गोवर्धनोद्धरणम्
श्रीगोवर्धनोद्धरणाय नमः ।
झमज्झमिति वर्षति स्तनितचक्रविक्रीडया
विमुष्टरविमण्डले घनघटाभिराखण्डले ।
ररक्ष धरणीधरोद्धृतिपटुः कुटुम्बानि यः
स दारयतु दारुणं व्रजपुरन्दरस्ते दरम् ॥ १॥
महाहेतुवादैर्विदीर्णेन्द्रयागं
गिरिब्राह्मणोपास्तिविस्तीर्णरागम् ।
सपद्येकयुक्तीकृताभीरवर्गं
पुरोदत्तगोवर्धनक्ष्माभृदर्घम् ॥ २॥
प्रियाशंसिनीभिर्दलोत्तंसिनीभि-
र्विराजत्पटाभिः कुमारीघटाभिः ।
स्तुवद्भिः कुमारैरपि स्फारतारैः
सह व्याकिरन्तं प्रसूनैर्धरं तम् ॥ ३॥
गिरिस्थूलदेहेन भुत्केपहारं
वरश्रेणिसन्तोषिताभीरदारम् ।
समुत्तुङ्गशृङ्गावलीबद्धचैलं
क्रमात् प्रीयमाणं परिक्रम्य शैलम् ॥ ४॥
मखध्वंससंरम्भतः स्वर्गनाथे
समन्तात् किलारब्धगोष्ठप्रमाथे ।
मुहुर्वर्षति च्छन्नदिक्चक्रवाले
सदम्भोलिनिर्घोषमम्भोदजाले ॥ ५॥
मुहुर्वृष्टिखिन्नां परित्रासाभिन्नां
व्रजेशप्रधानां ततिं वल्लवानाम् ।
विलोक्याप्तशीतां गवालीं च भीतां
कृपाभिः समुन्नं सुहृत्प्रेमनुन्नम् ॥ ६॥
ततः सव्यहस्तेन हस्तीन्द्रखेलं
समुद्धृत्य गोवर्धनं सावहेलम् ।
अदभ्रं तमभ्रंलिहं शैलराजं
मुदा बिभ्रतं विभ्रमज्जन्तुभाजम् ॥ ७॥
प्रविष्टासि मातः कथं शोकभारे
परिभ्राजमाने सुते मय्युदारे ।
अभुवन् भवन्तो विनष्टोपसर्गा
न चित्ते विधत्त भ्रमं बन्धुवर्गा ॥ ८॥
हता तावदीइर्विधेया न भीतिः
कृतेयं विशाला मया शैलशाला ।
तदस्यां प्रहर्षादवज्ञातवर्षा
विहस्यामरेशं कुरुध्वं प्रवेशम् ॥ ९॥
इति स्वैरमाश्वासितैर्गोपवृन्दैः
परानन्दसन्दीप्पितास्यारविन्दैः ।
गिरेर्गर्तमासाद्य हर्म्योपमानं
चिरेणातिहृष्टैः परिष्टूयमानम् ॥ १०॥
गिरीन्द्रं गुरुं कोमले पञ्चशाखे
कथं हन्त धत्ते सखा ते विशाखे ।
पुरस्तादमुं प्रेक्ष्य हा चिन्तयेदं
मुहुर्मामकीनं मनो याति भेदम् ॥ ११॥
स्तनद्भिः कठोरे घनैर्ध्वान्तघोरे
भ्रमद्वातमाले हताशेऽत्र काले ।
घनस्पर्शिकूटं वहन्नन्नकूटं
कथं स्यान्न कान्तः सरोजाक्षि तान्तः ॥ १२॥
न तिष्ठन्ति गोष्ठे कठोराङ्गदण्डाः
कियन्तोऽत्र गोपाः समन्तात् प्रचण्डाः ।
शिरीषप्रसूनावलीसौकुमार्ये
धृत्वा धूरियं भूरिरस्मिन् किमार्ये ॥ १३॥
गिरे तात गोवर्धन प्रार्थनेयं
वपुः स्थूलनालीलघिष्ठं विधेयम् ।
भवन्तं यथा धारयन्न् एष हस्ते
न धत्ते श्रमं मङ्गलात्मन्नमस्ते ॥ १४॥
भ्रमत्कुन्तलान्तं स्मितद्योतकान्तं
लसद्गण्डशोभं कृताशेषलोभम् ।
स्फुरन्नेत्रलास्यं मुरारेस्त्वमास्यं
वराकूटशालि स्फुटं लोकयालि ॥ १५॥
निपीयेति राधालतावाङ्मरन्दं
वरप्रेमसौरभ्यपूरादमन्दम् ।
दधानं मदं भृङ्गवत्तुङ्गकूजं
वराङ्गीचलापाङ्गभङ्गाप्तपूजम् ॥ १६॥
कथं नाम दध्यात् क्षुधाक्षामतुन्दः
शिशुर्मे गरिष्ठं गिरीन्द्रं मुकुन्दः ।
तदेतस्य तुण्डे हठादर्पयारं
व्रजाधीश दध्नाचितं खण्डसारम् ॥ १७॥
महाभारनिष्ठे सृते ते कनिष्ठे
लभे वत्स नीलाम्बरोद्दामपीडाम् ।
अवष्टभ्य सत्त्वं तदसमि बल त्वं
ददस्वाविलम्बं स्वहस्तावलम्बम् ॥ १८॥
इति स्निग्धवर्णां समाकर्णयन्तं
गिरं मातुरेनां च निर्वर्णयन्तम् ।
कनिष्ठाङ्गुलीशृङ्गविन्यस्तगोत्रं
परिप्रीणितव्यग्रगोपालगोत्रम् ॥ १९॥
अमीभिः प्रभावैः कुतोऽभूदकुण्ठः
शिशुधूलिकेलीपटुः क्षीरकण्ठः ।
बिभर्त्यद्य साप्ताब्दिको भूरिभारं
गिरिं यच्चिरादेष कैलाससारम् ॥ २०॥
न शङ्का धरभ्रंशनेऽस्माकमस्मान्
नखाग्रे सहेलं वहत्येष यस्मात् ।
गिरिदिक्करीन्द्राग्रहस्ते धरावद्
भुजे पश्यत्यास्य स्फुरत्यद्य तावत् ॥ २१॥
इति स्फारतारेक्षणैर्मुक्तभोगै-
र्व्रजेन्द्रेण सार्धं धृतप्रीतियोगैः ।
मुहुर्वल्लवैर्वीक्ष्यमानास्यचन्द्रं
पुरः सप्तरात्रान्तरत्यक्ततन्द्रम् ॥ २२॥
तडिद्दामकीर्णान् समीरैरुदीर्णान्
विसृष्टाम्बुधारान् धनुर्यष्टिहारान् ।
तृणीकृत्य घोरान् सहस्रांशुचौरान्
दुरन्तोरुशब्दान् कृतावज्ञमब्दान् ॥ २३॥
अहङ्कारपङ्कावलीलुप्तदृष्टे-
र्व्रजे यावदिष्टं प्रणीतोरुवृष्टेः ।
बलारेश्च दुर्मानितां विस्फुरन्तं
निराकृत्य दुष्टालिदण्डे दुरन्तम् ॥ २४॥
विसृष्टोरुनीराः सझञ्झासमीरा-
स्तडिद्भिः कराला ययुर्मेघमालाः ।
रविश्चाम्बरान्तविभात्येष शान्तः
कृतानन्दपूरा बहिर्यात शूराः ॥ २५॥
इति प्रोच्य निःसारितज्ञातिवारं
यथापूर्वविन्यस्तशैलेन्द्रभारम् ।
दधिक्षीरलाजाङ्कुरैर्भाविनीभि-
र्मुदा कीर्यमाणं यशःस्ताव्नीभिः ॥ २६॥
वयं हन्त गोविन्द सौन्दर्यवन्तं
नमस्कुर्महे शर्महेतोर्भवन्तम् ।
त्वयि स्पष्टनिष्ठ्यूत भूयश्चिदिन्दुं
मुदा नः प्रसादीकुरु प्रेमबिन्दुम् ॥ २७॥
क्षुभ्यद्दम्भोलिजृम्भोत्तरलघनघटारम्भगम्भीरकर्मा
निस्तम्भो जम्भवैरी गिरिधृतिचटुलाद् विक्रमाद् येन चक्रे ।
तन्वा निन्दन्तमिन्दीवरदलवलभीनन्ददिन्दिन्दिराभां
तं गोविन्दाद्य नन्दालयशशिवदनानन्द वन्देमहि त्वाम् ॥ २८॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीगोवर्धनोद्धरणं सम्पूर्णम् ।