श्रीगुसाईंजीकृतदण्डकः
व्रजराजविराजितघोषवरे वरणीयमनोहररूपधरे ।
धरणीरमणीरमणैकपरे परमार्तिहरस्मितविभ्रमके ॥ १॥
मकराकृतिकुण्डलशोभिमुखे मुखरीकृतनूपुरहृद्यगते ।
गतिसङ्गतभूतलतापहरे हरसक्तविमोहनगानपरे ॥ २॥
परमप्रियगोपवधूहृदये दययाऽमिततापहरे सुहृदाम् ।
हृदयस्थितगोकुलवासजने जनहृद्यविहारपरे सततम् ॥ ३॥
ततवेणुनिनादविनोदपरे परचित्तहरे स्मितमात्रकथे ।
कथनीयगुणालयपादयुगे युगले युगले सृदृशां सुरते ॥
रतिरस्तु मम व्रजराजसुते ॥ ४॥
इति श्रीगुसाईंजीकृतदण्डकः समाप्तः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com