श्रीहंसगुह्यस्तोत्रम्
नमः परायावितथानुभूतये
गुणत्रयाभासनिमित्तबन्धवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिः
निवृत्तमानाय दधे स्वयम्भुवे ॥ १॥
न यस्य सख्यं पुरुषोऽवैति सख्युः
सखा वसन्संवसतः पुरेऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टेः
तस्मै महेशाय नमस्करोमि ॥ २॥
देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनन्तमीडे ॥ ३॥
यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसप्रमोषात् ।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नमः ॥ ४॥
मनीषिणोऽन्तर्हदि सन्निवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पाञ्चदश्यं
मनीषया निष्कर्षन्ति गूढम् ॥ ५॥
स वै ममाशेषविशेषमाया
निषेधनिवाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः ॥ ६॥
यद्यन्निरुक्तं वचसा निरूपितं
धियाऽक्षभिर्वा मनसा वोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षणः ॥ ७॥
यस्मिन् यतो येन च यस्य यस्मै
यद्यो यथा कुरूते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ ८॥
यच्छक्तयो वदतां वादितां वै
विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं
तस्मै नमोऽनन्तगुणाय भूम्ने ॥ ९॥
अस्तीति नास्तीति च वस्तुनिष्ठयोः
एकस्थयोर्भिन्नविरुद्धधर्मयोः ।
अवेक्षितं किं च न योगसाङ्ख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ १०॥
योऽनुगहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः ।
नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ ११॥
यः प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति ।
यथानिलः पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतान्मनोरथम् ॥ १२॥
इति हंसगुह्यस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran