं कर्तुं धावेत्यन्वयः । हरिपक्षे तोषकरकीर्ते इत्येकं पदम् ।
१४। प्रथमार्थे हरपक्षे भव इति भिन्नं पदम् । हरिपक्षे तु भवान्धकारे इत्येकमेव । द्वितीयार्धे तु हरिपक्षे हे राधिकाप्रिय करुणानीरद आश्रितं मयूरं मां मा त्यजेत्यन्वयः । हरपक्षे तु मारस्य मदनस्याधिकमप्रिय इत्येकं पदं। शेषं समानं ।
Proofread by Rajesh Thyagarajan